संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः १०५ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः १०५ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १०५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।मुहूर्तद्वितयेनाथ बोधमाप महीपतिः ।प्रावृषेण्याम्बुनिर्मुक्तमम्भोरुहमिवोत्तमम् ॥१॥आसनात्साङ्गदोत्तंसः प्रबुद्धोऽसावकम्पयत् ।सवनाभोगशृङ्गाग्र्यो भूकम्प इव पर्वतः ॥२॥बभूवाथ प्रबुद्धोऽसावासनोपरि कम्पितः ।विक्षुब्ध इव पातालवारणे शङ्कराचलः ॥३॥पतन्तं धारयामासुस्तं पुरोगा नृपं भुजैः ।मेरुं प्रलयविक्षुब्धं कुलशैलास्तटैरिव ॥४॥पुरोगैर्धार्यमाणोऽसौ पर्याकुलमतिर्नृपः ।वीचिविक्षोभितस्येन्दोर्बभार वनमाः श्रियः ॥५॥कोऽयं प्रदेशः कस्येयं सभेति स नृपः शनैः ।दध्वान मज्जदम्भोजकोशस्थ इव षट्पदः ॥६॥अथोवाच सभा देव किमेतदिति सादरम् ।रणन्मधुकरी भानुं दृष्टराहुमिवालिनी ॥७॥अथैनं परिपप्रच्छुः पुरोगा मन्त्रिणस्तथा ।प्रलयोल्लाससंत्रस्तं मार्कण्डेयमिवामराः ॥८॥त्वयीत्थं संस्थिते देव वयमत्यन्तमाकुलाः ।अभेद्यमपि भिन्दन्ति निर्निमित्तं भ्रमा मनः ॥९॥आपातरमणीयेषु पर्यन्तविरसेषु च ।भोगेष्विव विकल्पेषु केषु ते लुलितं मनः ॥१०॥सततोदारवृत्तासु कथासु परिशीतलम् ।मनस्ते निर्मलं कस्मात्संभ्रमेषु निमज्जति ॥११॥तुच्छालम्बनमालूनविशीर्णं लोकवृत्तिषु ।मनो मोहमुपादत्ते न महत्त्वविजृम्भितम् ॥१२॥सातत्येन हि यैवास्य मनसो वृत्तिरुत्थिता ।शरीरमदमत्तासु तामेवैतद्विधावति ॥१३॥अतुच्छालम्बनं धीरं प्रबुद्धं गुणहारि च ।तवापि हि मनश्चित्रमालूनमिव लक्ष्यते ॥१४॥अनभ्यस्तविवेकं हि देशकालवशानुगम् ।मन्त्रौषधिवशं याति मनो नोदारवृत्तिमत् ॥१५॥नित्यमात्तविवेकस्य कथमालूनशीर्णता ।धुनोति विततं चेतो वात्येव विबुधाचलम् ॥१६॥इति जातानुगीर्णस्य भूपतेः कान्तिराननम् ।भूषयामास शीतांशुं मासान्त इव पूर्णता ॥१७॥रराज राजा सौम्यास्यमुन्मीलितविलोचनः ।गते हिमर्तावुल्लासिपुष्पौघ इव माधवः ॥१८॥अथातिसंभ्रमाश्चर्यखिन्नास्मृतिमुखो बभौ ।आसन्नमृत्युरालोक्य राहुमिन्दुरिवाम्बरे ॥१९॥ऐन्द्रजालिकमालोक्य प्रोवाचाथ हसन्निव ।बभुं हिंसात्मकं दृष्ट्वा सर्परूपीव तक्षकः ॥२०॥जाल्म जालजटालेन किमेतद्भवता कृतम् ।येनास्पन्दप्रसन्नोऽब्धिः क्षणादेत्य प्रसन्नताम् ॥२१॥चित्रं चित्रा हि देवस्य पदार्थशतशक्तयः ।सुशक्तमपि मे चित्तं याभिर्मोहे निवेशितम् ॥२२॥क्व वयं लोकपर्यायकृतान्तपदवेदिनः ।क्व मनोमोहदायिन्यो वितताः प्रकृतापदः ॥२३॥अप्यभ्यस्तमहाज्ञानं मनस्तिष्ठति देहके ।कदाचिन्मोहमादत्ते क्षणं मतिमतामपि ॥२४॥इदमाश्चर्यमाख्यानं श्रूयतां रे सभासदः ।मम शाम्बरिकेणेह यन्मुहूर्तं प्रदर्शितम् ॥२५॥दृष्टवानहमेतस्मिन्बह्वीः कार्यदशाश्चलाः ।मुहूर्तं प्रार्थितोऽध्वस्तशक्रसृष्टिरिवालजः ॥२६॥इत्युक्त्वोन्मुखनेत्रेषु सभ्येषु स हसन्निव ।राजा वर्णयितुं चित्रं वृत्तान्तमुपचक्रमे ॥२७॥राजोवाच ।इह विविधपदार्थसंकुलायांह्रदनदपत्तनपर्वताकुलायाम् ।कुलशिखरिसमुद्रसंकरायांभुवि विभवावलितोऽस्त्ययं प्रदेशः ॥२८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उ० इन्द्रजालोपाख्याने राजावबोधो नाम पञ्चोत्तरशततमः सर्गः ॥१०५॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP