संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ९२ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ९२ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ९२ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इत्युक्तवान्स भगवान्मया कमलसंभवः ।रघूद्वह पुनः पृष्टो वाक्यमाक्षिप्य भूतपः ॥१॥त्वयैव भगवन्प्रोक्ताः शापमन्त्रादिशक्तयः ।अमोघा इति ता एव कथं मोघाः कृताः पुनः ॥२॥शापेन मन्त्रवीर्येण मनोबुद्धीन्द्रियाण्यपि ।सर्वाण्येव विमूढानि दृष्टानि किल जन्तुषु ॥३॥यथैतौ पवनस्पन्दौ यथा स्नेहतिलौ यथा ।अभिन्नौ तद्वदेवैतौ मनोदेहौ स एव तत् ॥४॥अथ नास्तीह वा देहः केवलं चेतसैव सः ।मुधानुभूयते स्वप्नमृगतृष्णाद्विचन्द्रवत् ॥५॥एकनाशे द्वयोरेव नाशोऽत्राभ्युपपद्यते ।अवश्यं भवितुं मनोनाशे देहपरिक्षयः ॥६॥मनः शापादिभिर्दोषैः कथं नाक्रम्यते प्रभो ।कथमाक्रम्यते वापि ब्रूहि मे परमेश्वर ॥७॥ब्रह्मोवाच ।न तदस्तिजगत्कोशे शुभकर्मानुपातिना ।यत्पौरुषेण शुद्धेन न समासाद्यते जनैः ॥८॥आब्रह्म स्थावरान्तं च सर्वदा सर्वजातयः ।सर्व एव जगत्यस्मिन्द्विशरीराः शरीरिणः ॥९॥एकं मनःशरीरं तु क्षिप्रकारि सदा चलम् ।अकिंचित्करमन्यत्तु शरीरं मांसनिर्मितम् ॥१०॥तत्र मांसमयः कायः सर्वस्यैव च संगतः ।सर्वैराक्रम्यते शापैस्तथा विद्यादिसंचयैः ॥११॥मूकप्रायो ह्यशक्तोऽसौ दीनः क्षणविनश्वरः ।पद्मपत्राम्बुचपलो दैवादिविवशस्थितिः ॥१२॥मनोनाम द्वितीयोऽयं कायः कायवतामिह ।स आयत्तोऽपि नायत्तो भूतानां भुवनत्रये ॥१३॥पौरुषं स्वमवष्टभ्य धैर्यमालम्ब्य शाश्वतम् ।यदि तिष्ठत्यगम्योऽसौ दुःखानां तदनिन्दितः ॥१४॥यथा यथासौ यतते मनोदेहो हि देहिनाम् ।तथा तथासौ भवति स्वनिश्चयफलैकभाक् ॥१५॥सफलो मांसदेहस्य न कश्चित्पौरुषक्रमः ।मनोदेहस्य सफलं सर्वमेव स्वचेष्टितम् ॥१६॥पवित्रमनुसंधानं चेतः स्मरति सर्वदा ।निष्फलास्तत्र शापाद्याः शिलायामिव सायकाः॥१७॥पतत्वम्भसि वह्नौ वा कर्दमे वा शरीरकम् ।मनो यदनुसंधत्ते तदेवाप्नोति तत्क्षणात् ॥१८॥पुरुषातिशयः सर्वः सर्वभावोपमर्दने ।ददात्यविघ्नेन फलं मनो हि मनसो मुने ॥१९॥पौरुषेण बलेनान्तश्चित्तं कृत्वा प्रियामयम् ।कृत्रिमेन्द्रेण दुःखार्तिर्न दृष्टा सा मनागपि ॥२०॥पौरुषेण मनः कृत्वा नीरागं विगतज्वरम् ।माण्डव्येन जिताः क्लेशाः शूलप्रान्तेऽपितिष्ठता ॥२१॥अन्धकूपस्थितेनापि मानसैर्यज्ञसंचयैः ।ऋषिणा दीर्घतपसा संप्राप्तं वैबुधं पदम् ॥२२॥इन्दुपुत्रैर्नरैरेव पुरुषाध्यवसायतः ।ध्यानेन ब्रह्मता प्राप्ता सा मयापि न खण्ड्यते ॥२३॥अन्येऽपि सावधाना ये धीराः सुरमहर्षयः ।चित्तात्स्वमनुसंधानं न त्यजन्ति मनागपि ॥२४॥आधयो व्याधयश्चैव शापाः पापदृशस्तथा ।न खण्डयन्ति तच्चित्तं पद्मघाताः शिलामिव ॥२५॥ये चापि खण्डिताः केचिच्छापाद्यैराधिसायकैः ।स्वविवेकाक्षमं तेषां मनो मन्ये विपौरुषम् ॥२६॥न कदाचन संसारे सावधानमना मनाक् ।स्वप्नेऽपि कश्चिदृश्ये वा दोषजालैः खिलीकृतः ॥२७॥मनसैव मनस्तस्मात्पौरुषेण पुमानिह ।स्वकमेव स्वकेनैव योजयेत्पावने पथि ॥२८॥प्रतिभातं यदेवास्य यथाभूतं भवत्यलम् ।क्षणादेव मनः पीनं बालवेतालवन्मुने ॥२९॥प्रतिभासस्यानुपदं प्राक्तनीं स्थितिमुज्झति ।कुलालकर्मानुपदं घटो मृत्पिण्डतामिव ॥३०॥प्रतिभासार्थतामेति क्षणादेव मनो मुने ।स्पन्दमात्रात्मकं वारि यथा तुङ्गतरङ्गताम् ॥३१॥अनुसंधानमात्रेण सूर्यबिम्बेऽपि यामिनीम् ।मनः पश्यत्यशुद्धाक्षश्चन्द्रबिम्बे द्वितामिव ॥३२॥यत्पश्यति तदेवाशु फलीभूतमिदं मनः ।सह हर्षविषादाभ्यां भुङ्क्ते तस्मात्तदेव तत् ॥३३॥प्रतिभानुपदं चेतश्चन्द्रेऽप्यग्निशिखाशतम् ।दृष्ट्वा दाहमवाप्नोति दग्धं च परितप्यते ॥३४॥प्रतिभानुपदं चेतः क्षारेऽपि हि रसायनम् ।दृष्ट्वा पीत्वा परां तृप्तिं याति वल्गति नृत्यति ॥३५॥प्रतिभानुपदं चेतो व्योमन्यपि महावनम् ।दृष्ट्वा लुनाति लूत्वा च पुनरारोपयत्यलम् ॥३६॥इत्थं यदेव परिकल्पयतीन्द्रजालंक्षिप्रं तदेव परिपश्यति तात चेतः ।नासज्जगन्न च सदित्यवगम्य नूनंलूनां दृशं विविधभेदवतीं जहीहि ॥३७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे मनोमाहात्म्यवर्णनं नाम द्विनवतितमः सर्गः ॥९२॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP