संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्|
सर्गः ९४

उत्पत्तिप्रकरणं - सर्गः ९४

योगवासिष्ठः

श्रीवसिष्ठ उवाच ।
उत्तमाधममध्यानां पदार्थानामितस्ततः ।
उत्पत्तीनां विभागोऽयं श्रृणु वक्ष्यामि राघव ॥१॥
इदं प्रथमतोत्पन्नो योऽस्मिन्नेव हि जन्मनि ।
इदंप्रथमतानाम्नी शुभाभ्याससमुद्भवा ॥२॥
शुभलोकाश्रया सा च शुभकार्यानुबन्धिनी ।
सा चेद्विचित्रसंसारवासनाव्यवहारिणी ॥३॥
भवैः कतिपयैर्मोक्षमित्युक्ता गुणपीवरी ।
तादृक्फलप्रदानैककार्याकार्यानुमानदा ॥४॥
तेन राम ससत्त्वेति प्रोच्यते सा कृतात्मभिः ।
अथ चेच्चित्रसंसारवासनाव्यवहारिणी ॥५॥
अत्यन्तकलुषा जन्मसहस्रैर्ज्ञानभागिनी ।
तादृक्फलप्रदानैकधर्माधर्मानुमानदा ॥६॥
असावधमसत्त्वेति तेन साधुभिरुच्यते ।
सैव संख्यातिगानन्तजन्मवृन्दादनन्तरम् ॥७॥
संदिग्धमोक्षा यदि तत्प्रोच्यतेऽत्यन्ततामसी ।
अनद्यतनजन्मा तु जातिस्तादृशकारिणी ॥८॥
योत्पत्तिर्मध्यमा पुंसो राम द्वित्रिभवान्तरा ।
तादृक्कार्या तु सा लोके राजसी राजसत्तम ॥९॥
अविप्रकृष्टजन्मापि सोच्यते कृतबुद्धिभिः ।
सा हि तन्मृतिमात्रेण मोक्षयोग्या मुमुक्षुभिः ॥१०॥
तादृक्कार्यानुमानेन प्रोक्ता राजससात्त्विकी ।
सैव चेदितरैरल्पैर्जन्मभिर्मोक्षभागिनी ॥११॥
तत्तादृशी हि सा तज्ज्ञैः प्रोक्ता राजसराजसी ।
सैव जन्मशतैर्मोक्षभागिनी चेच्चिरैषिणी ॥१२॥
त्वदुक्ता तादृगारम्भा सद्भी राजसतामसी ।
सैव संदिग्धमोक्षा चेत्सहस्रैरपि जन्मनाम् ॥१३॥
तदुक्ता तादृशारम्भा राजसात्यन्ततामसी ।
भुक्तजन्मसहस्रा तु योत्पत्तिर्ब्रह्मणो नृणाम् ॥१४॥
चिरमोक्षा हि कथिता तामसी सा महर्षिभिः ।
तज्जन्मनैव मोक्षस्य भागिनी चेत्तदुच्यते ॥१५॥
तज्ज्ञैस्तामससत्त्वेति तादृशारम्भशालिनी ।
भवैः कतिपयैर्मोक्षभागिनी चेत्तदुच्यते ॥१६॥
तमोराजसरूपेति तादृशैर्गुणबृंहितैः ।
पूर्वजन्मसहस्राढ्या पुरोजन्मशतैरपि ॥१७॥
मोक्षायोग्या ततः प्रोक्ता तज्ज्ञैस्तामसतामसी ।
पूर्वं तु जन्मलक्षाढ्या जन्मलक्षैः पुरोऽपि चेत् ॥१८॥
संदिग्धमोक्षा तदसौ प्रोच्यतेऽत्यन्ततामसी ।
सर्वा एताः समायान्ति ब्रह्मणो भूतजातयः ॥१९॥
किंचित्त्प्रचलिता भोगात्पयोराशेरिवोर्मयः ।
सर्वा एव विनिष्क्रान्ता ब्रह्मणो जीवराशयः ॥२०॥
स्वतेजःस्पन्दिताभोगाद्दीपादिव मरीचयः ।
सर्वा एव समुत्पन्ना ब्रह्मणो भूतपङ्क्तयः ॥२१॥
स्वमरीचिबलोद्भूता ज्वलिताग्नेः कणा इव ।
सर्वा एवोत्थितास्तस्माद्ब्रह्मणो जीवराशयः ॥२२॥
मन्दारमञ्जरीरूपाश्चन्द्रबिम्बादिवांशवः ।
सर्वा एव समुत्पन्ना ब्रह्मणो दृश्यदृष्टयः ॥२३॥
यथा विटपिनश्चित्रास्तद्रूपा विटपश्रियः ।
सर्वा एव समुत्पन्ना ब्रह्मणो जीवपङ्क्तयः ॥२४॥
कटकाङ्गदकेयूरयुक्तयः कनकादिव ।
सर्वा एवोत्थिता राम ब्रह्मणो जीवराशयः ॥२५॥
निर्झरादमलोद्योतात्पयसामिव बिन्दवः ।
अजस्यैवाखिला राम भूतसंततिकल्पनाः ॥२६॥
आकाशस्य घटस्थालीरन्ध्राकाशादयो यथा ।
सर्वा एवोत्थिता लोककलना ब्रह्मणः पदात् ॥२७॥
सीकरावर्तलहरीबिन्दवः पयसो यथा ।
सर्वा एवोत्थिता राम ब्रह्मणो दृश्यदृष्टयः ॥२८॥
मृगतृष्णातरङ्गिण्यो यथा भास्करतेजसः ।
सर्वा दृश्यदृशो द्रष्टुर्व्यतिरिक्ता न रूपतः ॥२९॥
शीतरश्मेरित ज्योत्स्ना स्वालोक इव तेजसः ।
एवमेता हि भूतानां जातयो विविधाश्च याः ॥३०॥
यस्मादेव समायान्ति तस्मिन्नेव विशन्ति च ।
काश्चिज्जन्मसहस्रान्ते जातयश्चिरकालिकाः ।
काश्चित्कतिपयातीतजन्मरूपा व्यवस्थिताः ॥३१॥
इत्थं जगत्सु विविधेषु विचित्ररूपा-
स्तस्येच्छया भगवतो व्यवहारवत्यः ।
आयान्ति यान्ति निपतन्ति तथोत्पतन्ति
रूपश्रियः कणघटा इव पावकोत्थाः ॥३२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपायेषूत्पत्तिप्रकरणे ब्रह्मणः सर्वमुत्पद्यत इति कथनं नाम चतुर्नवतितमः सर्गः ॥९४॥

N/A

References : N/A
Last Updated : September 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP