संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ६६ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ६६ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ६६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।एवमेकं परं वस्तु राम नानात्वमेत्यलम् ।नानात्वमिव संजातं दीपाद्दीपशतं यथा ॥१॥यथाभूतमसद्रूपमात्मानं यदि पश्यति ।विचार्यतेऽन्तस्तदनुभावहीनं न शोचति ॥२॥चित्तमात्रं नरस्तस्मिन्गते शान्तमिदं जगत् ।उपानद्गूढपादस्य ननु चर्मास्तृतैव भूः ॥३॥पत्रमात्रादृते नान्यत्कदल्या विद्यते यथा ।भ्रममात्रादृते नान्यज्जगतो विद्यते तथा ॥४॥जायते बालतामेति यौवनं वार्धकं ततः ।मृतिं स्वर्गं च नरकं भ्रमाच्चेतो हि नृत्यति ॥५॥विचित्रबुद्बुदोल्लासे स्वात्मनो व्यतिरेकिणि ।यथा सुरायाः सामर्थ्यं तथा चित्तस्य संसृतौ ॥६॥यथा द्वित्वं शशाङ्कादौ पश्यत्यक्षिमलाविलम् ।चिच्चेतनकलाक्रान्ता तथैव परमात्मनि ॥७॥यथा मदवशाद्भ्रान्तान्क्षीबः पश्यति पादपान् ।तथा चेतनविक्षुब्धान्संसारांश्चित्प्रपश्यति ॥८॥यथा लीलाभ्रमाद्बालाः कुम्भकृच्चक्रवज्जगत् ।भ्रान्तं पश्यन्ति चित्तात्तु विद्धि दृश्यं तथैव हि ॥९॥यदा चिच्चेतति द्वित्वं तदा द्वैतैक्यविभ्रमः ।यदा न चेतति द्वैतं तदा द्वैतैक्ययोः क्षयः ॥१०॥यच्चेत्यते तदितरद्व्यतिरिक्तं चितोऽस्ति न ।किंचिन्नास्तीतिसंशान्त्या चितः शाम्यति चेतनं ११चिद्धनेनैकतामेत्य यदा तिष्ठति निश्चलः ।शाम्यन्व्यवहरन्वापि तदा संशान्त उच्यते ॥१२॥तन्वी चेतयते चेत्यं घना चिन्नाङ्ग चेतति ।अल्पक्षीबः क्षोभमेति घनक्षीबो हि शाम्यति ॥१३॥चिद्धनैकप्रपातस्य रूढस्य परमे पदे ।नैरात्म्यशून्यवेद्याद्यैः पर्यायैः कथनं भवेत् ॥१४॥चिच्चेतनेन चेत्यत्वमेत्येवं पश्यति भ्रमम् ।जातो जीवामि पश्यामि संसरामीत्यसन्मयम् ॥१५॥स्वभावाद्व्यतिरिक्तं तु न चित्तस्यास्ति चेतनम् ।स्पन्दादृते यथा वायोरन्तः किं नाम चेत्यते ॥१६॥चेत्यत्वं संभवत्येवं किंचिद्यच्चेत्यते चिता ।रज्जुसर्पभ्रमाभासं तमविद्याभ्रमं विदुः ॥१७॥संविन्मात्रचिकित्स्येऽस्मिन्व्याधौ संसारनामनि ।चित्तमात्रपरिस्पन्दे संरम्भो न च किंचन ॥१८॥यदि सर्वं परित्यज्य तिष्ठस्युत्क्रान्तवासनः ।अमुनैव निमेषेण तन्मुक्तोऽसि न संशयः ॥१९॥यथा रज्ज्वां भुजङ्गाभा विनश्यत्येव वीक्षणात् ।संविन्मात्रविवर्तेन नश्यत्येव हि संसृतिः ॥२०॥यत्राभिलाषस्तन्नूनं संत्यज्य स्थीयते यदि ।प्राप्त एवाङ्ग तन्मोक्षः किमेतावति दुष्करम् ॥२१॥अपि प्राणांस्तृणमिव जयन्तीह महाशयाः ।यत्राभिलाषस्तन्मात्रत्यागे कृपणता कथम् ॥२२॥यत्राभिलाषस्तत्त्यक्त्वा चेतसा निरवग्रहम् ।प्राप्तं कर्मेन्द्रियैर्गृह्णस्त्यजन्नष्टं च तिष्ठ भोः ॥२३॥यथा करतले बिल्वं यथा वा पर्वतः पुरः ।प्रत्यक्षमेव तस्यालमजत्वं परमात्मनः ॥२४॥आत्मैव भाति जगदित्युदितस्तरङ्गैःकल्पान्त एक इव वारिधिरप्रमेयः ।ज्ञातः स एव हि ददाति विमोक्षसिद्धिंत्वज्ञात एव मनसे चिरबन्धनाय ॥२५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने संसृतिपरमयोगो नाम षटषष्टितमः सर्गः ॥६६॥ N/A References : N/A Last Updated : September 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP