संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ५५ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ५५ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ५५ Translation - भाषांतर प्रबुद्धलीलोवाच ।यथैव जन्तुर्म्रियते जायते च यथा पुनः ।तन्मे कथय देवेशि पुनर्बोधविवृद्धये ॥१॥श्रीदेव्युवाच ।नाडीप्रवाहे विधुरे यदा वातविसंस्थितिम् ।जन्तुः प्राप्नोति हि तदा शाम्यतीवास्य चेतना ॥२॥शुद्धं हि चेतनं नित्यं नोदेति न च शाम्यति ।स्थावरे जङ्गमे व्योम्नि शैलेऽग्नौ पवने स्थितम् ॥३॥केवलं वातसंरोधाद्यदा स्पन्दः प्रशाम्यति ।मृत इत्युच्यते देहस्तदासौ जडनामकः ॥४॥तस्मिन्देहे शवीभूते वाते चानिलतां गते ।चेतनं वासनामुक्तं स्वात्मतत्त्वेऽवतिष्ठति ॥५॥जीव इत्युच्यते तस्य नामाणोर्वासनावतः ।तत्रैवास्ते स च शवागारे गगनके तथा ॥६॥ततोऽसौ प्रेतशब्देन प्रोच्यते व्यवहारिभिः ।चेतनं वासनामिश्रमामोदानिलवत्स्थितम् ॥७॥इदं दृश्यं परित्यज्य यदास्ते दर्शनान्तरे ।स स्वप्न इव संकल्प इव नानाकृतिस्तदा ॥८॥तस्मिन्नेव प्रदेशेऽन्तः पूर्ववत्स्मृतिमान्भवेत् ।तदैव मृतिमूर्च्छान्ते पश्यत्यन्यशरीरकम् ॥९॥आत्मन्यस्ति घटापुष्टमन्यस्य व्योम केवलम् ।आकाशभूतले साकं साकाशशशिवासरम् ॥१०॥भवन्ति षड्विधाः प्रेतास्तेषां भेदमिमं श्रृणु ।सामान्यपापिनो मध्यपापिनः स्थूलपापिनः ॥११॥सामान्यधर्मा मध्यमधर्मा चोत्तमधर्मवान् ।एतेषां कस्यचिद्भेदो द्वौ त्रयोऽप्यथ कस्यचित् ॥१२॥कश्चिन्महापातकवान्वत्सरं स्मृतिमूर्च्छनम् ।विमूढोऽनुभवत्यन्तः पाषाणहृदयोपमः ॥१३॥ततः कालेन संबुद्धो वासनाजठरोदितम् ।अनुभूय चिरं कालं नारकं दुःखमक्षयम् ॥१४॥भुक्त्वा योनिशतान्युच्चैर्दुःखाद्दुःखान्तरं गतः ।कदाचिच्छममायाति संसारस्वप्नसंभ्रमे ॥१५॥अथवा मृतिमोहान्ते जडदुःखशताकुलाम् ।क्षणाद्वृक्षादितामेव हृत्स्थामनुभवन्ति ते ॥१६॥स्ववासनानुरूपाणि दुःखानि नरके पुनः ।अनुभूयाथ योनीषु जायन्ते भूतले चिरात् ॥१७॥अथ मध्यमपापो यो मृतिमोहादनन्तरम् ।सशिलाजठरं जाड्यं कंचित्कालं प्रपश्यति ॥१८॥ततः प्रबुद्धः कालेन केनचिद्वा तदैव वा ।तिर्यगादिक्रमैर्भुक्त्वा योनीः संसारमेष्यति ॥१९॥मृत एवानुभवति कश्चित्सामान्यपातकी ।स्ववासनानुसारेण देहं संपन्नमक्षतम् ॥२०॥स स्वप्न इव संकल्प इव चेतति तादृशम् ।तस्मिन्नेव क्षणे तस्य स्मृतिरित्थमुदेति च ॥२१॥ये तूत्तममहापुण्या मृतिमोहादनन्तरम् ।स्वर्गविद्याधरपुरं स्मृत्या स्वनुभवन्ति ते। ॥२२॥ततोऽन्यकर्मसदृशं भुक्त्वान्यत्र फलं निजम् ।जायन्ते मानुषे लोके सश्रीके सज्जनास्पदे ॥२३॥ये च मध्यमधर्माणो मृतिमोहादनन्तरम् ।ते व्योमवायुवलिताः प्रयान्त्योषधिपल्लवम् ॥२४॥तत्र चारुफलं भुक्त्वा प्रविश्य हृदयं नृणाम् ।रेतसामधितिष्ठन्ति गर्भे जातिक्रमोचिते ॥२५॥स्ववासनानुसारेण प्रेता एतां व्यवस्थितिम् ।मूर्च्छान्तेऽनुभवन्त्यन्तः क्रमेणैवाक्रमेण च ॥२६॥आदौ मृता वयमिति बुध्यन्ते तदनुक्रमात् ।बन्धुपिण्डादिदानेन प्रोत्पन्ना इति वेदिनः ॥२७॥ततो यमभटा एते कालपाशान्विता इति ।नीयमानः प्रयाम्येभिः क्रमाद्यमपुरं त्विति ॥२८॥उद्यानानि विमानानि शोभनानि पुनःपुनः ।स्वकर्मभिरुपात्तानि दिव्यानीत्येव पुण्यवान् ॥२७॥हिमानीकण्टकश्वभ्रशस्त्रपत्रवनानि च ।स्वकर्मदुष्कृतोत्थानि संप्राप्तानीति पापवान् ॥३०॥इयं मे सौम्यसंपाता सरणिः शीतशाद्वला ।स्निग्धच्छाया सवापीका पुरःसंस्थेति मध्यमः ॥३१॥अयं प्राप्तो यमपुरमहमेष स भूतपः ।अयं कर्मविचारोऽत्र कृत इत्यनुभूतिमान् ॥३२॥इति प्रत्येकमभ्येति पृथुः संसारखण्डकः ।यथासंस्थितनिःशेषपदार्थाचारभासुरः ॥३३॥आकाश इव निःशून्ये शून्यात्मैव विबोधवान् ।देशकालक्रियादैर्घ्यभासुरोऽपि न किंचन ॥३४॥इतोऽयमहमादिष्टः स्वकर्मफलभोजने ।गच्छाम्याशु शुभं स्वर्गमितो नरकमेव च ॥३५॥यः स्वर्गोऽयं मया भुक्तो भुक्तोऽयं नरकोऽथ वा ।इमास्ता योनयो भुक्ता जायेऽहं संसृतौ पुनः ॥३६॥अयं शालिरहं जातः क्रमात्फलमहं स्थितः ।इत्युदर्कप्रबोधेन बुध्यमानो भविष्यति ॥३७॥संसुप्तकरणस्त्वेवं बीजतां यात्यसौ नरेतद्बीजं योनिगलितं गर्भो भवति मातरि ॥३८॥स गर्भो जायते लोके पूर्वकर्मानुसारतः ।भव्यो भवत्यभव्यो वा बालको ललिताकृतिः ॥३९॥ततोऽनुभवतीन्द्वाभं यौवनं मदनोन्मुखम् ।ततो जरां पद्ममुखे हिमाशनिमिव च्युतम् ॥४०॥ततोऽपि व्याधिमरणं पुनर्मरणमूर्च्छनाम् ।पुनः स्वप्नवदायातं पिण्डैर्देहपरिग्रहम् ॥४१॥याम्यं याति पुनर्लोकं पुनरेव भ्रमक्रमम् ।भूयो भूयोऽनुभवति नानायोन्यन्तरोदये ॥४२॥इत्याजवं जवीभावमामोक्षमतिभासुरम् ।भूयो भूयोऽनुभवति व्योम्न्येव व्योमरूपवान् ॥४३॥प्रबुद्धलीलोवाच ।आदिसर्गे यथा देवि भ्रम एष प्रवर्तते ।तथा कथय मे भूयः प्रसादाद्वोधवृद्धये ॥४४॥श्रीदेव्युवाच ।परमार्थघनं शैलाः परमार्थघनं द्रुमाः ।परमार्थघनं पृथ्वी परमार्थघनं नभः ॥४५॥सर्वात्मकत्वात्स यतो यथोदेति चिदीश्वरः ।परमाकाशशुद्धात्मा तत्र तत्र भवेत्तथा ॥४६॥सर्गादौ स्वप्नपुरुषन्यायेनादिप्रजापतिः ।यथा स्फुटं प्रकचितस्तथाद्यापि स्थिता स्थितिः ॥४७॥प्रथमोऽसौ प्रतिस्पन्दः पदार्थानां हि बिम्बकम् ।प्रतिबिम्बितमेतस्माद्यत्तदद्यापि संस्थितम् ॥४८॥यन्नाम सुषिरं स्थानं देहानां तद्गतोऽनिलः ।करोत्यङ्गपरिस्पन्दं जीवतीत्युच्यते ततः ॥४९॥सर्गादावेवमेवैषा जङ्गमेषु स्थिता स्थितिः ।चेतना अपि निःस्पन्दास्तेनैते पादपादयः ॥५०॥चिदाकाशोऽयमेवांशं कुरुते चेतनोदितम् ।स एव संविद्भवति शेषं भवति नैव तत् ॥५१॥नरोपाधिपुरं प्राप्तं चेतत्यक्षिपुटं नयत् ।तत्तस्या नाक्षिचिज्जीवं नो जीवत्येव सर्गतः ॥५२॥तथा खं खं तथा भूमिर्भूमित्वेनाप्त्ववज्जलम् ।यद्यथा चेतति स्वैरं तद्वेत्त्येव तथा वपुः ॥५३॥इति सर्वशरीरेण जंगमत्वेन जंगमम् ।स्थावरं स्थावरत्वेन सर्वात्मा भावयन् स्थितः ॥५४॥तस्माद्यज्जङ्गमं नाम तत्स्वबोधनरूपवत् ।तेन बुद्धं ततस्तद्बत्तदेवाद्यापि संस्थितम् ॥५५॥यद्वृक्षाभिधमाबुद्धं स्थावरत्वेन वै पुनः ।जडमद्यापि संसिद्धं शिलातरुतृणादि च ॥५६॥न तु जाड्यं पृथक्किंचिदस्ति नापि च चेतनम् ।नात्र भेदोऽस्ति सर्गादौ सत्तासामान्यकेन च ॥५७॥वृक्षाणामुपलानां या नामान्तःस्थाः स्वसंविदः ।बुद्ध्यादिविहितान्येव तानि तेषामिति स्थितिः ॥५८॥विदोन्तःस्थावरादेर्यास्तस्या बुद्ध्यास्तथा स्थितेः ।अन्याभिधानास्थानार्थाः संकेतैरपरैः स्थिताः ॥५९॥कृमिकीटपतङ्गानां या नामान्तःस्वसंविदः ।तान्येव तेषां बुद्ध्यादीन्यभिधार्थानि कानिचित् ॥६०॥यथोत्तराब्धिजनता दक्षिणाब्धिजनं स्थितम् ।न किंचिदपि जानाति निजसंवेदनादृते ॥६१॥स्वसंज्ञानुभवे लीनास्तथा स्थावरजङ्गमाः ।परस्परं यदा सर्वे स्वसंकेतपरायणाः ॥६२॥यथा शिलान्तःसंस्थानां बहिष्ठानां च वेदनम् ।असज्जडं च भेकानां मिथोऽन्तस्तस्थुषां तथा ॥६३॥सर्वं सर्वगतं चित्तं चिद्व्योम्ना यत्प्रचेतितम् ।सर्गादौ चोपनं वायुः स इहाद्यापि संस्थितः ॥६४॥चेतितं यत्तु सौषिर्यं तन्नभस्तत्र मारुतः ।स्पन्दात्मेत्यादिसर्गेहाः पदार्थेष्विव चोपनम् ॥६५॥चित्तं तु परमार्थेन स्थावरे जंगमे स्थितम् ।चोपनान्यनिलैरेव भवन्ति न भवन्ति च ॥६६॥एवं भ्रान्तिमये विश्वे पदार्थाः संविदंशवः ।सर्गादिषु यथैवासंस्तथैवाद्यापि संस्थिताः ॥६७॥यथा विश्वपदार्थानां स्वभावस्य विजृम्भितम् ।असत्यमेव सत्याभं तदेतत्कथितं तव ॥६८॥अयमस्तं गतः प्रायः पश्य राजा विदूरथः ।मालाशवस्य पद्मस्य पत्युस्ते याति हृद्गतम् ॥६९॥प्रबुद्धलीलोवाच ।केन मार्गेण देवेशि यात्येष शवमण्डपम् ।एनमेवाशु पश्यन्त्यावावां गच्छाव उत्तमे ॥७०॥श्रीदेव्युवाच ।मनुष्यवासनान्तस्थं मार्गमाश्रित्य गच्छति ।एषोऽहमपरं लोकं दूरं यामीति चिन्मयः ॥७१॥मार्गेणैवमनेनैव यावस्तेयेन (?) संमतम् ।परस्परेच्छाविच्छित्तिर्न हि सौहार्दबन्धनी ॥७२॥श्रीवसिष्ठ उवाच ।इति विहितकथागतक्लमायांपरमदृशि प्रसृते विबोधभानौ ।नृपतिवरसुतामनस्युदारेविगलितचित्तजडो विदूरथोऽभूत् ॥७३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूत्पत्तिप्रकरणे लीलो० संसारमरणावस्थावर्णनं नाम पञ्चपञ्चाशः सर्गः ॥५५॥ N/A References : N/A Last Updated : September 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP