संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ४ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ४ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४ Translation - भाषांतर श्रीवाल्मीकिरुवाच ।कथयत्येवमुद्दामवचने मुनिनायके ।श्रोतुमेकरसे जाते जने मौनमुपस्थिते ॥१॥शान्तेषु किङ्किणीजालरवेषु स्पन्दनं विना ।पञ्जरान्तरहारीतशुकेष्वप्यस्तकेलिषु ॥२॥सुविस्मृतविलासासु स्थितासु ललनास्वपि ।चित्रभित्ताविव न्यस्ते समस्ते राजसद्मनि ॥३॥मुहूर्तशेषमभवद्दिवसं मधुरातपम् ।व्यवहारा रविकरैः सह तानवमाययुः ॥४॥ववुरुत्फुल्लकमलप्रकरामोदमांसलाः ।वायवो मधुरस्पन्दाः श्रवणार्थमिवागताः ॥५॥श्रुतं चिन्तयितुं भानुरिवाहोरचनाभ्रमम् ।तत्याजैकान्तमगमच्छून्यमस्तगिरेस्तटम् ॥६॥उत्तस्थुर्मिहिकारम्भसमता वनभूमिषु ।विज्ञानश्रवणादन्तःशीतलाः शान्तता इव ॥७॥बभूवुरल्पसंचारा जना दशसु दिक्ष्वपि ।सावधानतया श्रोतुमिव संत्यक्तचेष्टिताः ॥८॥छाया दीर्घत्वमाजग्मुर्वासिष्ठं वचनक्रमम् ।इव श्रोतुमशेषाणां वस्तूनां दीर्घकन्धराः ॥९॥प्रतीहारः पुरः प्रह्वो भूत्वाह वसुधाधिपम् ।देव स्नानद्विजार्चासु कालो व्यतिगतो भृशम् ॥१०॥ततो वसिष्ठो भगवान्संहृत्य मधुरां गिरम् ।अद्य तावन्महाराज श्रुतमेतावदस्तु वः ॥११॥प्रातरन्यद्वदिष्यामि इत्युक्त्वा मौनवानभूत् ।इत्याकर्ण्यैवमस्तूक्त्वा भूपतिर्भूतिवृद्धये ॥१२॥पुष्पपाद्यार्घसन्मानदक्षिणादानपूजया ।सदेवर्षिमुनीन्विप्रान्पूजयामास सादरम् ॥१३॥अथोत्तस्थौ सभा सर्वा सराजमुनिमण्डला ।मण्डलाकीर्णरत्नौघपरिवेषावृतानना ॥१४॥परस्पराङ्गसंघट्टरणत्केयूरकङ्कणा ।हारभाराहृतस्वर्णपट्टाभोरुस्तनान्तरा ॥१५॥शेखरोत्सङ्गविश्रान्तप्रबुद्धमधुपस्वनैः ।सघुंघुमशिरोभारा वदद्भिरिव मूर्धजैः ॥१६॥काञ्चनाभरणोद्द्योतकनकीकृतदिंग्मुखाः ।बुद्धिस्थमुनिवागर्थसंशान्तेन्द्रियवृत्तयः ॥१७॥जग्मुर्नभश्चरा व्योम भूचरा भूमिमण्डलम् ।चक्रुर्दिनसमाचारं सर्वे ते स्वेषु सद्मसु ॥१८॥एतस्मिन्नन्तरे श्यामा यामिनी समदृश्यत ।जनसङ्गाद्विनिर्मुक्ता गृहे बालाङ्गना यथा ॥१९॥देशान्तरं भासयितुं ययौ दिवसनायकः ।सर्वत्रालोककर्तृत्वमेव सत्पुरुषव्रतम् ॥२०॥उदभूदभितः संध्या तारानिकरधारिणी ।उत्फुल्लकिंशुकवना वसन्तश्रीरिवोदिता ॥२१॥चूतनीपकदम्बाग्रग्रामचैत्यगृहोदरे ।निलिल्यिरे खगाश्चित्तेऽवदाता वृत्तयो यथा ॥२२॥भानोर्भासा भूषितैर्मेघलेशैःकिंचित्किंचित्कुङ्कुमच्छाययेव ।पाश्चात्त्योऽद्रिः पीतवासाः समेघैः-स्ताराहारः श्रीयुतः खं समेतः ॥२३॥पूजामादाय संध्यायां प्रगतायां यथागतम् ।अन्धकाराः समुत्तस्थुर्वेताला वपुषा यथा ॥२४॥अवश्यायकणास्पन्दी हेलाविद्युतपल्लवः ।कोमलः कुमुदाशंसी ववावाशीतलोऽनिलः ॥२५॥परमान्ध्यमुपाजग्मुदिशोऽविस्फुटतारकाः ।लम्बदीर्घतमःकेश्यो विधवा इव योषितः ॥२६॥आययौ भुवनं तेजः क्षीरपूरेण पूरयन् ।रसायनमयाकारः शशिक्षीरार्णवो नभः ॥२७॥जग्मुस्तिमिरसंघाताः पलाय्य क्वाप्यदृश्यताम् ।श्रुतज्ञानगिरश्चित्तान्महीपानामिवाज्ञताः ॥२८॥ऋषयो भूमिपालाश्च मुनयो ब्राह्मणास्तथा ।चेतसीव विचित्रार्थाः स्वास्पदेषु विशश्रमुः ॥२९॥यमकायोपमाश्यामा ययौ तिमिरमांसला ।आययौ मिहिकास्फारा तत्र तेषामुषः शनैः ॥३०॥अन्तर्धानमुपाजग्मुस्तारा नभसि भासुराः ।प्रभातपवनेनेव हृताः कुसुमवृष्टयः ॥३१॥दृश्यतामाजगामार्कः प्रभोन्मीलितलोचनः ।विवेकवृत्तिर्महतां मनसीव नवोदिता ॥३२॥भानोर्भासा भूषितैर्मेघलेशैःकिंचित्किंचित्कुङ्कुमच्छाययेव ।पूर्वक्ष्माभृत्पीतवासाः समेघै-स्ताराहारः श्रीयुतः खं समेतः ॥३३॥सभां पुनरुपाजग्मुर्नभश्चरमहीचराः ।ह्यस्तनेन क्रमेणैव कृतप्रातस्तनक्रमाः ॥३४॥पूर्ववत्संनिवेशेन विवेश सकला सभा ।बभूवास्पन्दिताकारा वातमुक्तेव पद्मिनी ॥३५॥अथ प्रसङ्गमासाद्य रामो मधुरया गिरा ।उवाच मुनिशार्दूलं वसिष्ठं वदतां वरम् ॥३६॥श्रीराम उवाच ।भगवन्मनसो रूपं कीदृशं वद मे स्फुटम् ।यस्मात्तेनेयमखिला तन्यते लोकमञ्जरी ॥३७॥श्रीवसिष्ठ उवाच ।रामास्य मनसो रूपं न किंचिदपि दृश्यते ।नाममात्रादृते व्योम्नो यथा शून्यजडाकृतेः ॥३८॥न बाह्ये नापि हृदये सद्रूपं विद्यते मनः ।सर्वत्रैव स्थितं चैतद्विद्धि राम यथा नभः ॥३९॥इदमस्मात्समुत्पन्नं मृगतृष्णाम्बुसंनिभम् ।रूपं तु क्षणसंकल्पाद्द्वितीयेन्दुभ्रमोपमम् ॥४०॥मध्ये यदेतदर्थस्य प्रतिभानं प्रथां गतम् ।सतो वाप्यसतो वापि तन्मनो विद्धि नेतरत् ॥४१॥यदर्थप्रतिभानं तन्मन इत्यभिधीयते ।अन्यन्न किंचिदप्यस्ति मनो नाम कदाचन ॥४२॥संकल्पनं मनो विद्धि संकल्पात्तन्न भिद्यते ।यथो द्रवत्वात्सलिलं तथा स्पन्दो यथानिलात् ॥४३॥यत्र संकल्पनं तत्र तन्मनोऽङ्ग तथा स्थितम् ।संकल्पमनसी भिन्ने न कदाचन केचन ॥४४॥सत्यमस्त्वथवाऽसत्यं पदार्थप्रतिभासनम् ।तावन्मात्रं मनो विद्धि तद्ब्रह्मैव पितामहः ॥४५॥आतिवाहिकदेहात्मा मन इत्यभिधीयते ।आधिभौतिकबुद्धिं तु स आधत्ते चिरस्थितेः ॥४६॥अविद्या संसृतिश्चित्तं मनो बन्धो मलस्तमः ।इति पर्यायनामानि दृश्यस्य विदुरुत्तमाः ॥४७॥नहि दृश्यादृते किंचिन्मनसो रूपमस्ति हि ।दृश्यं चोत्पन्नमेवैतन्नेति वक्ष्याम्यहं पुनः ॥४८॥यथा कमलबीजान्तः स्थिता कमलवल्लरी ।महाचित्परमाण्वन्तस्तथा दृश्यं जगत्स्थितम् ॥४९॥प्रकाशस्य यथाऽऽलोको यथा वातस्य चापलम् ।यथा द्रवत्वं पयसि दृश्यत्वं द्रष्टरीदृशम् ॥५०॥अङ्गदत्वं यथा हेम्नि मृगनद्यां यथा जलम् ।भित्तिर्यथा स्वप्नपुरे तथा द्रष्टरि दृश्यधीः ॥५१॥एवं द्रष्टरि दृश्यत्वमनन्यदिव यत्स्थितम् ।तदप्युन्मार्जयाम्याशु त्वच्चित्तादर्शतो मलम् ॥५२॥यद्द्रष्टुरस्याद्रष्टृत्वं दृश्याभावे भवेद्वलात् ।तद्विद्धि केवलीभावं तत एवासतः सतः ॥५३॥तत्तामुपगते भावे रागद्वेषादिवासनाः ।शाम्यन्त्यस्पन्दिते वाते स्पन्दनक्षुब्धता यथा ॥५४॥असंभवति सर्वस्मिन्दिग्भूम्याकाशरूपिणि ।प्रकाश्ये यादृशं रूपं प्रकाशस्यामलं भवेत् ॥५५॥त्रिजगत्त्वमहं चेति दृश्येऽसत्तामुपागते ।द्रष्टुः स्यात्केवलीभावस्तादृशो विमलात्मनः ॥५६॥अनाप्ताखिलशैलादि प्रतिबिम्बे हि यादृशी ।स्याद्दर्पणे दर्पणता केवलात्मस्वरूपिणी ॥५७॥अहं त्वं जगदित्यादौ प्रशान्ते दृश्यसंभ्रमे ।स्यात्तादृशी केवलता स्थिते द्रष्टर्यवीक्षणे ॥५८॥श्रीराम उवाच ।सच्चेन्न शाम्यत्येवेदं नाभावो विद्यते सतः ।असत्तां च न विद्मोऽस्मिन्दृश्ये दोषप्रदायिनि ॥५९॥तस्मात्कथमियं शाम्येद्ब्रह्मन्दृश्यविषूचिका ।मनोभवभ्रमकरी दुःखसंततिदायिनी ॥६०॥श्रीवसिष्ठ उवाच ।अस्य दृश्यपिशाचस्य शान्त्यै मन्त्रमिमं श्रृणु ।रामात्यन्तमयं येन मृतिमेष्यति नङक्ष्यति ॥६१॥यदस्ति तस्य नाशोऽस्ति न कदाचन राघव ।तस्मात्तन्नष्टमप्यन्तर्बीजभूतं भवेद्धृदि ॥६२॥स्मृतिबीजाच्चिदाकाशे पुनरुद्भूय दृश्यधीः ।लोकशैलाम्बराकारं दोषं वितनुतेऽतनुम् ॥६३॥इत्यनिर्मोक्षदोषः स्यान्न च तस्येह संभवः ।यस्माद्देवर्षिमुनयो दृश्यन्ते मुक्तिभाजनम् ॥६४॥यदि स्याज्जगदादीदं तस्मान्मोक्षो न कस्यचित् ।बाह्यस्थमस्तु हृत्स्थं वा दृश्यं नाशाय केवलम् ॥६५॥तस्मादिमां प्रतिज्ञां त्वं श्रृणु रामातिभीषणाम् ।यामुत्तरेण ग्रन्थेन नूनं त्वमवबुध्यसे ॥६६॥अयमाकाशभूतादिरूपोऽहं चेति लक्षितः ।जगच्छब्दस्य नामार्थो ननु नास्त्येव कश्चन ॥६७॥यदिदं दृश्यते किंचिद्दृश्यजातं पुरोगतम् ।परं ब्रह्मैव तत्सर्वमजरामरमव्ययम् ॥६८॥पूर्णे पूर्णं प्रसरति शान्ते शान्तं व्यवस्थितम् ।व्योमन्येवोदितं व्योम ब्रह्मणि ब्रह्म तिष्ठति ॥६९॥न दृश्यमस्ति सद्रूपं न द्रष्टा न च दर्शनम् ।न शून्यं न जडं नो चिच्छान्तमेवेदमाततम् ॥७०॥श्रीराम उवाच ।वन्ध्यापुत्रेण पिष्टोऽद्रिः शशशृङ्गं प्रगायति ।प्रसार्य भुजसंपातं शिला नृत्यति ताण्डवम् ॥७१॥स्रवन्ति सिकतास्तैलं पठन्त्युपलपुत्रिकाः ।गर्जन्ति चित्रजलदा इतीवेदं वचः प्रभो ॥७२॥जरामरणदुःखादिशैलाकाशमयं जगत् ।नास्तीति किमिदं नाम भवताऽपि ममोच्यते ॥७३॥यथेदं न स्थितं विश्वं नोत्पन्नं न च विद्यते ।तथा कथय मे ब्रह्मन्येनैतन्निश्चितं भवेत् ॥७४॥श्रीवसिष्ठ उवाच ।नासमन्वितवागस्मि श्रृणु राघव कथ्यते ।यथेदमसदाभाति वन्ध्यापुत्र इवाऽऽरवी ॥७५॥इदमादावनुत्पन्नं सर्गादौ तेन नास्त्यलम् ।इदं हि मनसो भाति स्वप्नादौ पत्तनं यथा ॥७६॥मन एव च सर्गादावनुत्पन्नमसद्वपुः ।तदेतच्छ्रणु वक्ष्यामि यथैवमनुभूयते ॥७७॥मनोदृश्यमयं दोषं तनोतीमं क्षयात्मकम् ।असदेव सदाकारं स्वप्नः स्वप्नान्तरं यथा ॥७८॥तत्स्वयं स्वैरमेवाशु संकल्पयति देहकम् ।तेनेयमिन्द्रजालश्रीर्विततेन वितन्यते ॥७९॥स्फुरति वल्गति गच्छति याचतेभ्रमति मज्जति संहरति स्वयम् ।अपरतामुपयात्यपि केवलंचलति चञ्चलशक्तितया मनः ॥८०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे उत्पत्तिप्रकरणार्थकल्पनं नाम चतुर्थः सर्गः ॥४॥ N/A References : N/A Last Updated : September 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP