संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्|
सर्गः ३२

उत्पत्तिप्रकरणम् - सर्गः ३२

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
अथ वीरवरोत्कण्ठनृत्यदप्सरसि स्थिता ।
लीलावलोकयामास व्योम्नि विद्यान्वितावनौ ॥१॥
स्वराष्ट्रमण्डले भर्तृपालिते बलमालिते ।
कस्मिंश्चिद्विततारण्ये द्वितीयाकाशभीषणे ॥२॥
सेनाद्वितयमाक्षुब्धं सौम्याब्धिद्वितयोपमम् ।
महारम्भघनं मत्तं स्थितं राजद्वयान्वितम् ॥३॥
युद्धसज्जं सुसंनद्धमिद्धमग्निमिवाद्भुतम् ।
पूर्वप्रहारसंपातप्रेक्षाक्षुब्धाक्षिलक्षितम् ॥४॥
उद्यतामलनिस्त्रिंशधारासारवहज्जनम् ।
कचत्परश्वधप्रासभिन्दिपालर्ष्टिमुद्गरम् ॥५॥
गरुत्मत्पक्षविक्षुब्धवनसंपातकम्पितम् ।
उद्यद्दिनकरालोकचञ्चत्कनककङ्कटम् ॥६॥
परस्परमुखालोककोपप्रोद्दामितायुधम् ।
अन्योन्यबद्धदृष्टित्वाच्चित्रं भित्ताविवार्पितम् ॥७॥
लेखामर्यादया दीर्घबद्धया स्थापितस्थिति ।
अनिवार्यमहासैन्यझांकाराश्रुतसंकथम् ॥८॥
पूर्वप्रहारस्मयतश्चिरं संशान्तदुन्दुभि ।
निबद्धयोधसंस्थाननिखिलानीकमन्थरम् ॥९॥
धनुर्द्वितथमात्रात्मशून्यमध्यैकसेतुना ।
विभक्तं कल्पवातेन मत्तमेकार्णवं यथा ॥१०॥
काये संकटसंरम्भचिन्तापरवशेश्वरम् ।
विरटद्भेककण्ठत्वग्भङ्गुरातुरहृद्गुहम् ॥११॥
प्राणसर्वस्वसंत्यागसोद्योगासंख्यसैनिकम् ।
कर्णाकृष्टशरौघौघत्यागोन्मुखधनुर्धरम् ॥१२॥
प्रहारपातसंप्रेक्षानिष्पन्दासंख्यसैनिकम् ।
अन्योन्योत्कण्ठकाठिन्यभरभ्रुकुटिसंकटम् ॥१३॥
परस्परसुसंघट्टकटुटङ्कारकङ्कटम् ।
वीरयोधमुखादग्धभीरुप्रेप्सितकोटरम् ॥१४॥
मिथःसंस्थानकालोकमात्रासंदिग्धजीवितम् ।
समस्ताङ्गरुहासक्तप्रांशुवृद्धेभमानवम् ॥१५॥
पूर्वप्रहारसंप्रेक्षाव्यग्रप्राणतया तया ।
संशान्तकल्लोलरवं निद्रामुद्रपुरोपमम् ॥१५॥
संशान्तशङ्खसंघाततूर्यनिर्ह्राददुन्दुभि ।
भूतलाकाशसंलीनसर्वपांसुपयोधरम् ॥१७॥
पलायनपरैः पश्चात्त्यक्तमङ्गुलमण्डलम् ।
विसारिमकरव्यूहमत्स्यसंख्याब्धिभासुरम् ॥१८॥
पताकामञ्जरीपुञ्जविजिताकाशतारकम् ।
हास्तिकोत्तम्भितकरकाननीकृतखान्तरम् ॥१९॥
तरत्तरलभापूरसपक्षसकलायुधम् ।
धमद्धमितिशब्दैश्च श्वासोस्थैर्ध्मातखान्तरम् ॥२०॥
चक्रव्यूहकराक्रान्तदुर्वृत्तसुरभासुरम् ।
गरुडव्यूहसंरम्भविद्रवन्नागसंचयम् ॥२१॥
श्येनव्यूहविभिन्नाग्रसंनिवेशोत्तमध्वनि ।
अन्योन्यास्फोटनिःशेषप्रपतद्भूरिवृन्दकम् ॥२२॥
विविधव्यूहविन्यासवान्तवीरवरारवम् ।
करप्रतोलनोल्लासमत्तमुद्गरमण्डलम् ॥२३॥
कृष्णायुधांशुजलदश्यामीकृतदिवाकरम् ।
अनिलाधूतपल्यूलसूत्कृताभशरध्वनि ॥२४॥
अनेककल्पकल्पाग्रसवृन्दमिव संस्थितम् ।
प्रलयानिलसंक्षुब्धमेकार्णवमिवोत्थितम् ॥२५॥
सद्यश्छिन्नं महामेरोः पक्षद्वयमिव स्फुरत् ।
क्षुब्धमारुतनिर्धूतमिव कज्जलपर्वतम् ॥२६॥
पातालकुहरात्क्षुब्धमन्धकारमिवोत्थितम् ।
लोकालोकमिवोन्मत्तनृत्यलोललसत्तटम् ।
महानरकसंघातं भित्त्वावनिमिवोत्थितम् ॥२७॥
आलोलकुन्तमुसलासिपरश्वधांशु-
श्यामायमानदिवसातपवारिपूरैः ।
एकार्णवं भुवनकोशमिवाचिरेण
कर्तुं समुद्यतमगाधमनन्तपूरैः ॥२८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने आहवारम्भणं नाम द्वात्रिंशः सर्गः ॥३२॥

N/A

References : N/A
Last Updated : September 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP