संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ७० उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ७० योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ७० Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथ भूधरशृङ्गाभा सा महाकृष्णराक्षसी ।कज्जलाम्बुदलेखेव तानवं गन्तुमुद्यता ॥१॥बभूवाभ्रोपमाकारा ततो विटपरूपिणी ।पुंस्प्रमाणा ततोऽप्यासीदथाभूद्धस्तमात्रिका ॥२॥ततः प्रादेशमात्रा सा ततोऽप्यङ्गुलिरूपिणी ।ततो माषशमीतुल्या ततः सूची बभूव ह ॥३॥ततः कौशेयसूचित्वं पद्मकेसरसुन्दरी ।प्राप सा शिखराकारा संकल्पाद्रिरिवाणुताम् ॥४॥रराज सूचिका कृष्णा सूक्ष्मायसमनायसी ।पुर्यष्टकेन चलिता व्योमगा व्योमवासिनी ॥५॥सूची दृश्यत एवासौ नत्वयो नाम विद्यते॥संविद्भ्रमकुले चैषा स्वल्पसूचीव लक्ष्यते ॥६॥रत्नसूचीव मसृणा मनोमननसंयुता ।वैदूर्यरश्मिलेखेव भानुसंतानसुन्दरी। ॥७॥कज्जलाम्भोदसंकल्कलतेव पवनाहृता ।सूक्ष्मरन्ध्रेक्षणस्वच्छदृष्टज्योतिःकनीनिका ॥८॥सुमुखग्राह्यरूपेण श्लक्ष्णपुच्छशिखाणुना ।तदा वैपुल्यशान्त्यर्थं परं मौनव्रतं गता ॥९॥सुदूराद्दीपवदृष्टं खतन्मात्रत्वमागता ।दूरादेव मनोज्ञेन प्रोद्गिरन्ती मुखेन खम् ॥१०॥कुञ्चितेक्षणसंदृश्या दीर्घदीपांशुकोमला ।सद्यःस्नातसमुत्सन्नबालवालविलासिनी ॥११॥तन्तुर्बिसादिवोड्डीना बाह्यसंचारकौतुकात् ।ब्रह्मनाडिरिवोद्युक्ता बहीरन्ध्रं सुसुन्दरी ॥१२॥नियतेन्द्रियशक्तिः सा जीवेनैव बहिःस्थिता ।बौद्धतार्किकविज्ञानसंतानवदलक्षिता ॥१३॥शून्यसिद्धार्थसविका रन्ध्रानीलमयाऽरवा ।अदृश्यया जीवसूच्या संततानुसृता स्थिता ॥१४॥कलाकलनधर्मिण्या वासनामात्रसारया ।क्षीणदीपांशुसूचीवत्तीक्ष्णयानुपलभ्यया ॥१५॥ग्रासार्थं सूचितां याता सैवास्था नोपयुज्यते ।विचारितं तया नैतदहो मौर्ख्यविजृम्भितम् ॥१६॥साग्रा संचिन्तयामास न सूचीरूपतुच्छताम्।चित्तमीहितमेवैकं पश्यन्त्यास्ते निरर्थकम् ॥१७॥अविचार्यैव सूचित्वं तया मूढधियाऽऽस्थितम्।नानर्थबुद्धेः स्फुरति पूर्वापरविचारणा ॥१८॥स्वार्थक्रियोग्रसामर्थ्याद्याति भावनयान्यताम् ।पदार्थोऽभिमतांशाढ्यो निःश्वासेनेव दर्पणः ॥१९॥सूचीभावं प्रपन्नायास्त्यजन्त्याः पीवरं वपुः ।महामरणमप्यस्या राक्षस्याः सुसुखं स्थितम् ॥२०॥एकवस्त्वतिरागाणामहो नु विषमा गतिः ।देहोऽपि तृणवत्त्यक्तो राक्षस्या निजयेच्छया ॥२१॥एकवस्त्वतिगन्धेन भ्रश्यन्त्यन्या हि संविदः ।राक्षस्या ग्रासगन्धेन देहनाशोऽपि नेक्षितः ॥२२॥नाशोऽपि सुखयत्यज्ञमेकवस्त्वतिरागिणम् ।सूचीभूता विदेहापि परितुष्टैव राक्षसी ॥२३॥अन्या वभूव लग्ना सा तथा जीवविषूचिका ।व्योमात्मिका निराकारा व्योमवृत्तिशरीरका ॥२४॥तेजस्तनुप्रवाहाभा प्राणतन्तुमयात्मिका ।मूलसंवेदनाकारा चन्द्रार्कांशुकसुन्दरी ॥२५॥पृथगेवासिधाराभा परमाण्ववलीय सा ।कौसुमी गन्धलेखेव कला कलनरूपिणी ॥२६॥पापात्मिका मनोवृत्तिः सो हि तस्यास्तथा स्थिता ।परप्राणवशादेव परमार्थपरायणा ॥२७॥एवमस्यास्तनुर्जाता सूचीद्वयमयी हि सा ।नीहारांशुकवत्तन्वी कार्पासांशुसुपेलवा ॥२८॥तनुद्वयेन तेनासौ प्रविश्य हृदयं नृणाम् ।वेधयन्ती ततः क्रूरा प्रबभ्राम दिशो दश ॥२९॥सर्वः स्वसंकल्पवशाल्लघुर्भवति वा गुरुः ।कर्कट्योग्रं वपुस्त्यक्त्वा सूचीत्वमुररीकृतम् ॥३०॥तुच्छोऽप्यर्थोऽल्पसत्त्वानां गच्छति प्रार्थनीयताम् ।सूचीवृत्तपिशाचीत्वं राक्षस्या तपसा स्थितम् ॥३१॥अपि पुण्यशरीराणां जातिबन्धो न शाम्यति॥तनुसूचीपिशाचीत्वं राक्षस्या तपसार्जितम् ॥३२॥तस्यां दिगन्तभ्रमणे प्रवृत्तायां महानिलैः ।तत्रैव सा तनुः स्थूला गलिता शरदभ्रवत् ॥३३॥कस्यचिद्विवशाङ्गस्य क्षीणस्य विपुलस्य च ।प्रविश्यान्तर्वातसूचिर्भवत्यतिविषूचिका ॥३४॥कस्यचित्तनुदेहस्य स्वस्थस्य सुधियोऽपि वा ।प्रविश्य जीवसूचित्वे भवत्यन्तर्विषूचिका ॥३५॥एवं क्वचित्तृप्यति सा दुर्बुद्धिहृदयास्थिता ।क्वचिदुच्छेद्यते पुण्यैर्मन्त्रौषधितपःक्रमैः ॥३६॥आसीद्बहूनि वर्षाणि भ्रमणैकपरायणा ।देहद्वयेन गच्छन्ती व्योम्नि भूमितले तथा ॥३७॥रजस्तिरोहिता भूमौ हस्तेऽङ्गुलितिरोहिता ।प्रभातिरोहिता व्योम्नि वस्त्रे सूत्रतिरोहिता ॥३८॥अन्तःस्थस्नायुसरिति दुर्भगे पांशुपाण्डुरे ।शुष्करेखासरित्खाते सूक्ष्मरेखाजरत्तृणे ॥३९॥अर्थहीने गतच्छाये शून्या उच्छ्वासकारिणी ।मक्षिकावातहरिते श्रीवृक्षपरिवर्जिते ॥४०॥स्थूलास्थिग्रन्थिवलिते नित्यकम्पस्फुरत्तमे ।अनात्मीयाच्छनीहारेऽशुद्धांशुककृतभ्रमे ॥४१॥किणस्थाण्वङ्गविश्रान्तमक्षिकापिकवायसे ।रौक्षरूढरसद्वाते विलोलाङ्गुलिशाखिनि ॥४२॥मालाभ्रलेखासंसारे स्वाङ्गुलिव्रणगर्तके ।स्पन्दावश्यायपृषति पदवल्मीकपर्वते ॥४३॥कचत्याशु जलभ्रान्तौ नखाजगरकर्कशे ।क्वाचित्कविसरद्भीतभीतयूककुपान्थके ॥४४॥विरूपाशुष्कसंदष्टवीटिकापूतिपल्वले ।मध्यस्थलेखमार्गौघशीतश्वसनगोचरे ॥४५॥ग्रस्तयूकानरौघासृक्पूर्णसृक्किनखास्यताम् ।दधताङ्गुष्ठपक्षेण क्रान्ते सर्वत्र यायिनी ॥४६॥नानाविरचनाचित्रपटपत्तनगामिनी ।गमागमपरिश्रान्ता तत्रात्यन्तचिराध्वगा ॥४७॥नगरानगरे व्यस्तसूत्रभाण्डैकभारिणी ।तप्ते कलेवरारण्ये बलीवर्दापवर्तिनी ॥४८॥गुप्ता विश्रमणायैव मनाक्करपरिच्युता ।तन्तुप्रोता मुखाकृष्टिः खिन्ना क्वापि विलीयते। ॥४९॥वेधनं कर्मसंश्लिष्टा कठिनापि न साकरोत् ।न हि तीक्ष्णो बहिः कार्यो निजत्वं विजहाति चेत् ॥५०॥सायःसूची मनःसूच्या वलिता विजहार ह ।दिक्ष्वाशेव शिलागुर्वी नावाङ्गपलिता सती ॥५१॥विससार दिगन्तेषु सान्तःकरणसत्तया ।तुषलेखेव पवनशक्त्या संसृतिरूपया ॥५२॥मुखेन सूक्ष्मसूत्रान्तं चरन्तीव परोम्भितम् ।परपूरोद्यमेनाशु जातेव हृदयान्विता ॥५३॥परपूररसेनैव सूच्या हृत्सुविकासितम् ।अनारतपतत्सूक्ष्मसूत्रान्त इव स्तम्भिता ॥५४॥तीक्ष्णैरपि चिरक्षीणं पूर्यते निर्विचारणा ।दृष्टान्तोऽत्र क्षणात्सूच्या पूरितो जर्जरः पटः ॥५५॥सूत्रांशुनिर्गमे योग्यं सूच्या हृदयमर्जितम् ।परपूरणयैवाशु तेजश्च कवितार्करुक् ॥५६॥अकस्मात्तेन रूढेन क्षीणपूरेण रूपिणी ।हृदये राक्षसी सूचिः कर्मणा तप्यते च सा ॥५७॥वेधं पूररयेणेव करोति स्वं प्रचारिता ।प्रकृतेन निजेनापि वेधाय व्यवहारिता ॥५८॥संचारयति वस्त्रेषु सूत्रं चतुरवेधनात् ।आदीर्घवासनातन्तुः शरीरेष्विव चेतनाम् ॥५९॥संचार्यमाणवेधेन धावन्तीवाक्षिपातने ।अदर्शितमुखा एव दुर्जना मर्मवेधिनः ॥६०॥कण्ठवस्त्रदलप्रोता वेधाक्ष्णा मुखमीक्षते ।कथमेता भिनद्मीति तीक्ष्णानामेतदीप्सितम् ॥६१॥सममेव च कौशेये क्षौमे च वसने सृता ।जडः क इव वा नाम गुणागुणमपेक्षते ॥६२॥सा दधाना ततं सूत्रमङ्गुष्ठाङ्गुलिपीडिता ।आन्त्रतन्तुमिवामान्तमुद्गिरन्ती निरीक्षते ॥६३॥तीक्ष्णाप्यहृदयत्वेन सरसेष्वरसेष्ववित् ।सूत्रितापि पदार्थेषु विशत्यरसगामिनी ॥६४॥अगर्दती मुखप्रोता सुतीक्ष्णापि च तापिधीः ।सुवेधिताप्यहृदया राजपुत्र्यापि दुर्भगा ॥६५॥विना परापकारेण तीक्ष्णा मरणमीहते ।वेदनाद्रोधिता सूची कर्मपाशे प्रलम्बते। ॥६६॥शेते किंश्याममैत्र्येव दूरे करपरिच्युता ।स्वरूपसदृशं मित्रं कस्मै नाम न रोचते ॥६७॥मिश्रिता मूढचित्तानां वृत्तिभिः प्राकृते जने ।तिष्ठत्यात्मसमां को हि संगतिं त्यक्तुमिच्छति ॥६८॥भवत्ययस्कारवित्तौ संत्यज्यान्तर्धिगामिनी ।भस्त्रावातैर्विचलिता गगनादुत्पतोन्मुखी ॥६९॥प्राणापानप्रवाहस्थहृत्पद्मान्तरचारिणी ।दुःखशक्तिर्महाघोरा जीवशक्तिरिवोदिता ॥७०॥समानवैपरीत्येन समानसमगामिनी ।उदानविपरीतत्वादुदानसमगामिनी ॥७१॥व्यानस्था व्याधिजननी सर्वाङ्गरसचारिणी ।हृत्कण्ठे शूलपवने वैवर्ण्योन्मादकारिणी ॥७२॥प्रायशोऽविकहस्तस्था सुप्तोर्णा गन्धकोटरे।बालहस्ताङ्गुलीतल्पवेधनैकविलासिनी ॥७३॥पादप्रविष्टा रुधिरपानोपार्जनविस्मिता ।तुष्यत्यतितरां गुच्छभोजना तुच्छभोजनैः ॥७४॥शेते कर्दमकोशस्था चिरकालमधोमुखी ।इच्छानुरूपमासाद्य क इवास्पदमुज्झति ॥७५॥क्रौर्येणापहतात्मानं दर्शयत्युपवेधनैः ।उत्सवादपि नीचानां कलहोऽपि सुखायते ॥७६॥कपर्दकार्धलाभेन कृपणो बहु मन्यते ।दुरुच्छेदा हि भूतानामहंकारचमत्कृतिः ॥७७॥सूचिकायुग्मलभ्येन मोहितेनात्मना नृणाम् ।मृतिमाशङ्कते चित्रा स्वार्थे नोदेति मूढता ॥७८॥वस्त्रतन्तुविभेदेन परमारणमाशु मे ।इदं संपद्यत इति भवत्यन्तर्हि निर्मला ॥७९॥स्थापिता मलमादत्ते यथा मृद्धर्षणं विना ।परापराधविरहाद्व्याधिस्तस्याः प्रवर्तते ॥८०॥सूक्ष्माऽदृश्या चैव दात्री क्षणाद्विस्मृतिमेति सा ।तीक्ष्णभेदकरी क्रूरा सूची चेष्टेव दैविकी ॥८१॥तन्तुवेधनमात्रेण हतोऽन्य इति तोषिता ।दुर्जनो येन तेनैव नाशितेनैति हृष्टताम् ॥८२॥पङ्के मज्जति याति खं विहरति व्योमानिलैर्दिक्तटेशेते पांसुषु भूतलेष्विव वने पट्टे गृहेऽन्तःपुरे ।हस्ते श्रोत्रसरोरुहेऽथ मृदुनि स्वेच्छोर्णिकाखण्डकेरन्ध्रे काष्ठमृदां च माति हृदये द्रव्यात्मशक्त्यैव सा ॥८३॥श्रीवाल्मीकिरुवाच ।इत्युक्तवत्यथ मुनौ दिवसो जगामसायंतनाय विधयेऽस्तमिनो जगाम ।स्नातुं सभा कृतनमस्करणा जगामश्यामक्षये रविकरैश्च सहाजगाम ॥८४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे सूचिव्यवहारवर्णनं नाम सप्ततितमः सर्ग. ॥७०॥षष्ठो दिवसः । N/A References : N/A Last Updated : September 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP