संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ३२ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणम् - सर्गः ३२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३२ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथ वीरवरोत्कण्ठनृत्यदप्सरसि स्थिता ।लीलावलोकयामास व्योम्नि विद्यान्वितावनौ ॥१॥स्वराष्ट्रमण्डले भर्तृपालिते बलमालिते ।कस्मिंश्चिद्विततारण्ये द्वितीयाकाशभीषणे ॥२॥सेनाद्वितयमाक्षुब्धं सौम्याब्धिद्वितयोपमम् ।महारम्भघनं मत्तं स्थितं राजद्वयान्वितम् ॥३॥युद्धसज्जं सुसंनद्धमिद्धमग्निमिवाद्भुतम् ।पूर्वप्रहारसंपातप्रेक्षाक्षुब्धाक्षिलक्षितम् ॥४॥उद्यतामलनिस्त्रिंशधारासारवहज्जनम् ।कचत्परश्वधप्रासभिन्दिपालर्ष्टिमुद्गरम् ॥५॥गरुत्मत्पक्षविक्षुब्धवनसंपातकम्पितम् ।उद्यद्दिनकरालोकचञ्चत्कनककङ्कटम् ॥६॥परस्परमुखालोककोपप्रोद्दामितायुधम् ।अन्योन्यबद्धदृष्टित्वाच्चित्रं भित्ताविवार्पितम् ॥७॥लेखामर्यादया दीर्घबद्धया स्थापितस्थिति ।अनिवार्यमहासैन्यझांकाराश्रुतसंकथम् ॥८॥पूर्वप्रहारस्मयतश्चिरं संशान्तदुन्दुभि ।निबद्धयोधसंस्थाननिखिलानीकमन्थरम् ॥९॥धनुर्द्वितथमात्रात्मशून्यमध्यैकसेतुना ।विभक्तं कल्पवातेन मत्तमेकार्णवं यथा ॥१०॥काये संकटसंरम्भचिन्तापरवशेश्वरम् ।विरटद्भेककण्ठत्वग्भङ्गुरातुरहृद्गुहम् ॥११॥प्राणसर्वस्वसंत्यागसोद्योगासंख्यसैनिकम् ।कर्णाकृष्टशरौघौघत्यागोन्मुखधनुर्धरम् ॥१२॥प्रहारपातसंप्रेक्षानिष्पन्दासंख्यसैनिकम् ।अन्योन्योत्कण्ठकाठिन्यभरभ्रुकुटिसंकटम् ॥१३॥परस्परसुसंघट्टकटुटङ्कारकङ्कटम् ।वीरयोधमुखादग्धभीरुप्रेप्सितकोटरम् ॥१४॥मिथःसंस्थानकालोकमात्रासंदिग्धजीवितम् ।समस्ताङ्गरुहासक्तप्रांशुवृद्धेभमानवम् ॥१५॥पूर्वप्रहारसंप्रेक्षाव्यग्रप्राणतया तया ।संशान्तकल्लोलरवं निद्रामुद्रपुरोपमम् ॥१५॥संशान्तशङ्खसंघाततूर्यनिर्ह्राददुन्दुभि ।भूतलाकाशसंलीनसर्वपांसुपयोधरम् ॥१७॥पलायनपरैः पश्चात्त्यक्तमङ्गुलमण्डलम् ।विसारिमकरव्यूहमत्स्यसंख्याब्धिभासुरम् ॥१८॥पताकामञ्जरीपुञ्जविजिताकाशतारकम् ।हास्तिकोत्तम्भितकरकाननीकृतखान्तरम् ॥१९॥तरत्तरलभापूरसपक्षसकलायुधम् ।धमद्धमितिशब्दैश्च श्वासोस्थैर्ध्मातखान्तरम् ॥२०॥चक्रव्यूहकराक्रान्तदुर्वृत्तसुरभासुरम् ।गरुडव्यूहसंरम्भविद्रवन्नागसंचयम् ॥२१॥श्येनव्यूहविभिन्नाग्रसंनिवेशोत्तमध्वनि ।अन्योन्यास्फोटनिःशेषप्रपतद्भूरिवृन्दकम् ॥२२॥विविधव्यूहविन्यासवान्तवीरवरारवम् ।करप्रतोलनोल्लासमत्तमुद्गरमण्डलम् ॥२३॥कृष्णायुधांशुजलदश्यामीकृतदिवाकरम् ।अनिलाधूतपल्यूलसूत्कृताभशरध्वनि ॥२४॥अनेककल्पकल्पाग्रसवृन्दमिव संस्थितम् ।प्रलयानिलसंक्षुब्धमेकार्णवमिवोत्थितम् ॥२५॥सद्यश्छिन्नं महामेरोः पक्षद्वयमिव स्फुरत् ।क्षुब्धमारुतनिर्धूतमिव कज्जलपर्वतम् ॥२६॥पातालकुहरात्क्षुब्धमन्धकारमिवोत्थितम् ।लोकालोकमिवोन्मत्तनृत्यलोललसत्तटम् ।महानरकसंघातं भित्त्वावनिमिवोत्थितम् ॥२७॥आलोलकुन्तमुसलासिपरश्वधांशु-श्यामायमानदिवसातपवारिपूरैः ।एकार्णवं भुवनकोशमिवाचिरेणकर्तुं समुद्यतमगाधमनन्तपूरैः ॥२८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने आहवारम्भणं नाम द्वात्रिंशः सर्गः ॥३२॥ N/A References : N/A Last Updated : September 11, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP