संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः १०० उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः १०० योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १०० Translation - भाषांतर श्रीवसिष्ठ उवाच ।चित्तमेतदुपायातं ब्रह्मणः परमात्पदात् ।अतन्मयं तन्मयं च तरङ्गः सागरादिव ॥१॥प्रबुद्धानां मनो राम ब्रह्मैवेह हि नेतरत् ।जलसामान्यबुद्धीनामब्धेर्नान्यस्तरङ्गकः ॥२॥मनो रामाप्रबुद्धानां संसारभ्रमकारणम् ।अपश्यतोऽम्बुसामान्यमन्यताम्बुतरङ्गयोः ॥३॥अप्रबुद्धदृशां पक्षे तत्प्रबोधाय केवलम् ।वाच्यवाचकसंबन्धकृतो भेदः प्रकल्प्यते ॥४॥सर्वशक्ति परं ब्रह्म नित्यमापूर्णमव्ययम् ।न तदस्ति न तस्मिन्यद्विद्यते विततात्मनि ॥५॥सर्वशक्तिर्हि भगवान्यैव तस्मै हि रोचते ।शक्तिं तामेव विततां प्रकाशयति सर्वगः ॥६॥चिच्छक्तिर्ब्रह्मणो राम शरीरेष्वभिदृश्यते ।स्पन्दशक्तिश्च वातेषु जडशक्तिस्तथोपले ॥७॥द्रवशक्तिस्तथाम्भःसु तेजःशक्तिस्तथाऽनले ।शून्यशक्तिस्तथाकाशे भावशक्तिर्भवस्थितौ ॥८॥ब्रह्मणः सर्वशक्तिर्हि दृश्यते दशदिग्गता ।नाशशक्तिर्विनाशेषु शोकशक्तिश्च शोकिषु ॥९॥आनन्दशक्तिर्मुदिते वीर्यशक्तिस्तथा भटे ।सर्गेषु सर्गशक्तिश्च कल्पान्ते सर्वशक्तिता ॥१०॥फलपुष्पलतापत्रशाखाविटपमूलवान् ।वृक्षबीजे यथा वृक्षस्तथेदं ब्रह्मणि स्थितम् ॥११॥प्रतिभासवशादेव मध्यस्थं चित्तजाड्ययोः ।जीवेतराभिधं चित्तमन्तर्ब्रह्मणि दृश्यते ॥१२॥नानातरुलतागुल्मजालपल्लवशालयः ।निर्विकल्पकचिन्मात्रं नानाऽनिर्ज्ञातकल्पना ॥१३॥ब्रह्मैवेदमहंतत्त्वं जगत्पश्याद्य राघव ।स आत्मा सर्वगो नाम नित्योदितमहावपुः ॥१४॥यन्मनाड्मननीं शक्तिं धत्ते तन्मन उच्यते ।पिच्छभ्रान्तिर्यथा व्योम्नि पयस्यावर्तधीर्यथा ॥१५॥प्रतिभासकलामात्रं मनो जीवस्तथात्मनि ।यदेतन्मनसो रूपमुदितं मननात्मकम् ॥१६॥ब्राह्मी शक्तिरसौ तस्माद्ब्रह्मैव तदरिंदम ।इदं तदहमित्येव विभागः प्रतिभासजः ॥१७॥मनसो ब्रह्मणोऽन्यच्च मोहे परमकारणम् ।यद्यच्चैतन्मनस्येव किंचित्सदसदात्मकम् ॥१८॥व्याशब्दितं सर्वशक्तेस्तां शक्तिं ब्रह्मतां विदुः ।मनः सत्तात्मकं नाम यथैतन्मनसि स्थितम् ॥१९॥यथर्तोः शक्तयस्तद्वज्जीवेहा ब्रह्मणि स्थिताः ।व्याप्तसर्वर्तुकुसुमा क्ष्मादेशविधिभेदतः ॥२०॥यथा दधाति पुष्पाणि तथा चित्तानि लोककृत् ।क्वचित्क्वचित्कदाचिद्धि तस्मादायान्ति शक्तयः ॥२१॥देशकालादिवैचित्र्यात्क्ष्मातलादिव शालयः ।न जातं प्रतिभासेन तेनैवान्येन पश्यति ॥२२॥प्रतियोगिव्यवच्छेदसंख्यारूपादयश्च ये ।मनःशब्दैः प्रकल्प्यन्ते ब्रह्मजान्ब्रह्म विद्धि तान् ॥२३॥यथा यथास्य मनसः प्रतिभासः प्रवर्तते ।तथा तथैव भवति दृष्टान्तोऽत्र किलैन्दवाः ॥२४॥स्वयमक्षुब्धविमले यथा स्पन्दो महाम्भसि ।संसारकारणं जीवस्तथायं परमात्मनि ॥२५॥ज्ञस्य सर्वं चितं राम ब्रह्मैवावर्तते सदा ।कल्लोलोर्मितरङ्गौघैरब्धेर्जलमिवात्मनि ॥२६॥द्वितीया नास्ति सत्तैका नामरूपक्रियात्मिका ।परे नानातरङ्गेऽब्धौ कल्पनेव जलेतरा ॥२७॥जायते नश्यति तथा यदिदं याति तिष्ठति ।तदिदं ब्रह्मणि ब्रह्म ब्रह्मणा च विवर्तते ॥२८॥स्वात्मन्येवातपस्तीव्रो मृगतृष्णिकया यथा ।विचित्रेण विचित्रोऽपि प्रस्फुरत्यात्मना तथा ॥२९॥करणं कर्म कर्ता च जननं मरणं स्थितिः ।सर्वं ब्रह्मैव नह्यस्ति तद्विना कल्पनेतरा ॥३०॥न लोभोऽस्ति न मोहोऽस्ति न तृष्णास्ति न रञ्जना ।क आत्मन्यात्मनोलोभस्तृष्णामोहोऽथवाकुतः ॥३१॥आत्मैवेदं जगत्सर्वमात्मैव कलनाक्रमः ।हेमाङ्गदतयेवायमात्मोदेति मनस्तया ॥३२॥अबुद्धं यत्परं धाम तच्चित्तं जीव उच्यते ।अपरिज्ञात एवाशु बन्धुरायात्यबन्धुताम् ॥३३॥चिन्मयेनात्मनाऽज्ञेन स्वसंकल्पनया स्वयम् ।शून्यता गगनेनेव जीवता प्रकटीकृता ॥३४॥आत्मैवानात्मवदिह जीवो जगति राजते ।द्वीन्दुत्वमिव दुर्दृष्टेः सच्चासच्च समुत्थितम् ॥३५॥मोहार्थशब्दार्थदृशोरेतयोरत्यसंभवात् ।सत्यत्वादात्मनश्चैव क्वात्मा बद्धः क्व मुच्यते ॥३६॥नित्यासंभवबन्धस्य बद्धोऽस्मीति कुकल्पना ।यस्य काल्पनिकस्तस्य मोक्षो मिथ्या न तत्त्वतः ॥३७॥श्रीराम उवाच ।मनो यं निश्चयं याति तत्तद्भवति नान्यथा ।तेन काल्पनिको नास्ति बन्धः कथमिह प्रभो ॥३८॥श्रीवसिष्ठ उवाच ।मिथ्या काल्पनिकीवेयं मूर्खाणां बन्धकल्पना ।मिथ्यैवाभ्युदिता तेषामितरा मोक्षकल्पना ॥३९॥एवमज्ञानकादेव बन्धमोक्षदृशोऽस्मृतेः ।वस्तुतस्तु न बन्धोऽस्ति न मोक्षोऽस्तिमहामते ॥४०॥कल्पनाया अवस्तुत्वं संप्रबुद्धमतिं प्रति ।रज्ज्वहेरिव हे प्राज्ञ तत्त्वबुद्धमतिं प्रति ॥४१॥बन्धमोक्षादिसंमोहो न प्राज्ञस्यास्ति कश्चन ।संमोहबन्धमोक्षादि ह्यज्ञस्यैवास्ति राघव ॥४२॥आदौ मनस्तदनु बन्धविमोक्षदृष्टीपश्चात्प्रपञ्चरचना भुवनाभिधाना ।इत्यादिका स्थितिरियं हि गता प्रतिष्ठा-माख्यायिका सुभग बालजनोदितेव ॥४३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे चित्तचिकित्सापूर्वकं चित्तोत्पत्तिवर्णनं नाम शततमः सर्गः ॥१००॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP