संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ५८ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ५८ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ५८ Translation - भाषांतर श्रीवसिष्ठ उवाच ।एतस्मिन्नन्तरे ज्ञप्तिर्जीवं वैदूरथं पुनः ।संकल्पेन रुरोधाशु मनसः स्पन्दनं यथा ॥१॥लीलोवाच ।वद देवि कियान्कालो गतोऽस्यामिह मन्दिरे ।समाधौ मयि लीनायां महीपाले शवे स्थिते ॥२॥ज्ञाप्तिरुवाच ।इह मासस्त्वतिक्रान्त इह दास्याविमे तव ।रक्षार्थं वासगृहके स्वपतोऽवहिते स्थिते ॥३॥शृणु देहस्य किंवृत्तं तवेह वरवर्णिनि ।शरीरं तव पक्षेण तत्क्लिन्नं बाष्पतां गतम् ॥४॥निर्जीवं पतितं भूमौ संशुष्कमिव पल्लवम् ।काष्ठकुड्योपमो जातः शवस्तु हिमशीतलः ॥५॥ततो मन्त्रिभिरागत्य मृतैवेयमिति स्वयम् ।क्लेदालोकाद्विनिर्णीय भूयो निष्कासितं गृहात् ॥६॥बहुनात्र किमुक्तेन नीत्वा चन्दनदारुभिः ।चितौ संक्षिप्य सघृतं सहसा भस्मसात्कृतम् ॥७॥ततो राज्ञी मृतेत्युच्चैः कृत्वा रोदनमाकुलम् ।परिवारस्तवाशेषं कृतवानौर्ध्वदेहिकम् ॥८॥इदानीं त्वामिहालोक्य सशरीरामुपागताम् ।परलोकादागतेति महच्चित्रं भविष्यति ॥९॥त्वं तु तेन शरीरेण सत्यसंकल्पतः सुते ।दृश्यसे स्ववदातेन चित्रं तत्र तवोपरि ॥१०॥यद्वासना त्वमभवो देहं प्रति तदेव ते ।रूपमभ्युदितं बाले तेन प्राक्सदृशं तव ॥११॥स्ववासनानुसारेण सर्वः सर्वं हि पश्यति ।दृष्टान्तोऽत्राविसंवादी बालवेतालदर्शनम् ॥१२॥आतिवाहिकदेहासि संपन्ना सिद्धसुन्दरि ।विस्मृतस्त्वेव देहोऽसौ प्राक्तनोऽनपवासनः ॥१३॥रूढातिवाहिकदृशः प्रशाम्यत्याधिभौतिकः ।बुधस्य दृश्यमानोऽपि शरन्मेघ इवाम्बरे ॥१४॥रूढातिवाहिकीभावः सर्वो भवति देहकः ।निर्जलाम्भोदसदृशो निर्गन्धकुसुमोपमः ॥१५॥सद्वासनस्य रूढायामातिवाहिकसंविदि ।देहो विस्मृतिमायाति गर्भसंस्थेव यौवने ॥१६॥एकत्रिंशेऽद्य दिवसे प्राप्ता वयमिहाम्बरे ।प्रभाते मोहिते दास्यौ मयैते निद्रयाधुना ॥१७॥तदेहि यावल्लीलायै लीले संकल्पलीलया ।आत्मानं दर्शयावोऽस्यै व्यवहारः प्रवर्तताम् ॥१८॥श्रीवसिष्ठ उवाच ।आवां तावदिमे लीला पश्यत्वित्येव चिन्तिते ।ज्ञप्त्या देव्या ततस्तत्र दृश्ये दीप्ते बभूवतुः ॥१९॥सा विदूरथलीलाथ समाकुलविलोचना ।गृहमालोकयामास तत्तेजःपुञ्जभास्वरम् ॥२०॥चन्द्रबिम्बादिवोत्कीर्णं धौतं हेमद्रवैरिव ।ज्वालाया द्रवशीतायास्तत्प्रभाद्रवभित्तिमत् ॥२१॥गृहमालोक्य पुरतो लीलाज्ञप्ती विलोक्य ते ।उत्थाय संभ्रमवती तयोः पादेषु सापतत् ॥२२॥मज्जयायागते देव्यौ जयतां जीवनप्रदे ।इह पूर्वमहं प्राप्ता भवत्योर्मार्गशोधिनी ॥२३॥इत्युक्तवत्यां तस्यां ता मानिन्यो मत्तयौवनाः ।उपाविशन्विष्टरेषु लतामेरुशिरःस्विव ॥२४॥ज्ञप्तिरुवाच ।सुते वद कथं प्राप्ता त्वमिमं देशमादितः ।किं वृत्तं ते त्वया दृष्टं किमिवाध्वनि कुत्र वा ॥२५॥विदूरथलीलोवाच ।देवि तस्मिन्प्रदेशे सा जातमूर्च्छा तदाभवम् ।द्वितीयेन्दोः कलेवाहं कल्पान्तज्वालया हता ॥२६॥न चेतितं मया किंचित्समं विषममेव च ।ततस्तरलपक्ष्मान्ते विनिमील्य विलोचने ॥२७॥ततो मरणमूर्च्छान्ते पश्यामि परमेश्वरि ।यावदभ्युदितास्म्याशु प्लुता च गगनोदरे ॥२८॥भूताकाशेऽनिलरथं समारूढास्म्यहं ततः ।आनीता गन्धलेखेव तेनाहमिममालयम् ॥२९॥देवि पश्यामि सदनं नायकेनाभ्यलंकृतम् ।दीप्तदीपं विविक्तं च महार्हशयनान्वितम् ॥३०॥पतिमालोकयामीमं यावदेष विदूरथः ।शेते कुसुमगुप्ताङ्गो मधुः पुष्पवने यथा ॥३१॥अथ संग्रामसंरम्भश्रमार्तोऽयं स्वपित्यलम् ।इति निद्रा मया सेयं देवेश्वरि न वारिता ॥३२॥अनन्तरमिमं देशं प्राप्ते देव्याविमे त्विति ।यथानुभूतं कथितं मदनुग्रहकारिणि ॥३३॥ज्ञप्तिरुवाच ।हे हंसहारिगामिन्यौ लीले ललितलोचने ।उत्थापयामो नृपतिं शवतल्पतलादिमम् ॥३४॥इत्युक्त्वा मुमुचे जीवमामोदमिव पद्मिनी ।ससमीरलताकारस्तन्नासानिकटं ययौ ॥३५॥घ्राणकोशं विवेशान्तर्वंशरन्ध्रमिवानिलः ।स्ववासनाशतान्यन्तर्दधदब्धिर्मणीनिव ॥३६॥अन्तस्थजीवं वदनं तस्य तत्कान्तिमाययौ ।पद्मस्यावग्रहे पद्मं सुवृष्ट इव वारिणि ॥३७॥क्रमादङ्गानि सर्वाणि सरसानि चकाशिरे ।तस्य पुष्पाकर इव लताजालानि भूभृतः ॥३८॥अथाबभौ कलापूर्णः स राकायामिवोडुराट् ।भासयन्भुवनं भूरि वदनेन्दुमरीचिभिः ॥३९॥स्फुरयामास सोऽङ्गानि रसवन्ति मृदूनि च ।कनकोज्वलकान्तीनि पल्लवानीव माधवः ॥४०॥उन्मीलयामास दृशौ विमलालोलतारके ।हारिण्यौ सुभगाभोगे चन्द्रार्कौ भुवनं यथा ॥४१॥उत्तस्थौ प्रोल्लसत्कायो विन्ध्याद्रिर्वृद्धिमानिव ।उवाच कः स्थित इति घनगम्भीरनिःस्वनम् ॥४२॥लीलाद्वयमथास्याग्रे प्रोवाचादिश्यतामिति ।स ददर्श पुरो नम्रं लीलाद्वयमवस्थितम् ॥४३॥समाचारं समाकारं समरूपं समस्थिति ।समवाक्यं समोद्योगं समानन्दं समोदयम् ॥४४॥का त्वं केयं कुतश्चेयमित्याह स विलोकयन् ।तस्मै लीलाह हे देव श्रूयतां यद्वदाम्यहम् ॥४५॥महिला तव लीलाहं प्राक्तनी सहधर्मिणी ।वागर्थस्येव संपृक्ता स्थिता संश्लेषशालिनी ॥४६॥इयं लीला द्वितीया ते महिला हेलया मया ।उपार्जिता त्वदर्थेन प्रतिबिम्बमयी शुभा ॥४७॥शिरोभागोपविष्टेयं पाहि हैममहासने ।एषा सरस्वती देव त्रैलोक्यजननी शिवा ॥४८॥अस्माकं पुण्यसंभारैरिह साक्षादुपागता ।अनयेमे पराल्लोकादिहानीते महीपते ॥४९॥इत्याकर्ण्य समुत्थाय राजा राजीवलोचनः ।लम्बमाल्याम्बरधरः पपात ज्ञप्तिपादयोः ॥५०॥सरस्वति नमस्तुभ्यं देवि सर्वहितप्रदे ।प्रयच्छ वरदे मेधां दीर्घमायुर्धनानि च ॥५१॥इत्युक्तवन्तं हस्तेन पस्पर्श ज्ञप्तिदेवता ।सरस्वत्युवाच ।त्वं पुत्राभिमतार्थाढ्यो भवेति भवनान्वितः ॥५२॥सर्वापदः सकलदुष्कृतदृष्टयश्चगच्छन्तु वः शममनन्तसुखानि सम्यक् ।आयान्तु नित्यमुदिता जनता भवन्तुराष्ट्रेस्थिराश्च विलसन्तु सदैव लक्ष्म्यः ॥५३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने पद्मजीवनं नामाष्टपञ्चाशः सर्गः ॥५८॥ N/A References : N/A Last Updated : September 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP