संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ९६ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ९६ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ९६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।मनो हि भावनामात्रं भावना स्पन्दधर्मिणी ।क्रिया तद्भावितारूपं फलं सर्वोऽनुधावति ॥१॥श्रीराम उवाच ।विस्तरेण मम ब्रह्मन् जडस्याप्यजडाकृतेः ।रूपमारूढसंकल्पं मनसो वक्तुमर्हसि ॥२॥श्रीवसिष्ठ उवाच ।अनन्तस्यात्मतत्त्वस्य सर्वशक्तेर्महात्मनः ।संकल्पशक्ति रचितं यद्रूपं तन्मनो विदुः ॥३॥भावः सदसतोर्मध्ये नृणां चलति यश्चलः ।कलनोन्मुखतां यातस्तद्रूपं मनसो विदुः ॥४॥नाहं वेदावभासात्मा कुर्वाणोऽस्मीति निश्चयः ।तस्मादेकान्तकलनस्तद्रूपं मनसो विदुः ॥५॥कल्पनात्मिकया कर्मशक्त्या विरहितं मनः ।न संभवति लोकेऽस्मिन्गुणहीनो गुणी यथा ॥६॥यथा वह्न्यौष्ण्ययोः सत्ता न संभवति भिन्नयोः ।तथैव कर्ममनसोस्तथात्ममनसोरपि ॥७॥स्वेनैव चित्तरूपेण कर्मणा फलधर्मिणा ।संकल्पैकशरीरेण नानाविस्तरशालिना ॥८॥इदं ततमनेकात्म मायामयमकारणम् ।विश्वं विगतविन्यासं वासनाकल्पनाकुलम् ॥९॥या येन वासना यत्र सतेवारोपिता यथा ।सा तेन फलसूस्तत्र तदेव प्राप्यते तथा ॥१०॥कर्म बीजं मनःस्पन्दः कथ्यतेऽथानुभूयते ।क्रियास्तु विविधास्तस्य शाखाश्चित्रफलास्तरोः ॥११॥मनो यदनुसंधत्ते तत्कर्मेन्द्रियवृत्तयः ।सर्वाः संपादयन्त्येतास्तस्मात्कर्म मनः स्मृतम् ॥१२॥मनो बुद्धिरहंकारश्चित्तं कर्माथ कल्पना ।संसृतिर्वासना विद्या प्रयत्नः स्मृतिरेव च ॥१३॥इन्द्रियं प्रकृतिर्माया क्रिया चेतीतरा अपि ।चित्राः शब्दोक्तयो ब्रह्मन्संसारभ्रमहेतवः ॥१४॥काकतालीययोगेन त्यक्तस्फारदृगाकृतेः ।चितेश्चेत्यानुपातिन्याः कृताः पर्यायवृत्तयः ॥१५॥श्रीराम उवाच ।परायाः संविदो ब्रह्मन्नेताः पर्यायवृत्तयः ।कल्प्यमानविचित्रार्थाः कथं रूढिमुपागताः ॥१६॥श्रीवसिष्ठ उवाच ।गतेव सकलङ्कत्वं कदाचित्कल्पनात्मकम् ।उन्मेषरूपिणी नाना तदैव हि मनःस्थिता ॥१७॥भावनामनुसंधानं यदा निश्चित्य संस्थिता ।तदैषा प्रोच्यते बुद्धिरियत्ताग्रहणक्षमा ॥१८॥यदा मिथ्याभिमानेन सत्तां कल्पयति स्वयम् ।अहंकाराभिमानेन प्रोच्यते भवबन्धनी ॥१९॥इदं त्यक्त्वेदमायाति बालवत्पेलवा यदा ।विचारं संपरित्यज्य तदा सा चित्तमुच्यते ॥२०॥यदा स्पन्दैकधर्मत्वात्कर्तुर्या शून्यशंसिनी ।आधावति स्पन्दफलं तदा कर्मेत्युदाहृता ॥२१॥काकतालीययोगेन त्यक्त्वैकघननिश्चयम् ।यदेहितं कल्पयति भावं तेनेह कल्पना ॥२२॥पूर्वदृष्टमदृष्टं वा प्राग्दृष्टमिति निश्चयैः ।यदैवेहां विधत्तेऽन्तस्तदा स्मृतिरुदाहृता ॥२३॥यदा पदार्थशक्तीनां संभुक्तानामिवाम्बरे ।वसत्यस्तमितान्येहा वासनेति तदोच्यते ॥२४॥अस्त्यात्मतत्त्वं विमलं द्वितीया दृष्टिरङ्किता ।जाता ह्यविद्यमानैव तदा विद्येति कथ्यते ॥२५॥स्फुरत्यात्मविनाशाय विस्मारयति तत्पदम् ।मिथ्याविकल्पजालेन तन्मलं परिकल्प्यते ॥२६॥श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा विमृश्य च ।इन्द्रमानन्दयत्येषा तेनेन्द्रियमिति स्मृतम् ॥२७॥सर्वस्य दृश्यजालस्य परमात्मन्यलक्षिते ।प्रकृतत्वेन भावानां लोके प्रकृतिरुच्यते ॥२८॥सदसत्तां नयत्याशु सत्तां वा सत्त्वमञ्जसा ।सत्तासत्ताविकल्पोऽयं तेन मायेति कथ्यते ॥२९॥दर्शनश्रवणस्पर्शरसनघ्राणकर्मभिः ।क्रियेति कथ्यते लोके कार्यकारणतां गता ॥३०॥चितेश्चेत्यानुपातिन्या गतायाः सकलङ्कताम् ।प्रस्फुरद्रूपधर्मिण्या एताः पर्यायवृत्तयः ॥३१॥चित्ततामुपयाताया गतायाः प्रकृतं पदम् ।स्वैरेव संकल्पशतैर्भृशं रूढिमुपागताः ॥३२॥चेतनीयकलङ्काङ्काज्जाड्यजालानुपातिनी ।संख्याविभागकलना स्ववैकल्याकुलेव चित् ॥३३॥जीव इत्युच्यते लोके मन इत्यपि कथ्यते ।चित्तमित्युच्यते सैव बुद्धिरित्युच्यते तथा ॥३४॥नानासंकल्पकलिलं पर्यायनिचयं बुधाः ।वदन्त्यस्याः कलङ्किन्याश्च्युतायाः परमात्मनः ॥३५॥श्रीराम उवाच ।मनः किं स्याज्जडं ब्रह्मंस्तथा वापि च चेतनम् ।इत्येको मम तत्त्वज्ञ निश्चयोऽन्तर्न जायते ॥३६॥श्रीवसिष्ठ उवाच ।मनो हि न जडं राम नापि चेतनतां गतम् ।म्लानाऽजडा तदा दृष्टिर्मन इत्येव कथ्यते ॥३७॥मध्ये सदसतो रूपं प्रतिभूतं यदाविलम् ।जगतः कारणं नाम तदेतच्चित्तमुच्यते ॥३८॥शाश्वतेनैकरूपेण निश्चयेन विना स्थितिः ।येन सा चित्तमित्युक्ता तस्माज्जातमिदं जगत् ॥३९॥जडाजडदृशोर्मध्ये दोलारूपं स्वकल्पनम् ।यच्चितो म्लानरूपिण्यास्तदेतन्मन उच्यते ॥४०॥चिन्निःस्पन्दो हि मलिनः कलङ्कविकलान्तरम् ।मन इत्युच्यते राम न जडं न च चिन्मयम् ॥४१॥तस्येमानि विचित्राणि नामानि कलितान्यलम् ।अहंकारमनोबुद्धिजीवाद्यानीतराण्यपि ॥४२॥यथा गच्छति शैलूषो रूपाण्यलं तथैव हि ।मनो नामान्यनेकानि धत्ते कर्मान्तरं व्रजत् ॥४३॥चित्राधिकारवशतो विचित्रा विकृताभिधाः ।यथा याति नरः कर्मवशाद्याति तथा मनः ॥४४॥या एताः कथिताः संज्ञा मया राघव चेतसः ।एता एवान्यथा प्रोक्ता वादिभिः कल्पनाशतैः ॥४५॥स्वभावाभिमतां बुद्धिमारोप्य मनसा कृताः ।मनोबुद्धीन्द्रियादीनां विचित्रा नामरीतयः ॥४६॥मनो हि जडमन्यस्य भिन्नमन्यस्य जीवतः ।तथाहंकृतिरन्यस्य बुद्धिरन्यस्य वादिनः ॥४७॥अहंकारमनोबुद्धिदृष्टयः सृष्टिकल्पनाः ।एकरूपतया प्रोक्ता या मया रघुनन्दन ॥४८॥नैयायिकैरितरथा तादृशैः परिकल्पिताः ।अन्यथा कल्पिताः सांख्यैश्चार्वाकैरपि चान्यथा ॥४९॥जैमिनीयैश्चार्हतैश्च बौद्धैर्वैशेषिकैस्तथा ।अन्यैरपि विचित्रैस्तैः पाञ्चरात्रादिभिस्तथा ॥५०॥सर्वैरेव च गन्तव्यं तैः पदं पारमार्थिकम् ।विचित्रं देशकालोत्थैः पुरमेकमिवाध्वगैः ॥५१॥अज्ञानात्परमार्थस्य विपरीतावबोधतः ।केवलं विवदन्त्येते विकल्पैरारुरुक्षवः ॥५२॥स्वमार्गमभिशंसन्ति वादिनश्चित्रया दृशा ।विचित्रदेशकालोत्था मार्गं स्वं पथिका इव ॥५३॥तैर्मिथ्या राघव प्रोक्ताः कर्ममानसचेतसाम् ।स्वविकल्पार्पितैरर्थैः स्वाः स्वा वैचित्र्ययुक्तयः ॥५४॥यथैव पुरुषः स्नानदानादानादिकाः क्रियाः ।कुर्वंस्तत्कर्तृवैचित्र्यमेति तद्वदिदं मनः ॥५५॥विचित्रकार्यवशतो नामभेदेन कर्तृता ।मनः संप्रोच्यते जीववासनाकर्मनामभिः ॥५६॥चित्तमेवेदमखिलं सर्वेणैवानुभूयते ।अचित्तो हि नरो लोकं पश्यन्नपि न पश्यति ॥५७॥श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा शुभाशुभम् ।अन्तर्हर्षं विषादं च समनस्को हि विन्दति ॥५८॥आलोक इव रूपाणामर्थानां कारणं मनः ।बध्यते बद्धचित्तो हि मुक्तचित्तो हि मुच्यते ॥५९॥तज्जडानां परं विद्धि जडं येनोच्यते मनः ।न चावगच्छति जडं मनो यस्य हि चेतनम् ॥६०॥न चेतनं न च जडं यदिदं प्रोत्थितं मनः ।विचित्रसुखदुःखेहं जगदभ्युदितं तदा ॥६१॥एकरूपे हि मनसि संसारः प्रविलीयते ।उपाविलं कारणं तैर्भ्रान्त्या जगदुपस्थितम् ॥६२॥अजडं हि मनो राम संसारस्य न कारणम् ।जडं चोपलधर्मापि संसारस्य न कारणम् ॥६३॥न चेतनं न च जडं तस्माज्जगति राघव ।मनः कारणमर्थानां रूपाणामिव भासनम् ॥६४॥चित्तादृतेऽन्यद्यद्यस्ति तदचित्तस्य किं जगत् ।सर्वस्य भूतजातस्य समग्रं प्रविलीयते ॥६५॥नानाकर्मवशावेशान्मनो नानाभिधेयताम् ।एकं विचित्रतामेति कालो नाना यथर्तुमिः ॥६६॥यदि नामामनस्कारमहंकारेन्द्रियक्रियाः ।क्षोभयन्ति शरीरं तत्सन्तु जीवादयः परे ॥६७॥दर्शनेषु तु ये प्रोक्ता भेदा मनसि तर्कतः ।क्वचित्कचिद्वादकरैरपवादकरैः किल ॥६८॥ते हि राम न बुध्यन्ते विशिष्यन्ते न च क्वचित् ।सर्वा हि शक्तयो देवे विद्यन्ते सर्वगा यतः ॥६९॥यदैव खलु शुद्धाया मनागपि हि संविदः ।जडेव शक्तिरुदिता तदा वैचित्र्यमागतम् ॥७०॥ऊर्णनाभाद्यथा तन्तुर्जायते चेतनाज्जडः ।नित्यप्रबुद्धात्पुरुषाद्ब्रह्मणः प्रकृतिस्तथा ॥७१॥अविद्यावशतश्चित्तभावनाः स्थितिमागताः ।चिति पर्यायशब्दा हि भिन्नास्ते नेह वादिनाम् ॥७२॥जीवो मनश्च ननु बुद्धिरहंकृतिश्चेत्येवं प्रथामुपगतेयमनिर्मला चित् । सैषोच्यते जगति चेतनचित्तजीवसंज्ञागणेन किल नास्ति विवाद एषः ॥७३॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे मनःसंज्ञाविचारो नाम षण्णवतितमः सर्गः ॥९६॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP