संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ११४ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ११४ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ११४ Translation - भाषांतर श्रीराम उवाच ।अविद्याविभवप्रोत्थं निविडं पुरुषस्य हि ।महदान्ध्यमिदं ब्रह्मन्कथं नाम विनश्यति ॥१॥श्रीवसिष्ठ उवाच ।यथा तुषारकणिका भास्करालोकनात्क्षणात् ।नश्यत्येवमविद्येयं राघवात्मावलोकनात् ॥२॥तावत्संसारभृगुषु स्वात्मना सह देहिनम् ।आन्दोलयति नीरन्ध्रदुःखकण्टकशालिषु ॥३॥अविद्या यावदस्यास्तु नोत्पन्ना क्षयकारिणी ।स्वयमात्मावलोकेच्छा मोहसंक्षयदायिनी ॥४॥अस्याः परं प्रपश्यन्त्याः स्वात्मनाशः प्रजायते ।आतपानुभवार्थिन्याश्छायाया इव राघव ॥५॥दृष्टे सर्वगते बोधे स्वयमेव विलीयते ।सर्वाशाभ्युदितेच्छाया द्वादशार्कगणे यथा ॥६॥इच्छामात्रमविद्येह तन्नाशो मोक्ष उच्यते ।स चासंकल्पमात्रेण सिद्धो भवति राघव ॥७॥मनागपि मनोव्योम्नि वासनारजनीक्षये ।कालिमा तनुतामेति चिदादित्यमहोदयात् ॥८॥यथोदिते दिनकरे क्वापि याति तमस्विनी ।तथा विवेकेऽभ्युदिते क्वाप्यविद्या विलीयते ॥९॥दृढवासनया बन्धो घनतामेति चेतसः ।बलाद्वेतालसंकल्पः संध्याकाले यथा शिशोः ॥१०॥श्रीराम उवाच ।यावत्किंचिदिदं दृश्यं साविद्या क्षीयते च सा ।आत्मभावनया ब्रह्मन्नात्मासौ कीदृशः स्मृतः ॥११॥श्रीवसिष्ठ उवाच ।चेत्यानुपातरहितं सामान्येन च सर्वगम् ।यच्चित्तत्त्वमनाख्येयं स आत्मा परमेश्वरः ॥१२॥आब्रह्म स्तम्बपर्यन्तं तृणादि यदिदं जगत् ।तत्सर्वं सर्वदात्मैव नाविद्या विद्यतेऽनघ ॥१३॥सर्वं च खल्विदं ब्रह्म नित्यं चिद्धनमक्षतम् ।कल्पनान्या मनोनाम्नी विद्यते नहि काचन ॥१४॥न जायते न म्रियते किंचिदत्र जगत्त्रये ।न च भावविकाराणां सत्ता क्वचन विद्यते। ॥१५॥केवलं केवलाभासं सर्वसामान्यमक्षतम् ।चेत्यानुपातरहितं चिन्मात्रमिह विद्यते ॥१६॥तस्मिन्नित्ये तते शुद्धे चिन्मात्रे निरुपद्रवे ।शान्ते समसमाभोगे निर्विकारोदितात्मनि ॥१७॥यैषा स्वभावातिगतं स्वयं संकल्प्य धावति ।चिच्चैत्यं स्वयमाम्लाना सा म्लाना तन्मनः स्मृतम् ॥१८॥एतस्मात्सर्वगाद्देवात्सर्वशक्तेर्महात्मनः ।विभागकलनाशक्तिर्लहरीवोत्थिताम्भसः ॥१९॥एकस्मिन्वितते शान्ते या न किंचन विद्यते ।संकल्पमात्रेण गता सा सिद्धिं परमात्मनि ॥२०॥अतः संकल्पसिद्धेयं संकल्पेनैव नश्यति ।येनैव जाता तेनैव वह्निज्वालेव वायुना ॥२१॥पौरुषोद्योगसिद्धेन भोगाशा रूपतां गता ।असंकल्पनमात्रेण साविद्या प्रविलीयते ॥२२॥नाहं ब्रह्मेति संकल्पात्सुदृढाद्बध्यते मनः ।सर्वं ब्रह्मेति संकल्पात्सुदृढान्मुच्यते मनः ॥२३॥संकल्पः परमो बन्धस्त्वसंकल्पो विमुक्तता ।संकल्पं संविजित्यान्तर्यथेच्छसि तथा कुरु ॥२४॥दृढा न याम्बरेऽत्रास्ति नलिनी हेमपङ्कजा ।लोलवैदूर्यमधुपा सुगन्धितदिगन्तरा ॥२५॥उद्दण्डैः प्रकटाभोगैर्मृणालभुजमण्डलैः ।विहसन्ती प्रकाशस्य शशिनो रश्मिमण्डलम् ॥२६॥विकल्पजालिकेवेत्थमसत्येवापि सत्समा ।मनःस्वार्थविलासार्थं यथा बालेन कल्प्यते ॥२७॥तथैवेयमविद्येह भवबन्धनबन्धनी ।चपला न सुखायैव बालेन कलिता दृढा ॥२८॥कृशोऽतिदुःखी बद्धोऽहं हस्तपादादिमानहम् ।इति भावानुरूपेण व्यवहारेण बध्यते ॥२९॥नाहं दुःखी न मे देहो बन्धः कस्यात्मनः स्थितः ।इति भावानुरूपेण व्यवहारेण मुच्यते ॥३०॥नाहं मांसं न चास्थीनि देहादन्यः परो ह्यहम् ।इति निश्चयवानन्तः क्षीणाविद्य इहोच्यते ॥३१॥प्रोत्तुङ्गसुरशैलाग्रवैदूर्यशिखरप्रभा ।अथवार्कांशुदुर्भेदा तिमिरश्रीः स्थितोपरि ॥३२॥कल्प्यते हि यथा व्योम्नः कालिमेति स्वभावतः ।पुंसा धरणिसंस्थेन स्वसंकल्पनयेद्धया ॥३३॥कल्पितैवमविद्येयमनात्मन्यात्मभावना ।पुरुषेणाप्रबुद्धेन न प्रबुद्धेन राघव ॥३४॥श्रीराम उवाच ।मेरुनीलमणिच्छाया नेयं नापि तमःप्रभा ।तदेतत्किंकृतं ब्रह्मन्नीलत्वं नभसो वद ॥३५॥श्रीवसिष्ठ उवाच ।न नाम नीलता व्योम्नः शून्यस्य गुणवत्स्थिता ।अन्यरत्नप्रभाभावान्न वाप्येषा च मैरवी ॥३६॥तेजोमयत्वादण्डस्य स्फारत्वादिव तेजसः ।प्राकाश्यादण्डपारस्य तमसो नात्र संभवः ॥३७॥केवलं शून्यतैवैषा बह्वी सुभग लक्ष्यते ।वयस्येवानुरूपा या अविद्याया असन्मयी ॥३८॥स्वदृष्टिक्षयसंपत्तावक्ष्णोरेवोदितं तमः ।वस्तुस्वभावात्तद्व्योम्नः कार्ष्ण्यमित्यवलोक्यते ॥३९॥एतद्बुद्ध्वा यथा व्योम्नि दृश्यमानोऽपि कालिमा ।न कालिमेति बुद्धिः स्यादविद्यातिमिरं तथा ॥४०॥असंकल्पो ह्यविद्याया निग्रहः कथितो बुधैः ।यथा गगनपद्मिन्याः स भाति सुकरः स्वयम् ॥४१॥भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।अपुनःस्मरणं मन्ये साधो विस्मरणं वरम् ॥४२॥नष्टोऽहमिति संकल्पाद्यथा दुःखेन नश्यति ।प्रबुद्धोऽस्मीतिसंकल्पाज्जनो ह्येति यथा सुखम् ॥४३॥तथा संमूढसंकल्पान्मूढतामेति वै मनः ।प्रबोधोदारसंकल्पात्प्रबोधायानुधावति ॥४४॥क्षणात्संस्मरणादेषा ह्यविद्योदेति शाश्वती ।यस्माद्विस्मरणादन्तः परिणश्यति नश्वरी ॥४५॥भावनी सर्वभावानां सर्वभूतविमोहिनी ।भारिणी स्वात्मनो नाशे स्वात्मवृद्धौ विनाशिनी ॥४६॥मनो यदनुसंधत्ते तत्सर्वेन्द्रियवृत्तयः ।क्षणात्संपादयन्त्येता राजाज्ञामिव मन्त्रिणः ॥४७॥तस्मान्मनोनुसंधानं भावेषु न करोति यः ।अन्तश्चेतनयत्नेन स शान्तिमधिगच्छति ॥४८॥यदादावेव नास्तीदं तदद्यापि न विद्यते ।यदिदं भाति तद्ब्रह्म शान्तमेकमनिन्दितम् ॥४९॥मननीयमतो नान्यत्कदा कस्य कथं कुतः ।निर्विकारमनाद्यन्तमास्यतामपयन्त्रणम् ॥५०॥परं पौरुषमाश्रित्य यत्नात्परमया धिया ।भोगाशाभावनां चित्तात्समूलामलमुद्धरेत् ॥५१॥यदुदेति परो मोहो जरामरणकारणम् ।आशापाशशतोल्लासिवासना तद्विजृम्भते ॥५२॥मम पुत्रा मम धनमयं सोऽहमिदं मम ।इतीयमिन्द्रजालेन वासनैव विवल्गति ॥५३॥शून्ये एव शरीरेऽस्मिन्विलोलो जलवातवत् ।अनन्यया वासनया त्वहंभावाहिरर्पितः ॥५४॥परमार्थेन तत्त्वज्ञ ममाहमिदमित्यलम् ।नदिश्रेण्योआत्मतत्त्वादृते सत्यं न कदाचन किंचन ॥५५॥खाद्रिद्यूर्वीनदिश्रेण्यो दृष्टिसृष्ट्या पुनः पुनः ।सैवान्येव विचित्रेयमविद्या परिवर्तते ॥५६॥उदेत्यज्ञानमात्रेण नश्यति ज्ञानमात्रतः ।सन्मात्रे परिविच्छेद्या रज्ज्वामिव भुजंगधीः ॥५७॥खाद्व्यब्ध्युर्वीनदी सेयं याऽविद्याऽज्ञस्य राघव ।नाविद्या ज्ञस्य तद्ब्रह्म स्वमहिम्ना व्यवस्थितम् ॥५८॥रज्जुसर्पविकल्पौ द्वावक्षेनैवोपकल्पितौ ।ज्ञेन त्वेकैव निर्णीता ब्रह्मदृष्टिरकृत्रिमा ॥५९॥मा भवाज्ञो भव प्राज्ञो जहि संसारवासनाम् ।अनात्मन्यात्मभावेन किमज्ञ इव रोदिषि ॥६०॥कस्तवायं जडो मूको देहो भवति राघव ।यदर्थं सुखदुःखाभ्यामवशः परिभूयसे ॥६१॥यथा हि काष्ठजतुनोर्यथा बदरकुण्डयोः ।श्लिष्टयोरपि नैकत्वं देहदेहवतोस्तथा ॥६२॥भस्त्रादाहे यथा दाहो न भस्त्रान्तरवर्तिनः ।पवनस्य तथा देहनाशे नात्मा न नश्यति ॥६३॥दुःखितोऽहं सुखाढ्योऽहमिति भ्रान्ति रघूद्वह ।मृगतृष्णोपमां बुद्ध्वा त्यज सत्यं समाश्रय ॥६४॥अहो नु चित्रं यत्सत्यं ब्रह्म तद्विस्मृतं नृणाम् ।यदसत्यमविद्याख्यं तन्नूनं स्मृतिमागतम् ॥६५॥प्रसरं त्वमविद्याया मा प्रयच्छ रघूद्वह ।अनयोपहिते चित्ते दुष्पारेह कदर्थना ॥६६॥मिथ्यैवानर्थकारिण्या मनोमननपीनया ।अनया दुःखदायिन्या महामोहफलान्तया ॥६७॥चन्द्रबिम्बे सुधार्द्रेऽपि कृत्वा रौरवकल्पनम् ।नारकं दाहसंशोषदुःखं समनुभूयते ॥६८॥जलकल्लोलकह्लारपुष्पसीकरवीचिषु ।सरस्सु मृगतृष्णाढ्यं मरुत्वं परिदृश्यते ॥६९॥नभोनगरनिर्माणपातोत्पातनसंभ्रमाः ।स्वप्नादिष्वनुभूयन्ते विचित्राः सुखदुःखदाः ॥७०॥संसारवासनाश्चेतो यदि नाम न पूरयेत् ।तज्जाग्रत्स्वप्नसंरम्भाः किं नयेयुरिहापदम् ॥७१॥दृश्यते रौरवा वीचिनरकानर्थशासना ।मिथ्याज्ञाने गते वृद्धिं स्वप्नोपवनभूमिषु ॥७२॥अनया वेधितं चेतो विसतन्तावपि क्षणात् ।पश्यत्यखिलसंसारसागरानर्थविभ्रमम् ॥७३॥अनयोपहते चित्ते राज्य एव हि संस्थिताः ।तास्तादृश्यो जना यान्ति या न योग्याः श्वपाकिनः ॥७४॥तस्माद्राम परित्यज्य वासनां भवबन्धनीम् ।सर्वरागमयीं तिष्ठ नीरागः स्फटिको यथा ॥७५॥तिष्ठतस्तव कार्येषु मास्तु रागेषु रञ्जना ।स्फटिकस्येव चित्राणि प्रतिबिम्बानि गृह्णतः ॥७६॥विदितकौतुकसङ्घसमिद्धयायदि करोषि सदैव सुशीलया ।वरधिया गतप्राकृतिकक्रिय-स्तदसि केन सहानुपमीयसे ॥७७॥इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे यथाकथितदोषपरिहारोपदेशो नाम चतुर्दशोत्तरशततमः सर्गः ॥११४॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP