संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ११ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणम् - सर्गः ११ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ११ Translation - भाषांतर श्रीराम उवाच ।इदं रूपमिदं दृश्यं जगन्नास्तीति भासुरम् ।महाप्रलयसंप्राप्तौ भो ब्रह्मन्क्वेव तिष्ठति ॥१॥श्रीवसिष्ठ उवाच ।कुत आयाति कीदृग्वा वन्ध्यापुत्रः क्व गच्छति ।क्व याति कुत आयाति वद वा व्योमकाननम् ॥२॥श्रीराम उवाच ।वन्ध्यापुत्रो व्योमवनं नैवास्ति न भविष्यति ।कीदृशी दृश्यता तस्य कीदृशी तस्य नास्तिता ॥३॥श्रीवसिष्ठ उवाच ।वन्ध्यापुत्रव्योमवने यथा न स्तः कदाचन ।जगदाद्यखिलं दृश्यं तथा नास्ति कदाचन ॥४॥न चोत्पन्ने न च ध्वंसि यत्किलादौ न विद्यते ।उत्पत्तिः कीदृशी तस्य नाशशब्दस्य का कथा ॥५॥श्रीराम उवाच ।वन्ध्यापुत्रनभोवृक्षकल्पना तावदस्ति हि ।सा यथा नाशजन्माढ्या तथैवेदं न किं भवेत् ॥६॥श्रीवसिष्ठ उवाच ।तुल्यस्यातुलदुःस्थस्य भावकैः किल तोलनम् ।निरन्वया यथैवोक्तिर्जगत्सत्ता तथैव हि ॥७॥यथा सौवर्णकटके दृश्यमानमिदं स्फुटम् ।कटकत्वं तु नैवास्ति जगत्त्वं न तथा परे ॥८॥आकाशे च यथा नास्तिशून्यत्वं व्यतिरेकवत् ।जगत्त्वं ब्रह्मणि तथा नास्त्येवाप्युपलब्धिमत् ॥९॥कज्जलान्न यथा कार्ष्ण्यं शैत्यं च न यथा हिमात् ।पृथगेवं भवेद्बुद्धं जगन्नास्ति परे पदे ॥१०॥यथा शैत्यं न शशिनो न हिमाद्व्यतिरिच्यते ।ब्रह्मणो न तथा सर्गो विद्यते व्यतिरेकवान् ॥११॥मरुनद्यां यथा तोयं द्वितीयेन्दौ यथेन्दुता ।नास्त्येवेह जगन्नाम दृष्टमप्यमलात्मनि ॥१२॥आदावेव हि यन्नास्ति कारणासंभवात्स्वयम् ।वर्तमानेऽपि तन्नास्ति नाशः स्यात्तत्र कीदृशः ॥१३॥क्वासंभवद्भूतजाड्यं पृथ्व्यादेर्जडवस्तुनः ।कार्यकारणं भवितुं शक्तं छायायाश्चातपो यथा ॥१४॥कारणाभावतः कार्यं नेदं तत्किंचनोदितम् ।यत्तत्कारणमेवास्ति तदेवेत्थमवस्थितम् ॥१५॥अज्ञानमेव यद्भाति संविदाभासमेव तत् ।यज्जगद्दृश्यते स्वप्ने संवित्कचनमेव तत् ॥१६॥संवित्कचनमेवान्तर्यथा स्वप्ने जगद्भ्रमः ।सर्गादौ ब्रह्मणि तथा जगत्कचनमाततम् ॥१७॥यदिदं दृश्यते किंचित्सदैवात्मनि संस्थितम् ।नास्तमेति न चोदेति जगत्किंचित्कदाचन ॥१८॥यथा द्रवत्वं सलिलं स्पन्दनं पवनो यथा ।यथा प्रकाश आभासो ब्रह्मैव त्रिजगत्तथा ॥१९॥यथा पुरमिवास्तेऽन्तर्विदेव स्वप्नसंविदः ।तथा जगदिवाभाति स्वात्मैव परमात्मनि ॥२०॥श्रीराम उवाच ।एवं चेत्तत्कथं ब्रह्मन्सुघनप्रत्ययं वद ।इदं दृश्यविषं जातमसत्स्वप्नानुभूतिवत् ॥२१॥सति दृश्ये किल द्रष्टा सति द्रष्टरि दृश्यता ।एकसत्त्वे द्वयोर्बन्धो मुक्तिरेकक्षये द्वयोः ॥२२॥अत्यन्तासंभवो यावद्बुद्धो दृश्यस्य न क्षयः ।तावद्द्रष्टरि दृश्यत्वं न संभवति मोक्षधीः ॥२३॥दृश्यं चेत्संभवत्यादौ पश्चात्क्षयमुपालभेत् ।तद्दृश्यस्मरणानर्थरूपो बन्धो न शाम्यति ॥२४॥यत्र क्वचन संस्थस्य स्वादर्शस्येव चिद्गतेः ।प्रतिबिम्बो लगत्येव सर्वस्मृतिमयो ह्यलम् ॥२५॥आदावेव हि नोत्पन्नं दृश्यं नास्त्येव चेत्स्वयम् ।द्रष्टुर्दृश्यस्वभावत्वात्तत्संभवति मुक्तता ॥२६॥तस्मादसंभवन्मुक्तेर्मम प्रोत्सार्य युक्तिभिः ।अत्यन्तासंभवो यावत्कथयात्मविदां वर ॥२७॥श्रीवसिष्ठ उवाच ।असदेव सदा भाति जगत्सर्वात्मकं यथा ।श्रृण्वहं कथया राम दीर्घया कथयामि ते ॥२८॥व्यवसायकथावाक्यैर्यावत्तत्रानुवर्णितम् ।न विश्राम्यति ते तावद्धृदि पांसुर्यथा ह्रदे ॥२९॥अत्यन्ताभावमस्यास्त्वं जगत्सर्गभ्रमस्थितेः ।बुद्धैकध्याननिष्ठात्मा व्यवहारं करिष्यसि ॥३०॥भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचलाचलाः ।दृशस्त्वां वेधयिष्यन्ति न महाद्रिमिवेषवः ॥३१॥स एषोऽस्त्येक एवात्मा न द्वितीयास्ति कल्पना ।जगदत्र यथोत्पन्नं तत्ते वक्ष्यामि राघव ॥३२॥तस्मादिमानि सकलानि विजृम्भितानिसोऽपीदमङ्ग सकलासकलं महात्मा ।रूपावलोकनमनोमननप्रकाराकारास्पदं स्वयमुदेति विलीयते च ॥३३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे परमार्थवर्णनं नामैकादशः सर्गः ॥११॥ N/A References : N/A Last Updated : September 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP