संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः १ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः १ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १ Translation - भाषांतर वाग्भाभिर्ब्रह्मविद्ब्रह्म भाति स्वप्न इवात्मनि ।यदिदंतत्स्वशब्दोत्थैर्यो यद्वेत्ति स वेत्ति तत् ॥१॥न्यायेनानेन लोकेऽस्मिन्सर्गे ब्रह्माम्बरे सति ।किमिदं कस्य कुत्रेति चोद्यमूचे निराकृतम् ॥२॥अहं तावद्यथाज्ञानं यथावस्तु यथाक्रमम् ।यथास्वभावं तत्सर्वं वच्मीदं श्रूयतां बुध ॥३॥स्वप्नवत्पश्यति जगच्चिन्नभोदेहवित्स्वयम् ।स्वप्नसंसारदृष्टान्त एवाहं त्वं समन्वितम् ॥४॥मुमुक्षुव्यवहारोक्तिमयात्प्रकरणात्परम् ।अथोत्पत्तिप्रकरणं मयेदं परिकथ्यते ॥५॥बन्धोऽयं दृश्यसद्भावाद्दृश्याभावेन बन्धनम् ।न संभवति दृश्यं तु यथेदं तच्छ्रणु क्रमात् ॥६॥उत्पद्यते यो जगति स एव किल वर्धते ।स एव मोक्षमाप्नोति स्वर्गं वा नरकं च वा ॥७॥अतस्ते स्वावबोधार्थं तत्तावत्कथयाम्यहम् ।उत्पत्तिः संसृतावेति पूर्वमेव हि यो यथा ॥८॥इदं प्रकरणार्थं त्वं संक्षेपाच्छृणु राघव ।ततः संकथयिष्यामि विस्तरं ते यथेप्सितम् ॥९॥यदिदं दृश्यते सर्वं जगत्स्थावरजंगमम् ।तत्सुषुप्ताविव स्वप्नः कल्पान्ते प्रविनश्यति ॥१०॥ततः स्तिमितगम्भीरं न तेजो न तमस्ततम् ।अनाख्यमनभिव्यक्तं सत्किंचिदवशिष्यते ॥११॥ऋतमात्मा परं ब्रह्म सत्यमित्यादिका बुधैः ।कल्पिता व्यवहारार्थं तस्य संज्ञा महात्मनः ॥१२॥स तथाभूत एवात्मा स्वयमन्य इवोल्लसन् ।जीवतामुपयातीव भाविनाम्ना कदर्थिताम् ॥१३॥ततः स जीवशब्दार्थकलनाकुलतां गतः ।मनो भवति भूतात्मा मननान्मन्थरीभवन् ॥१४॥मनः संपद्यते तेन महतः परमात्मनः ।सुस्थिरादस्थिराकारस्तरङ्ग इव वारिधेः ॥१५॥तत्स्वयं स्वैरमेवाशु संकल्पयति नित्यशः ।तेनेत्थमिन्द्रजालश्रीर्विततेयं वितन्यते ॥१६॥यथा कटकशब्दार्थः पृथक्त्वार्हो न काञ्चनात् ।न हेम कटकात्तद्वज्जगच्छब्दार्थता परे ॥१७॥ब्रह्मण्येवास्त्यनन्तात्म यथास्थितमिदं जगत् ।न जगच्छब्दकार्थेऽस्ति हेम्नीव कटकात्मता ॥१८॥सती वाप्यसती तापनद्येव लहरी चला ।मनसेहेन्द्रजालश्रीर्जागती प्रवितन्यते ॥१९॥अविद्या संसृतिर्बन्धो माया मोहो महत्तमः ।कल्पितानीति नामानि यस्याः सकलवेदिभिः ॥२०॥बन्धस्य तावद्रूपं त्वं कथ्यमानमिदं श्रृणु ।ततः स्वरूपं मोक्षस्य ज्ञास्यसीन्दुनिभानन ॥२१॥द्रष्टुर्दृश्यस्य सत्ताङ्ग बन्ध इत्यभिधीयते ।द्रष्टा दृश्यबलाद्बद्धो दृश्याभावे विमुच्यते ॥२२॥जगत्त्वमहमित्यादिर्मिथ्यात्मा दृश्यमुच्यते ।यावदेतत्संभवति तावन्मोक्षो न विद्यते ॥२३॥नेदं नेदमिति व्यर्थप्रलापैर्नोपशाम्यति ।संकल्पजनकैर्दृश्यव्याधिः प्रत्युत वर्धते ॥२४॥न च तर्कभरक्षोदैर्न तीर्थनियमादिभिः ।सतो दृश्यस्य जगतो यस्मादेति विचारकाः ॥२५॥जगद्दृश्यं तु यद्यस्ति न शाम्यत्येव कस्यचित् ।नासतो विद्यते भावो नाभावो विद्यते सतः ॥२६॥अचेत्यचित्स्वरूपात्मा यत्र यत्रैव तिष्ठति ।द्रष्टा तत्रास्य दृश्यश्रीः समुदेत्यप्यणूदरे ॥२७॥तस्मादस्ति जगद्दृश्यं तत्प्रमृष्टमिदं मया ।त्यक्तं तपोध्यानजपैरिति काञ्जिकतृप्तिवत् ॥२८॥यदि राम जगद्दृश्यमस्ति तत्प्रतिबिम्बति ।परमाणूदरेऽप्यस्मिंश्चिदादर्शे तथैव हि ॥२९॥यत्र तत्र स्थिते यद्वद्दर्पणे प्रतिबिम्बति ।अद्यब्ध्युर्वीनदीवारि चिदादर्शे तथैव हि ॥३०॥ततस्तत्र पुनर्दुःखं जरा मरणजन्मनी ।भावाभावग्रहोत्सर्गः स्थूलसूक्ष्मचलाचलः ॥३१॥इदं प्रमार्जितं दृश्यं मया चात्राहमास्थितः ।एतदेवाक्षयं बीजं समाधौ संसृतिस्मृतेः ॥३२॥सति त्वस्मिन्कुतो दृश्ये निर्विकल्पसमाधिता ।समाधौ चेतनत्वं तु तुर्यं चाप्युपपद्यते ॥३३॥व्युत्थाने हि समाधानात्सुषुप्तान्त इवाखिलम् ।जगद्दुःखमिदं भाति यथास्थितमखण्डितम् ॥३४॥प्राप्तं भवति हे राम तत्किं नाम समाधिभिः ।भूयोऽनर्थनिपाते हि क्षणसाम्ये हि किं सुखम्॥३५॥यदि वापि समाधाने निर्विकल्पे स्थितिं व्रजेत् ।तदक्षयसुषुप्ताभं तन्मन्येतामलं पदम् ॥३६॥प्राप्यते सति दृश्येऽस्मिन्न च किंनाम केनचित् ।यत्र यत्र किलायाति चित्ततास्य जगद्भ्रमः ॥३७॥द्रष्टाथ यदि पाषाणरूपतां भावयन्बलात् ।किलास्ते तत्तदन्तेऽपि भूयोऽस्योदेति दृश्यता ॥३८॥न च पाषाणतातुल्या निर्विकल्पसमाधयः ।केषांचित्स्थितिमायान्ति सर्वैरित्यनुभूयते ॥३९॥न च पाषाणतातुल्या रूढिं याताः समाधयः ।भवन्त्यग्रपदं शान्तं चिद्रूपमजमक्षयम् ॥४०॥तस्माद्यदीदं सद्दृश्यं तन्न शाम्येत्कदाचन ।शाम्येत्तपोजपध्यानैर्दृश्यमित्यज्ञकल्पना ॥४१॥आलीनवल्लरीरूपं यथा पद्माक्षकोटरे ।आस्ते कमलिनीबीजं तथा द्रष्टरि दृश्यधीः ॥४२॥यथा रसः पदार्थेषु यथा तैलं तिलादिषु ।कुसुमेषु यथाऽऽमोदस्तथा द्रष्टरि दृश्यधीः ॥४३॥यत्र तत्र स्थितस्यापि कर्पूरादेः सुगन्धिता ।यथोदेति तथा दृश्यं चिद्धातोरुदरे जगत् ॥४४॥यथा चात्र तव स्वप्नः संकल्पश्चित्तराज्यधीः ।स्वानुभूत्यैव दृष्टान्तस्तथा हृद्यस्ति दृश्यभूः ॥४५॥तस्माच्चित्तविकल्पस्थपिशाचो बालकं यथा ।विनिहन्त्येवमप्येतं द्रष्टारं दृश्यरूपिका ॥४६॥यथाङ्कुरोऽन्तर्बीजस्य संस्थितो देशकालतः ।करोति भासुरं देहं तनोत्येवं हि दृश्यधीः ॥४७॥द्रव्यस्य हृद्येव चमत्कृतिर्यथासदोदितास्त्यस्तमितोज्झितोदरे ।द्रव्यस्य चिन्मात्रशरीरिणस्तथास्वभावभूतास्त्युदरे जगत्स्थितिः ॥४८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे बन्धहेतुवर्णनं नाम प्रथमः सर्गः ॥१॥ N/A References : N/A Last Updated : September 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP