संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ५४ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ५४ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ५४ Translation - भाषांतर श्रीदेव्युवाच ।तस्माद्ये वेद्यवेत्तारो ये वा धर्मं परं श्रिताः ।आतिवाहिकलोकांस्ते प्राप्नुवन्तीह नेतरे ॥१॥आधिभौतिकदेहत्वं मिथ्याभ्रममयात्मकम् ।कथं सत्ये स्थितिं याति च्छायास्ते कथमातपे ॥२॥लीला विदितवेद्या नो परमं धर्ममाश्रिता ।केवलं तेन सा भर्तुः कल्पितं नगरं गता ॥३॥प्रबुद्धलीलोवाच ।एवमेषा प्रयाताऽस्तु भर्ता पश्य ममाम्बिके ।प्रवृत्तः प्राणसंत्यागे कर्तव्यं किमिहाधुना ॥४॥भावाभावेषु भावानां कथं नियतिरागता ।कथं भूयोऽप्यनियतिर्मृतिजन्मादिसूचिता ॥५॥कथं स्वभावसंसिद्धिः कथं सत्ता पदार्थगा ।कथमग्न्यादिपूष्णत्वं पृथ्व्यादौ स्थिरता कथम् ॥६॥हिमादिषु कथं शैत्यं का सत्ता कालखादिषु ।भावाभावग्रहोत्सर्गस्थूलसूक्ष्मदृशः कथम् ॥७॥कथमत्यन्तमुच्छ्रायं तृणगुल्मनरादिकम् ।वस्तु नायात्यनिष्टेऽपि स्थिते स्वोच्छ्रायकारणे ॥८॥श्रीदेव्युवाच ।महाप्रलयसंपत्तौ सर्वार्थास्तमये सति ।अनन्ताकाशमाशान्तं सद्ब्रह्मैवावतिष्ठते ॥९॥तच्चिद्रूपतया तेजःकणोऽहमिति चेतति ।स्वप्ने संविद्यथा हि त्वमाकाशगमनादि च ॥१०॥तेजःकणोऽसौ स्थूलत्वमात्मनात्मनि विन्दति ।असत्यमेव सत्याभं ब्रह्माण्डं तदिदं स्मृतम् ॥११॥तत्रान्तर्ब्रह्म तद्वेत्ति ब्रह्मायमहमित्यथ ।मनोराज्यं स कुरुते स्वात्मैवं तदिदं जगत् ॥१२॥तस्मिन्प्रथमतः सर्गे या यथा यत्र संविदः ।कचितास्तास्तथा तत्र स्थिता अद्यापि निश्चलाः ॥१३॥यद्यथा स्फुरितं चित्तं तत्तथा ह्यात्मचिद्भवेत् ।स्वयमेवानियमतस्तत्तत्स्यान्नेह किंचन ॥१४॥न च नाम नकिंचित्त्वं युज्यते विश्वरूपिणः ।त्यक्त्वा समस्तसंस्थानं हेम तिष्ठति वै कथम् ॥१५॥सर्गादौ स्वयमेवान्तश्चिद्यथा कचितात्मनि ।हिमाग्न्यादितयाद्यापि सा तथास्ते स्वसत्तया ॥१६॥तस्मात्स्वसत्तासंत्यागः सतः कर्तुं न युज्यते ।यदा चिदास्ते तेनेयं नियतिर्न विनश्यति ॥१७॥यद्यथा कचितं यत्र व्योमरूप्यपि पार्थिवम् ।सर्गादौ तस्य चलितुमद्ययावन्न युज्यते ॥१८॥या यथा चित्प्रकचिता प्रतिपक्षविदं विना ।न सा ततः प्रचलति वेदनाभ्यासतः स्वयम् ॥१९॥जगदादावनुत्पन्नं यच्चेदमनुभूयते ।तत्संविद्व्योमकचनं स्वप्नस्त्रीसुरतं यथा ॥२०॥असत्यमेव सत्याभं प्रतिभानमिदं स्थितम् ।इति स्वभावसंपत्तिरिति भूतानुभूतयः ॥२१॥सर्गादौ या यथा रूढा संवित्कचनसंततिः ।साद्याप्यचलितान्येन स्थिता नियतिरुच्यते ॥२२॥गृहीतव्योमसंवित्तिचिद्व्योम व्योमतां गतम् ।गृहीतकालतासंविच्चिन्नभः कालतां गतम् ॥२३॥गृहीतजलसंवित्तिचिद्व्योम वारिवत्स्थितम् ।स्वप्ने यथा हि पुरुषः पश्यत्यात्मनि वारिताम् ॥२४॥स्वप्नचित्संविदाभाति भवत्येषा यथास्थिता ।चिच्चमत्कारचातुर्यादसदेतत्समूहते ॥२५॥खत्वं जलत्वमुर्वीत्वमग्निवायुत्वमप्यसत् ।वेत्त्यन्तः स्वप्नसंकल्पध्यानेष्विव चितिः स्वयम् ॥२६॥मरणानन्तरं कर्मफलानुभवनक्रमम् ।सर्वसंदेहशान्त्यर्थं मृतिश्रेयस्करं श्रृणु ॥२७॥रूढादिसर्गे नियतिर्यैकद्वित्रिचतुःशता ।पूर्वादिष्वायुषः पुंसां तस्या मे नियतिं श्रृणु ॥२८॥देशकालक्रियाद्रव्यशुद्ध्यशुद्धी स्वकर्मणाम् ।न्यूनत्वे चाधिकत्वे च नृणां कारणमायुषः ॥२९॥स्वकर्मधर्मे ह्रसति हसत्यायुर्नृणामिह ।वृद्धे वृद्धिमुपायाति सममेव भवेत्समे ॥३०॥बालमृत्युप्रदैर्बालो युवा यौवनमृत्युदैः ।वृद्धमृत्युप्रदैर्वृद्धः कर्मभिर्मृतिमृच्छति ॥३१॥यो यथाशास्त्रमारब्धं स्वधर्मनुमतिष्ठति ।भाजनं भवति श्रीमान्स यथाशास्त्रमायुषः ॥३२॥एवं कर्मानुसारेण जन्तुरन्त्यां दशामितः ।भवन्त्यन्तं गतवतो दृङ्मर्मच्छेदवेदनाः ॥३३॥प्रबुद्धलीलोवाच ।मरणं मे समासेन कथयेन्दुसमानने ।किं सुखं मरणं किं वा दुःखं मृत्वा च किं भवेत् ॥३४॥श्रीदेव्युवाच ।त्रिविधाः पुरुषाः सन्ति देहस्यान्ते मुमूर्षवः ।मूर्खोऽथ धारणाभ्यासी युक्तिमान्पुरुषस्तथा ॥३५॥अभ्यस्य धारणानिष्ठो देहं त्यक्त्वा यथासुखम् ।प्रयाति धारणाभ्यासी युक्तियुक्तस्तथैव च ॥३६॥धारणा यस्य नाभ्यासं प्राप्ता नैव च युक्तिमान् ।मूर्खः स्वमृतिकालेऽसौ दुःखमेत्यवशाशयः ॥३७॥वासनावेशवैवश्यं भावयन्विषयाशयः ।दीनतां परमामेति परिलूनमिवाम्बुजम् ॥३८॥अशास्त्रसंस्कृतमतिरसज्जनपरायणः ।मृतावनुभवत्यन्तर्दाहमग्नाविव च्युतः ॥३९॥यदा घर्घरकण्ठत्वं वैरूप्यं दृष्टिवर्णजम् ।गच्छत्येषोऽविवेकात्मा तदा भवति दीनधीः ॥४०॥परमान्ध्यमनालोको दिवाप्युदिततारकः ।साभ्रदिग्मण्डलाभोगो घनमेचकिताम्बरः ॥४१॥मर्मव्यथाविच्छुरितः प्रभ्रमदृष्टिमण्डलः ।आकाशीभूतवसुधो वसुधाभूतखान्तरः ॥४२॥परिवृत्तककुप्चक्र उह्यमान इवार्णवे ।नीयमान इवाकाशे घननिद्रोन्मुखाशयः ॥४३॥अन्धकूप इवापन्नः शिलान्तरिव योजितः ।स्वयं जडीभवद्वर्णो विनिकृत्त इवाशये ॥४४॥पततीव नभोमार्गात्तृणावर्त इवार्पितः ।रथे द्रुत इवारूढो हिँमवद्गलनोन्मुखः ॥४५॥व्याकुर्वन्निव संसारं बान्धवानस्पृशन्निव ।भ्रमितक्षेपणेनेव वातयन्त्र इवास्थितः ॥४६॥भ्रमितो वा भ्रम इव कृष्टो रसनयेव वा ।भ्रमन्निव जलावर्ते शस्त्रयन्त्र इवार्पितः ॥४७॥प्रोह्यमानस्तृणमिव वहत्पर्जन्यमारुते ।आरुह्य वारिपूरेण निपतन्निव चार्णवे ॥४८॥अनन्तगगने श्वभ्रे चक्रावर्ते पतन्निव ।अब्धिरुर्वीविपर्यासदशामनुभवन्स्थितः ॥४९॥पतन्निवानवरतं प्रोत्पतन्निव चाभितः ।सूत्काराकर्णनोद्भ्रान्तपूर्णसर्वेन्द्रियव्रणः ॥५०॥क्रमाच्छयामलतां यान्ति तस्य सर्वाक्षसंविदः ।यथास्तं गच्छति रवौ मन्दालोकतया दिशं ॥५१॥पूर्वापरं न जानाति स्मृतिस्तानवमागता ।यथा पाश्चात्यसंध्यान्ते नष्टा दृष्टिर्दिगष्टके ॥५२॥मनः कल्पनसामर्थ्यं त्यजत्यस्य विमोहतः ।अविवेकेन तेनासौ महामोहे निमज्जति ॥५३॥यदैवामोहमादत्ते नादत्ते पवनस्तदा ।नत्वादत्ते यदा प्राणान्मोहमायात्यलं तदा ॥५४॥अन्योन्यपुष्टतां यातैर्मोहसंवेदनभ्रमैः ।जन्तुः पाषाणतामेति स्थितमित्यादिसर्गतः ॥५५॥प्रबुद्धलीलोवाच ।व्यथां विमोहं मूर्च्छान्तं भ्रमं व्याधिमचेतनम् ।किमर्थमयमायाति देहो ह्यष्टाङ्गवानपि ॥५६॥श्रीदेव्युवाच ।एवं संविहितं कर्म सर्गादौ स्पन्दसंविदा ।यद्यस्मिन्समये दुःखं कालेनैतावतेदृशम् ॥५७॥स्यान्मे इत्येव संविश्य गुल्मवत्तत्स्वभावजम् ।वेत्ति चित्तविजृम्भोत्थं नान्यदत्रास्ति कारणम् ॥५८॥यदा व्यथावशान्नाड्यः स्वसंकोचविकासनैः ।गृह्णन्तिमारुतो देहे तदोज्झति निजां स्थितिम् ॥५९॥प्रविष्टा न विनिर्यान्ति गताः संप्रविशन्ति नो ।यदा वाता विनाडीत्वात्तदा स्पन्दात्स्मृतिर्भवेत् ॥६०॥न विशत्येव वातो न निर्याति पवनो यदा ।शरीरनाडीवैधुर्यान्मृत इत्युच्यते तदा ॥६१॥आगन्तव्यो मया नाशः कालेनैतावतेति या ।पूर्वसंविदिता संविद्याति तच्चोदिता मृतिम् ॥६२॥ईदृशेन मयेहेत्थं भाव्यमित्यादि सर्गजा ।संविद्वीजकला नाशं न कदाचन गच्छति ॥६३॥संविदो वेदनं नाम स्वभावोऽव्यतिरेकवान् ।तस्मात्स्वभावसंवित्तेर्नान्ये मरणजन्मनी ॥६४॥क्वचिदावृतिमत्सौम्यं क्वचिन्नद्यां जलं यथा ।क्वचित्सौम्यं क्वचिज्जीवधर्मेदं चेतनं तथा ॥६५॥यथा लतायाः पर्वाणि दीर्घाया मध्यमध्यतः ।तथा चेतनसत्ताया जन्मानि मरणानि च ॥६६॥न जायते न म्रियते चेतनः पुरुषः क्वचित् ।स्वप्नसंभ्रमवद्भ्रान्तमेतत्पश्यति केवलम् ॥६७॥पुरुषश्चेतनामात्रं स कदा क्वेव नश्यति ।चेतनव्यतिरिक्तत्वे वदान्यत्किं पुमान्भवेत् ॥६८॥कोऽद्ययावन्मृतं ब्रूहि चेतनं कस्य किं कथम् ।म्रियन्ते देहलक्षाणि चेतनं स्थितमक्षयम् ॥६९॥अमरिष्यन्न वै चित्तमेकस्मिन्नेव तन्मृते ।अभविष्यत्सर्वभावमृतिरेकमृताविह ॥७०॥वासनामात्रवैचित्र्यं यज्जीवोऽनुभवेत्स्वयम् ।तस्यैव जीवमरणे नामनी परिकल्पिते ॥७१॥एवं न कश्चिन्म्रियते जायते न च कश्चन ।वासनावर्तगर्तेषु जीवो लुठति केवलम् ॥७२॥अत्यन्तासंभवादेव दृश्यस्यासौ च वासना ।नास्त्येवेति विचारेण दृढज्ञातैव नश्यति ॥७३॥अनुदितमुदितं जगत्प्रबन्धंभवभयतोऽभ्यसनैर्विलोक्य सम्यक् ।अलमनुदितवासनो हि जीवोभवति विमुक्त इतीह सत्यवस्तु ॥७४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० मरणविचारो नाम चतुःपञ्चाशः सर्गः ॥५४॥ N/A References : N/A Last Updated : September 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP