संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ८४ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ८४ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ८४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।एतत्ते कथितं सर्वं मयाख्यानमनिन्दितम् ।कर्कट्या हिमराक्षस्या यथावदनुपूर्वशः ॥१॥श्रीराम उवाच ।हिमवद्गह्वरे प्रोत्था सा कथं कृष्णराक्षसी ।बभूव कर्कटी नाम्ना यथावद्वद मे प्रभो ॥२॥श्रीवसिष्ठ उवाच ।कुलानि सन्त्यनेकानि राक्षसानां स्वभावतः ।तानि शुक्लानि कृष्णानि हरितान्युज्ज्वलानि च ॥३॥कर्कटप्राणिसादृश्यात्कर्कटो नाम राक्षसः ।बभूव तज्जा सा कृष्णा कर्कटी कर्कटाकृतिः ॥४॥कर्कटीप्रश्नसंस्मृत्या मयैषा कथिता तव ।अध्यात्मोक्तिप्रसङ्गेन विश्वरूपनिरूपणे ॥५॥संपन्नमेव मे कस्मादसंपन्नमिव स्फुटम् ।इदं जगदनाद्यन्तात्पदात्परमकारणात् ॥६॥प्लाविन्यो वीचयो वारिण्यन्यानन्याः स्थिता यथा ।वर्तमाना अपि परे सृष्टयः संस्थितास्तथा ॥७॥अज्वलन्नेव काष्ठेषु वह्निरर्थक्रियां यथा ।करोति मर्कटादीनां शीतापहरणादिकम् ॥८॥समं सौम्यत्वमजहदेव नित्योदयस्थिति ।तथा ब्रह्म करोतीदं नाना कर्तेव सज्जगत् ॥९॥अप्यनागत एवायमेवं सर्ग उपागतः ।भोः शालभञ्जिकासंविद्दारुण्येव मुधोदिता ॥१०॥बीजे यथाऽनन्यदपि फलाद्यन्यदिवोदितम् ।चितौ तथाऽनन्यदपि चेत्यमन्यदिवोदितम् ॥११॥अच्छेदादेकसत्ताया न भेदः फलबीजयोः ।चिच्चेत्ययोश्च वार्यूर्म्योरिव वस्तुनि कश्चन ॥१२॥अविचारात्कुतो भेदो नैतयोरुपपद्यते ।यतःकुतश्चिदुदितः स विचारेण नश्यति ॥१३॥भ्रान्तिरेषा यथाऽऽयाता तथा यातु रघूद्वह ।ज्ञास्यसे तत्प्रबुद्धस्त्वमेनां केवलमुत्सृज ॥१४॥भ्रान्तिग्रन्थौ वित्रुटिते मदुक्तिश्रवणात्ततः ।ज्ञानशब्दार्थभेदानां वस्तु ज्ञास्यस्यलं स्वयम् ॥१५॥चित्तादियमनर्थश्रीस्तच्च सा चेतरा च ते ।मदुक्तिश्रवणादेव शान्तिमेष्यत्यसंशयम् ॥१६॥ब्रह्मणः सर्वमुत्पन्नं सर्वं ब्रह्मैवमेति च ।मद्गीर्भिः संप्रबुद्धः सन् ज्ञास्यस्यलमनिन्दितम् ॥१७॥श्रीराम उवाच ।तस्मादियमिति ब्रहन्व्यतिरेकार्थपञ्चमी ।ननु किं विद्धि देवेशादभिन्नं सर्वमित्यपि ॥१८॥श्रीवसिष्ठ उवाच ।उपदेशाय शास्त्रेषु जातः शब्दोऽथवार्थजः ।प्रतियोगिव्यवच्छेदसंख्यालक्षणपक्षवान् ॥१९॥भेदो दृश्यत एवायं व्यवहारान्न वास्तवः ।वेतालो बालकस्येव कार्यार्थं परिकल्पितः ॥२०॥द्वैतैक्यमपि नो यस्यां तथा भूतार्थसंस्थितौ ।अस्ति तस्यामीदृशः स्यात्कुतः संकल्पविप्लवः ॥२१॥कार्यकारणभावो हि तथा स्वस्वामिलक्षणम् ।हेतुश्च हेतुमांश्चैवावयवावयविक्रमः ॥२२॥व्यतिरेकाव्यतिरेकौ परिणामादिविभ्रमः ।तथा भावविलासादि विद्याविद्ये सुखासुखे ॥२३॥एवमादिमयी मिथ्यासंकल्पकलना मिता ।अज्ञानामवबोधार्थं नतु भेदोऽस्ति वस्तुनि ॥२४॥अविबोधादयं वादो ज्ञाते द्वैतं न विद्यते ।ज्ञाते संशान्तकलनं मौनमेवावशिष्यते ॥२५॥सर्वमेकमनाद्यन्तमविभागमखण्डितम् ।इति ज्ञास्यसि सिद्धान्तं काले बोधमुपागतः ॥२६॥विवदन्ते ह्यसंबुद्धाः स्वविकल्पविजृम्भितैः ।उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥२७॥वाच्यवाचकसंबोधो विना द्वैतं न सिद्ध्यति ।नच द्वैतं संभवति मौनं वापादयत्यलम् ॥२८॥महावाक्यार्थनिष्ठान्तां बुद्धिं कृत्वा रघूद्वह ।वचोभेदमनादृत्य यदिदं वच्मि ते श्रृणु ॥२९॥यतःकुतश्चिदुच्छ्रायं गन्धर्वपुरवन्मनः ।भ्रान्तिमात्रं तनोतीदं जगदाख्यं स्वजृम्भणम् ॥३०॥यथा चेतस्तनोतीमां जगन्मायां तथानघ ।श्रृणु त्वं कथयामीदं दृष्टान्तं दृष्टिवेदनम् ॥३१॥यं श्रुत्वा सर्वमेवेदं भ्रान्तिमात्रमिति स्वयम् ।राम निश्चयवान्भूत्वा दूरे त्यक्ष्यसि वासनाम् ॥३२॥मनोमनननिर्माणमात्रमेव जगत्त्रयम् ।सर्वमुत्सृज्य शान्तात्मा स्वात्मन्येव निवत्स्यसि ॥३३॥मद्वाक्यार्थावधानस्थो मनोव्याधिचिकित्सने ।विवेकौषधलेशेन प्रयत्नं च करिष्यसि ॥३४॥एवं स्थिते जगद्रूपं चित्तमेवेह जृम्भते ।न विद्यते शरीरादि सिकतान्तरतैलवत् ॥३५॥चित्तमेव हि संसारो रागादिक्लेशदूषितम् ।तदैव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥३६॥चित्तं साध्यं पालनीयं विचार्यं कार्यमार्यवत् ।आहार्यं व्यवहार्यं च संचार्यं धार्यमादरात् ॥३७॥सर्वमभ्यन्तरे चित्तं बिभर्ति त्रिजगन्नभः ।अहमापूरमिव तद्यथाकालं विजृम्भते ॥३८॥योऽयं चित्तस्य चिद्भागः सैषा सर्वार्थबीजता ।यश्चास्य जडभागश्च तज्जगत्सोऽङ्ग संभ्रमः ॥३९॥अविद्यमानमेवेदमादिसर्गे धरादिकम् ।निराकृतिरजः स्वप्नं पश्यतीव न पश्यति ॥४०॥सर्गादिदीर्घसंवित्या शैलादिजडसंविदा ।सूक्ष्मं सूक्ष्मविदा चेति देहं शून्यं न वास्तवम् ॥४१॥सर्वगेनात्मना व्याप्तं स्वचेत्यात्मवपुर्मनः ।आततं सौम्य विमलं वारीव रवितेजसा ॥४२॥चित्तबालो जगद्यक्षं मिथ्या पश्यत्यबोधतः ।बोधितोऽसौ परं रूपं स्वं पश्यति निरामयम् ॥४३॥यथात्मा दृश्यतामेति द्वित्वैक्यभ्रमदायिनीम् ।श्रृणु तत्ते प्रवक्ष्यामि वक्ष्यमाणकथागमैः ॥४४॥यत्कथ्यते हि हृदयंगमयोपमान-युक्त्या गिरा मधुरयुक्तपदार्थया च ।श्रोतुस्तदङ्ग हृदयं परितो विसारिव्याप्नोति तैलमिव वारिणि वार्य शङ्काम् ॥४५॥त्यक्तोपमानममनोज्ञपदं दुरापंक्षुब्धं धराविधुरितं विनिगीर्णवर्णम् ।श्रोतुर्न याति हृदयं प्रविनाशमेतिवाक्यं किलाज्यमिव भस्मनि हूयमानम् ॥४६॥आख्यानकानि भुवि यानि कथाश्च या यायद्यत्प्रमेयमुचितं परिपेलवं वा ।दृष्टान्तदृष्टिकथनेन तदेति साधोप्राकाश्यमाशु भुवनं सितरश्मिनेव ॥४७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे सूच्युपाख्याने मनोङ्कुरोत्पत्तिकथनं नाम चतुरशीतितमः सर्गः ॥८४॥ N/A References : N/A Last Updated : September 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP