संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ११६ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ११६ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ११६ Translation - भाषांतर श्रीराम उवाच ।राजसूयफलं प्राप्तं लवणेन किल प्रभो ।प्रमाणं किमिवात्र स्यात्कल्पनाजालशम्बरे ॥१॥श्रीवसिष्ठ उवाच ।यदा शाम्बरिकः काले संप्राप्तो लावणीं सभाम् ।तदाहमवसं तत्र तत्प्रत्यक्षेण दृष्टवान् ॥२॥अहं सभ्यैस्ततस्तत्र गते शाम्बरिकर्मणि ।किमेतदिति यत्नेन पृष्टश्च लवणेन च ॥३॥चिन्तयित्वा मया दृष्ट्वा तत्र तत्कथितं ततः ।श्रृणु तत्ते प्रवक्ष्यामि राम शाम्बरिकेहितम् ॥४॥राजसूयस्य कर्तारो ये हि ते द्वादशाब्दिकम् ।आपद्दुःखं प्राप्नुवन्ति नानाकारव्यथामयम् ॥५॥अतः शक्रेण गगनाद्दुःखाय लवणस्य सः ।प्रहितो देवदूतो हि राम शाम्बरिकाकृतिः ॥६॥राजसूयक्रियाकर्तुस्तस्य दत्त्वा महापदम् ।अगच्छत्स नभोमार्गं सुरसिद्धनिषेवितम् ॥७॥तस्मात्प्रत्यक्षमेवैतद्राम नात्र संदेहोऽस्ति । मनोहि विलक्षणानां क्रियाणां कर्तृ भोक्तृ च तदेवनिर्घृष्य संशोध्य चित्तरत्नमिह हिमकणमिवातपेनविलीनतां विवेकेन नीत्वा परं श्रेयः प्राप्स्यसि ।चित्तमेव सकलभूताडम्बरकारिणीमविद्यां विद्धि ।सा विचित्रकेन्द्रजालवशादिदमुत्पादयति । अवि-द्याचित्तजीवबुद्धिशब्दानां भेदो नास्ति वृक्षतरुश-ब्दयोरिवेति ज्ञात्वा चित्तमेवविकल्पनं कुरु । अभ्यु-दिते चित्तवैमल्यार्कबिम्बे सकलङ्कविकल्पोत्थदोष-तिमिरापहरणं न तदस्ति राघव यन्न दृश्यतेयन्नात्मीक्रियते यन्न परित्यज्यते यन्न म्रियते यन्ना-त्मीयं यन्न परकीयं सर्वं सर्वदा सर्वो भवतीतिपरमार्थः ॥८॥भावराशिस्तथा बोधः सर्वो यात्येकपिण्डताम् ।विचित्रमृद्भाण्डगणो यथाऽपक्वो जले स्थितः ॥९॥श्रीराम उवाच ।एवं मनःपरिक्षये सकलसुखदुःखानामन्तः प्राप्यतइति भवता प्रोक्तं तत्कथं महात्मंश्चपलवृत्तिरूप-स्यास्य मनसोऽसत्ता भवति ॥१०॥श्रीवसिष्ठ उवाच ।रघुकुलेन्दो श्रृणु मनःप्रशमने युक्तिं, यां ज्ञात्वास्वस्वाचारदूरे मनःसंधिरयमेष्यसि ॥११॥इह हि तावद्ब्रह्मणः सर्वभूतानां त्रिविधोत्पत्ति-रिति तत्पूर्वोक्तम् ॥१२॥तत्रेदंप्रथमया मनःकल्पनया देहीति सा ब्रह्म-रूपिणी संकल्पमयी भूत्वा यदेव संकल्पयति तदेवपश्यति तेनेदं भुवनाडम्बरं कल्प्यते ॥१३॥तत्रजननमरणसुखदुःखमोहादिकं संसरणं कल्प-यन्ती कल्पानुरचना बहुनाममन्थरं स्थित्वा स्वयंविलीयते हिमकणिकेवातपगता ॥१४॥कालोदितः संकल्पवशात् पुनरन्यतया जायतेसापि पुनर्विलीयते पुनरप्युदेति सैवेति भूयो-भूयोऽनुसंसरन्ती स्वयमुपशाम्यति ॥१५॥इत्थमनन्ता ब्रह्मकोटयोऽस्मिन्ब्रह्माण्डेऽन्येषु चसमतीता भविष्यन्तीति सन्ति चेतरा अनन्तायासां संख्यापि न विद्यते ॥१६॥एवमस्यां तादृशि वर्तमानायामीश्वरादागत्यजीवोयथा जीव्यते विमुच्यते तच्छ्रुणु ॥१७॥ब्रह्मणो मनःशक्तिरभ्युदिता पुरःस्थिताकाशश-क्तिमवलम्ब्य तत्रस्थपवनतानुपातिनी घनसंक-लत्वं गच्छति ॥१८॥ततः पुरःप्राप्तभूततन्मात्रपञ्चकतामेत्यान्तःकर-णतां नीत्वा सात्वसूक्ष्मा प्रकृतिर्भूत्वा गगनपवन-तेजोरूपतासंकल्पात्प्रालेयरूपतामुपेत्य शाल्योषधिंविशन्ती प्राणिनां गर्भतां च गच्छति ॥१९॥जायते तस्मात्ततः पुरुषः संपद्यते ॥२०॥तेन पुरुषेण जातमात्रेणैव बाल्यात्प्रभृति विद्या-ग्रहणं कर्तव्यं गुरवोऽनुगन्तव्याः ॥२१॥ततः क्रमात्पुंसस्तवेव चमत्कृतिर्जायत्ते ॥२२॥स्वच्छदृशा चित्तवृत्तेः पुरुषस्य हेयोपादेय-विचार उत्पद्यते ॥२३॥तादृग्विवेकवति संकलिताभिमानेपुंसि स्थिते विमलसत्त्वमयाग्न्यजातौ ।सप्तात्मिकावतरति क्रमशः शिवायचेतःप्रकाशनकरी ननु योगभूमिः ॥२४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षो० उत्पत्तिप्रकरणे साधकजन्मावतारो नाम षोडशोत्तरशततमः सर्गः ॥११६॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP