संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ६० उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ६० योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ६० Translation - भाषांतर श्रीवसिष्ठ उवाच ।एतत्ते कथितं राम दृश्यदोषनिवृत्तये ।लीलोपाख्यानमनघं घनतां जगतस्त्यज ॥१॥शान्तैव दृश्यसत्तास्याः शमनं नोपयुज्यते ।सतो हि मार्जनक्लेशो नासतस्तु कदाचन ॥२॥ज्ञानेनाकाशरूपेण दृश्यं ज्ञेयस्वरूपकम् ।इत्येकीभूतमालोक्य ज्ञस्तिष्ठत्यम्बरोपमः ॥३॥पृथ्व्यादिरहितेनेदं चिद्भासैव स्वयंभुवा ।साधितं यदि सिद्धेन ततः स्वात्मनि साधितम् ॥४॥संविद्यथा या यतते तथा सैव व्यवस्थिता ।विसृष्टा सृष्टिविन्नद्यां यावद्यत्नान्न रोधिता ॥५॥चिदाकाशावभासोऽयं जगदित्यवबुध्यते ।चिद्व्योम्न्येवात्मनि स्वच्छे परमाणुकणं प्रति ॥६॥एवमस्या मुधाभ्रान्तेः का सत्ता केव वासना ।का वास्था का च नियतिः कावश्यंभावितोच्यताम् ॥७॥सर्वं चैतद्यथादृष्टं स्थितमित्थमखण्डितम् ।मायैवेयमनन्तेयं न च मायास्ति काचन ॥८॥श्रीराम उवाच ।अहो नु परमा दृष्टिर्दर्शिता भगवंस्त्वया ।दावाग्निदग्धकक्षाणां दाहशान्तौ कलैन्दवी ॥९॥अहो नु सुचिरेणाद्य ज्ञातं ज्ञातव्यमक्षतम् ।मया यथेदं यच्चेदं यादृग् ज्ञेयं यतो यदा ॥१०॥शाम्यामीव द्विजश्रेष्ठ निर्वामीव विकल्पयन् ।एतदाख्यानमाश्चर्यं व्याख्यानं शास्त्रदृष्टिषु ॥११॥इमं मे भगवन्ब्रूहि संशयं सर्वकोविद ।तव पातुं न तृप्तोऽस्मि श्रोत्रपात्रैर्वचोमृतम् ॥१२॥स सर्गत्रितये कालो लीलाभर्तुर्हि योगतः ।स क्वचित्किमहोरात्रः क्वचित्किं मासमात्रकः ॥१५॥क्वचित्किं बहुवर्षाणि कस्यचित्किमु पेलवः ।कस्यचित्किं महादीर्घः कस्यचित्किं क्षणः स्थितः ॥१४॥इति मे भगवन्बूहि त्वं यथावदनुग्रहात् ।सकृच्छ्रुतं न विश्रान्तिमेति लोष्टे यथा जलम् ॥१५॥श्रीवसिष्ठ उवाच ।येन येन यथा यद्यद्यदा संवेद्यतेऽनघ ।तेन तेन तथा तत्तत्तदा समनुभूयते ॥१६॥अमृतत्वं विषं याति सदैवामृतवेदनात् ।शत्रुर्मित्रत्वमायाति मित्रसंवित्तिवेदनात् ॥१७॥यथा भावितमेतेषां पदार्थानां निजं वपुः ।तदेव हि चिराभ्यासान्नियतेर्वशमायतम् ॥१८॥कचनैकात्मिकैषा चिद्यथा कचति यादृशम् ।तथा तथाशु भवति तत्स्वभावैककारणात् ॥१९॥निमेषे यदि कल्पौघसंविदं परिविन्दति ।निमेष एव तत्कल्पो भवत्यत्र न संशयः ॥२०॥कल्पे यदि निमेषत्वं वेत्ति कल्पोऽप्यसौ ततः ।निमेषीभवति क्षिप्रं तादृग्रूपात्मिका हि चित् ॥२१॥दुःखितस्य निशा कल्पः सुखितस्यैव च क्षणः ।क्षणः स्वप्ने भवेत्कल्पः कल्पश्च भवति क्षणः ॥२२॥यथा च मृत्वा जातोऽहं तरुणो यौवनस्थितः ।यातोऽस्मि योजनशतं स्वप्न इत्यनुभूयते ॥२३॥रात्रिं द्वादशवर्षाणि हरिश्चन्द्रोऽनुभूतवान् ।लवणो भुक्तवानायुरेकरात्र्या समाः शतम् ॥२४॥यन्मुहूर्तः प्रजेशस्य स मनोर्जीवितं मुनेः ।जीवितं यद्विरिञ्चस्य तद्दिनं किल चक्रिणः ॥२५॥विष्णोर्यज्जीवितं राम तद्वृषाङ्कस्य वासरः ।ध्यानप्रक्षीणचित्तस्य न दिनानि न रात्रयः ॥२६॥न पदार्था न च जगत्सत्यमात्मनि योगिनः ।मधुरं कटुतामेति कटुभावेन चिन्तितम् ॥२७॥कटु चायाति माधुर्यं मधुरत्वेन चिन्तितम् ।मित्रबुद्ध्या द्विषन्मित्रं रिपुबुद्ध्या रिपुः सुहृत् ॥२८॥भवतीति महाबाहो यथासंवेदनं जगत् ।अनभ्यस्ताः पदार्था ये शास्त्रपाठजपादयः ॥२९॥तेषां संवेदनाभ्यासान्नूनमभ्येति साम्यता ।नौयायिनां भ्रमार्तानां वेदनाद्भूर्विवर्तते ॥३०॥अवेदनाभ्रमार्तानामपि नैषां विवर्तते ।शून्यमाकीर्णतामेति वेदनात्स्वप्नदृक्ष्विव ॥३१॥वेदनात्पीतमानीलं शुक्लं वाप्यनुभूयते ।आपद्वदुत्सवः खेदं करोति परिमोहतः ॥३२॥कुड्येऽपि ख इवाचारो दृष्टो नन्वविचारिणः ।असद्यक्षो विमूढानां प्राणानप्यपकर्षति ॥३३॥वेदनात्स्वप्नवनिता जाग्रतीव रतिप्रदा ।यद्यथाभासमायातं तत्तथा स्थिरतां गतम् ॥३४॥असदेव नभश्चैव नभ एव चिदात्मनि ।शतहस्ताम्बुदच्छायानटनृत्तमिवाततम् ॥३५॥गगने मानसं स्पन्दं जगद्विद्धि न वस्तु तत् ।मिथ्याज्ञानपिशाचस्य स्पन्ददर्शनमाकृति ॥३६॥मायामात्रकमेवेदमरोधकमभित्तिमत् ।इदं भास्वरमाभातं स्वप्नसंदर्शनं स्थितम् ॥३७॥अपूर्वमेवासुप्तस्य नरस्येवोदितं विदुः ।अचेता चेतति स्तम्भो यादृशं शालभञ्जिकाम् ॥३८॥परमार्थमहास्तम्भः सृष्टिं चेतति सादृशम् ।यादृशो मे नरः पार्श्वे स्वप्ने क्षुब्धो महाभटैः ॥३९॥तादृशो ब्रह्मणः स्वर्गो बुद्ध एव सुषुप्तवत् ।तृणगुल्मलतायुक्तः शिशिरान्ते यथा रसः ॥४०॥वासन्तः संस्थितो भूमौ तथा सर्गः परे पदे ।यथा द्रवत्वं कनके स्थितमन्तरनुन्मिषत् ॥४१॥तथा स्थितः परे सर्ग आत्मवर्गादणावणौ ।संनिवेशो यथाङ्गानामङ्गिनोऽनन्य आत्मनः ॥४२॥जगदेवमनङ्गस्य स्वात्मनो ब्रह्मणस्तथा ।यादृगेकनरः स्वप्ने युद्धमन्यं नरं प्रति ॥४३॥तादृशं सदसद्रूपं स्वात्मेदं व्योमगं जगत् ।महाकल्पान्तसर्गादौ चित्स्वभावमिदं जगत् ॥४४॥कारणत्वं मिथः पश्चादसदेति न वास्तवम् ।मुक्तेऽस्मिन्ब्रह्मणि यदि ब्रह्मान्यः स्मृतिजो भवेत् ।तत्स्मृतिज्ञप्तिजे सर्गे स्थितैव ज्ञप्तिमात्रता ॥४५॥श्रीराम उवाच ।पौराणां मन्त्रिमुख्यानां विदूरथकुलक्रमः ।सममेव कथं तत्र सर्वेषां प्रतिभासितः ॥४६॥श्रीवसिष्ठ उवाच ।चितः समनुवर्तन्ते मुख्यायाः सर्वसंविदः ।यथा विपुलवात्यायाः सामान्या वातलेखिकाः ॥४७॥परस्परानुसारेण तथारूपेण संविदः ।कचितास्ताः प्रजापालप्रजावास्तव्यमन्त्रिणः ॥४८॥एवंरूपात्कुलाज्जातो राजास्माकमयं त्वसौ ।कचिता इव वास्तव्यविदो वैदूरथे पुरे ॥४९॥कचने चित्स्वभावस्य न च कारणमार्गणम् ।युक्तं महामणेर्भासामिवान्यत्र स्वभावतः ॥५०॥अहमेवं कुलाचारे राजा स्यामेवमित्यपि ।विदूरथविदो रत्नादुदिता प्रतिभा यथा ॥५१॥यावन्तो जन्तवो यस्मिन्ये ये सर्गे यदा यदा ।ते सर्वगत्वाच्चिद्धातोरन्योन्यादर्शतां गताः ॥५२॥तीव्रवेगवती या स्यात्तत्र संविदकम्पिता ।सैवायाति परं स्थैर्यमामोक्षं त्वेकरूपिणी ॥५३॥बलवच्चिद्विलासानामनुवृत्त्या परस्परम् ।स्वभावाः प्रतिबिम्बन्ति चिदादर्शे स्वभावतः ॥५४॥तत्रातियत्नाज्जयति सत्याः संविद आत्मसात् ।कुर्वन्ति सरिदम्भोधिगामिनी सरितो यथा ॥५५॥ये समास्तत्र ते तावद्यतन्ते चित्स्वभावतः ।यावदेको जयत्यत्र द्वितीयः स निमज्जति ॥५६॥जायमानेषु नश्यत्सु वर्तमानेषु भूरिशः ।एवं सर्गसहस्रेषु परमाणुकणं प्रति ॥५७॥न किंचित्केनचिद्ध्याप्तं न किंचित्केनचित्स्थितम् ।चिदाकाशमिदं शान्तमतः सर्वमभित्तिमत् ॥५८॥अयमाभासते स्वप्नो निर्निद्रो दृष्टिवर्जितः ।अवश्यंभाविबोधस्तु स्वनुभूतोऽप्यसन्मयः ॥५९॥पत्रपुष्पफलांशात्मा यथैकः स्वास्थितो द्रुमः ।अनन्तसर्वशक्त्यात्मा ह्येक एव तथा विभुः ॥६०॥मातृमेयप्रमाणादिमायात्मकमजं पदम् ।बुद्धं विस्मृतिमायाति न कदाचन कस्यचित् ॥६१॥शून्योदयास्तमयवस्तु तमःप्रकाशंदिक्कालरूप्यपि सदैकमनादिशुद्धम् ।आद्यन्तमध्यरहितं स्थितमच्छमम्बुसौम्यत्ववीचिवलनाढ्यमिवैकमेव ॥६२॥अहंत्वमित्यादिजगत्स्वरूपाविशुद्धबोधैकविभा विभाति ।आकाशकोशे निजशून्यतेवद्वैतैक्यसंकल्पविकल्पनाच्च ॥६३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूत्पत्तिप्रकरणे लीलो० प्रयोजनवर्णनं नाम षष्टितमः सर्गः ॥६०॥ N/A References : N/A Last Updated : September 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP