संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ६७ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ६७ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ६७ Translation - भाषांतर श्रीराम उवाच ।मनस्त्वयोग्यो जीवोऽयं को भवेत्परमात्मनः ।कथं वास्मिन्समुत्पन्नः को वायं वद मे पुनः ॥१॥श्रीवसिष्ठ उवाच ।समस्तशक्तिखचितं ब्रह्म सर्वेश्वरं सदा ।ययैव शक्त्या स्फुरति प्राप्तां तामेव पश्यति ॥२॥स्वयं यां वेत्ति सर्वात्मा चिरं चेतनरूपिणीम् ।सा प्रोक्ता जीवशब्देन सैव संकल्पकारिणी ॥३॥स्वभावात्कारणं द्वित्वं पूर्वसंकल्पचित्स्वयम् ।नानाकारणतां पश्चाद्याति जन्ममृतिस्थितेः ॥४॥श्रीराम उवाच ।एवं स्थिते मुनिश्रेष्ठ दैवं नाम किमुच्यते ।किमुच्यते तथा कर्म कारणं च किमुच्यते ॥५॥श्रीवसिष्ठ उवाच ।स्पन्दास्पन्दस्वभावं हि चिन्मात्रमिह विद्यते ।खे वात इव तत्स्पन्दात्सोल्लासं शान्तमन्यथा ॥६॥चित्त्वं चित्तं भावितं सत्स्पन्द इत्युच्यते बुधैः ।दृश्यत्वभावितं चैतदस्पन्दनमिति स्मृतम् ॥७॥स्पन्दात्स्फुरति चित्सर्गो निःस्पन्दाद्ब्रह्म शाश्वतम् ।जीवकारणकर्माद्या चित्स्पन्दस्याभिधा स्मृता ॥८॥य एवानुभवात्मायं चित्स्पन्दोऽस्ति स एव हि ।जीवकारणकर्माख्यो बीजमेतद्धि संसृतेः ॥९॥कृतद्वित्वचिदाभासवशाद्देहमुपस्थितम् ।संकल्पाद्विविधार्थत्वं चित्स्पन्दो याति सृष्टिषु ॥१०॥नानाकारणतां यातश्चित्स्पन्दो मुच्यते चिरात् ।कश्चिज्जन्मसहस्रेण कश्चिदेकेन जन्मना ॥११॥स्वभावात्कारणाद्वित्वं चित्समेत्याधिगच्छति ।स्वर्गापवर्गनरकबन्धकारणतां शनैः ॥१२॥हेम्नीव कटकादित्वं काष्ठलोष्टसमस्थितौ ।देहे तिष्ठति नानात्वं जडे भावविकारजम् ॥१३॥अजातमप्यसद्रूपं पश्यतीदं मनोभ्रमः ।जातः स्थितोमृतोऽस्मीति भ्रमार्तः पत्तनं यथा ॥१४॥अहंममेत्यसद्रूपमेव चेतः प्रपश्यति ।अदृष्टपरमार्थत्वादाशाविवशसंस्थिति ॥१५॥मथुराधिपते राज्ञो यथा श्वपचसंभ्रमः ।आसीदेवं हि चित्तस्य स्फुरतीयं जगत्स्थितिः ॥१६॥सर्वमेव मनोमात्रभ्रान्त्युल्लासविजृम्भणम् ।इदं जगत्तया राम प्रस्फुरत्यम्बुभङ्गवत् ॥१७॥शिवात्प्राक्कारणात्पूर्वं चिच्चेत्यकलनोन्मुखी ।उदेति सौम्याज्जलधेः पयःस्पन्दो मनागिव ॥१८॥स्फुरणाज्जीवचक्रत्वमेति चित्तोर्मितां दधत् ।चिद्वारिब्रह्मजलधौ कुरुते सर्गबुद्बुदान् ॥१९॥स्वस्थः सौम्य समस्यैतद्यत्सिंहस्य विजृम्भणम् ।ब्रह्मणः संविदाभासस्तत्संचेत्यमिव स्वयम् ॥२०॥चित्संवित्त्योच्यते जीवः संकल्पात्स मनो भवेत् ।बुद्धिश्चित्तमहंकारो मायेत्याद्यभिधं ततः ॥२१॥तन्मात्रकल्पना पूर्वं तनोतीदं जगन्मनः ।असत्यं सत्यसंकाशं गन्धर्वनगरं यथा ॥२२॥यथा शून्ये दृशः स्फारान्मुक्तावल्यादिदर्शनम् ।यथा स्वप्ने भ्रमश्चैव तथा चित्तस्य संसृतिः ॥२३॥शुद्ध आत्मा नित्यतृप्त इव शान्तः समस्थितः ।अपश्यन्पश्यतीवेमं चित्ताख्यं स्वप्नविभ्रमम् ॥२४॥संसृतिर्जाग्रदित्युक्तं स्वप्नं विदुरहंकृतिम् ।चित्तं सुषुप्तभावः स्याच्चिन्मात्रं तुर्यमुच्यते ॥२५॥अत्यन्तशुद्धे सन्मात्रे परिणामनिरामयम् ।तुर्यातीतं पदं तत्स्यात्तत्स्थो भूयो न शोचति ॥२६॥तस्मिन्सर्वमुदेतीदं तस्मिन्नेव प्रलीयते ।न चेदं न च तत्रेदं दृष्टौ मुक्तावली यथा ॥२७॥अरोधकत्वात्खं हेतुर्यथा वृक्षसमुन्नतेः ।अकर्तापि तथा कर्ता चेतनाब्धिर्जगत्स्थितेः ॥२८॥संनिधानाद्यथा लौहः प्रतिबिम्बस्य हेतुताम् ।यात्यादर्शस्तथैवायं चिन्मयोऽप्यर्थवेदने ॥२९॥बीजमङ्कुरपत्रादियुक्त्या यद्वत्फलं भवेत् ।चिन्मात्रं चित्तजीवादियुक्त्या तद्वन्मनो भवेत् ॥३०॥स्वतोबीजफला विप्रुड् यथा बीजं पुनर्भवेत् ।तथा चिच्चेत्यचित्तादि त्यक्त्वा स्वस्था न तिष्ठति ॥३१॥यद्यप्यबोधे बोधे वा बीजान्तस्तरुबीजयोः ।इयान्भेदोऽस्ति न जगद्ब्रह्मणोरपि चित्तयोः ॥३२॥तथापि व्यज्यते बोधे सत्यात्मकमखण्डितम् ।रूपश्रीरिव दीपेन चिन्मात्रालोकरूपि यत् ॥३३॥यद्यन्निखन्यते भूमेर्यथा तत्तन्नभो भवेत् ।या या विचार्यते विद्या तथा सा सा परं भवेत् ॥३४॥स्फटिकान्तःसन्निवेशः स्थाणुताऽवेदनाद्यथा ।शुद्धेऽनानापि नानेव तथा ब्रह्मोदरे जगत् ॥३५॥ब्रह्म सर्वं जगद्वस्तु पिण्डमेकमखण्डितम् ।फलपत्रलतागुल्मपीठबीजमिव स्थितम् ॥३६॥श्रीराम उवाच ।अहो चित्रं जगदिदमसत्सदिव भासते ।अहो बृहदहो स्वस्थमहो स्फुटमहो तनु ॥३७॥ब्रह्मणि प्रतिभासात्मा तन्मात्रगुणगोलकः ।अवश्यायकणाभासो यथा स्फुरति तच्छ्रुतम् ॥३८॥यथाऽसौ याति वैपुल्यं यथा भवति चात्मभूः ।यथा स्वभावसिद्धार्थात्तथा कथय मे प्रभो ॥३९॥श्रीवसिष्ठ उवाच ।अत्यन्तासंभवद्रूपमनन्यत्स्वस्वभावतः ।अत्यन्ताननुभूतं सत्स्वानुभूतमिवाग्रतः ॥४०॥उल्लासफुल्लो फुल्लाङ्ग इति बालहृदि स्फुटम् ।यथोदेति तथोदेति परे ब्रह्मणि जीवता ॥४१॥मानमेयात्मिका शुद्धा सत्यैवासत्यवत्स्थिता ।भिन्नेव च न भिन्ना स्याद्ब्रह्मणो ब्रंह्मणात्मिका ॥४२॥यथा ब्रह्म भवत्याशु जीवः कलनजीवितः ।तथा जीवो भवत्याशु मनो मननवेदनात् ॥४३॥चित्तं तन्मात्रमननं पश्यत्याशु स्वरूपवत् ।एष सद्योऽनिललवप्रख्यः स्फुरति खान्तरे ॥४४॥अस्तनिमेषोऽनुभवत्यवश्यायकणोपमम् ।संवेदनात्मकं कालकलितं कान्तमात्मनि ॥४५॥अहं किमिति शब्दार्थवेदनाभोगसंविदम् ।संविदं तत्त्वशब्दार्थं जीवः पश्यति सार्थकम् ॥४६॥तादृक्षवेदनात्सोऽथ रसशब्दार्थवेदनम् ।भाविजिह्वार्थनाम्नैकदेशेऽनुभवति क्षणात् ॥४७॥तादृक्षवेदनात्तेजःशब्दार्थोन्मुखतां गतः ।भविष्यन्नेत्रनाम्नैकदेशे भवति भासनम् ॥४८॥तादृक्षवेदनात्सोऽथ घ्राणं तद्दृष्टिवेदनात् ।स्थितो यस्मिन्भवतीति तावद्दृश्यादिता स्थिता ॥४९॥एवंप्रायः स जीवात्मा काकतालीयवच्छनैः ।विशिष्टसंनिवेशत्वं भावितं पश्यति स्वतः ॥५०॥स तस्य संनिवेशस्य त्वसतोऽपि सतः सतः ।शब्दभावैकदेशत्वं श्रवणार्थेन विन्दति ॥५१॥स्पर्शभावैकदेशत्वं त्वक्शब्दार्थेन विन्दति ।रसभावैकदेशत्वं रसनात्वेन विन्दति ॥५२॥रूपभावैकदेशत्वं नेत्रार्थाकृति पश्यति ।गन्धभावैकदेशत्वं नासिकात्वेन पश्यति ॥५३॥एवं भावमयैः सत्ताप्रकटीकरणक्षमम् ।भविष्यदिन्द्रियाख्यं स रन्ध्रं पश्यति देहके ॥५४॥इत्येवमादि जीवस्य राघवाद्यतनस्य च ।उदेति प्रतिभासात्मा देह एवातिवाहिकः ॥५५॥अनाख्येयं परा सत्तास्यातिवाहिकतामिव ।सा गच्छत्यप्यगच्छन्ती तादृक्सत्यात्मभावनात् ५६मातृमेयप्रमाणादि यदा ब्रह्मैव वेदनात् ।तदातिवाहिकोक्तीनां कः प्रसङ्गस्तदेव तत् ॥५७॥अन्यत्ववेदनादन्यः परस्मादातिवाहिकः ।ब्रह्मत्ववेदनाद्ब्रह्म सा संवित्तिर्हि नान्यजा ॥५८॥श्रीराम उवाच ।असंभवादसंवित्तेर्ब्रह्मात्मैकतयाथवा ।को मोक्षः को विचारश्चेत्यलं भेदविकल्पनैः ॥५९॥श्रीवसिष्ठ उवाच ।सिद्धान्तकाल एवैष प्रश्नस्ते राम राजते ।अकालपुष्पमाला हि शोभनापि न शोभते ॥६०॥सार्थैवानर्थिकाऽकालमाला विलसिता यथा ।तथैवाऽकालमिज्जन्तौ सर्वं काले हि शोभते ॥६१॥प्रतिबन्धाभ्यनुज्ञानां कालो दातेति दृश्यते ।ननु सर्वपदार्थानां कालेन फलयोगतः ॥६२॥एवमेव स जीवात्मा स्वप्नात्मा समुपस्थितः ।पितामहत्वमुच्छूनं पश्यन्नात्मनि कालतः ॥६३॥ओंमुच्चारणसंवित्तिवेदनाच्च प्रपश्यति ।यत्करोति मनोराज्यं भवत्याशु स तन्मयः ॥६४॥इदमेवमसत्सर्वमिव व्योम्नि ततात्मनि ।पर्वतोच्चाकृतिर्व्योम जगद्व्योम्नि विजृम्भते ॥६५॥नेह प्रजायते किंचिन्नेह किंचिद्विनश्यति ।जगद्गन्धर्वनगररूपेण ब्रह्म जृम्भते ॥६६॥यथैव पद्मजादीनां जीवानां सदसन्मयी ।सत्ता तथैव सर्वेषामासरीसृपमासुरम् ॥६७॥संवित्संभ्रम एवायमेवमभ्युत्थितोऽप्यसन् ।आब्रह्मकीटसंवित्तेः सम्यक्संवेदनात्क्षयः ॥६८॥यथा संपद्यते ब्रह्मा कीटः संपद्यते तथा ।कीटस्तु रूढभूतौघवलनात्तुच्छकर्मकः ॥६९॥यदेव जीवनं जीवे चेत्योन्मुखचिदात्मकम् ।तदेव पौरुषं तस्मिन्सारं कर्म तदेव च ॥७०॥ब्रह्मणः सुकृतात्पापात्कीटकस्य समुत्थितेः ।चित्तन्मात्रात्मिका भ्रान्तिः प्रेक्षामात्रं भवेत्क्षयः ॥७१॥मातृमानप्रमेयाणि न चिन्मात्रेतरद्यतः ।ततो द्वैतैक्यवादार्थः शशशृङ्गाज्जिनीसमः ॥७२॥भावदार्ढ्यात्मकं मिथ्या ब्रह्मानन्दो विभाव्यते ।आत्मैव कोशकारेण लालादार्ढ्यात्मकं यथा ॥७३॥मनसा ब्रह्मणा यद्यद्यथा दृष्टं विभावितम् ।तत्तथा दृश्यते तज्ज्ञैः स्वभावस्यैव निश्चयः ॥७४॥यथा यदुदितं वस्तु तत्तत्तन्न विना भवेत् ।निमेषमपि कल्पं वा स्वभावस्यैष निश्चयः ॥७५॥अलीकमिदमुत्पन्नमलीकं च विवर्धते ।अलीकमेव स्वदते तथालीकं विलीयते ॥७६॥शुद्धं सर्वगतं ब्रह्मानन्तमद्वितीयं दुःखबोधवशादशुद्धमिवासदिवानेकमिवासर्वगमिवावबुध्यते ॥७७॥जलमन्यत्तरङ्गोऽन्य इति बालकुकल्पनया भेदःकल्प्यत एवमवास्तवस्तस्माद्यो योऽयमाभाति भेदःस केवलमतत्त्वविद्भिः परिकल्पितो रज्ज्वां सर्पइव एवं भेदाभेदशक्त्योररिमित्रयोरेव ब्रह्मण्येवसंभवेत् ॥७८॥तेनात्मनाऽद्वितीयेनैव द्वित्वमिवाततं यथासलि-लेन तरंगकल्पनया सुवर्णेन कटककल्पनयैवमितिअतस्तेन स्वयमेवात्मनात्मान्य इव चेत्यते ॥७९॥अतः कलना जाता सैव स्फारतां प्राप्य मनःसंपन्नं तेनाहंभावः कल्पितो निर्विकल्पप्रत्यक्षरूप-मेतत्प्रथमं तन्मनस्तदहं भवति क्षिप्रमहंशब्दार्थ-भावनात् ॥८०॥ततो मनोहंकाराभ्यां स्मृतिरनुसंहिता तैस्त्रिभिस्तदनुभूततन्मात्राणि कल्पितानि तन्मात्रेषु जीवेनचित्तात्मना स्वयं काकतालीयवद्ब्रह्मोपादानादियान्संनिवेशः कल्पितो दृश्यते ॥८१॥एवं यदेव मनः कल्पयति तदेव पश्यति ।सद्वा भवत्वसद्वा चित्तं यत्कल्पयत्यभिनेविष्टम् ।तत्तत्पश्यति यास्यति सदिव प्रतिभासमुपगतं सद्यः ॥८२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपाये उत्पत्तिप्रकरणे सत्योपदेशो नाम सप्तषष्टितमः सर्गः ॥६७॥ N/A References : N/A Last Updated : September 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP