संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ४४ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ४४ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ४४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।एतस्मिन्नन्तरे राजमहिषी मत्तयौवना ।तद्विवेश गृहं लक्ष्मीरिव पङ्कजकोटरम् ॥१॥आलोलमाल्यवसना भिन्नहारलताकुला ।अनुयाता वयस्याभिर्दासीभिर्भयविह्वला ॥२॥चन्द्राननावदाताङ्गी श्वासोत्कम्पिपयोधरा ।तारकाकारदशना स्थिता द्यौरिव रूपिणी ॥३॥अथ तस्या वयस्यैका राजानं तं व्यजिज्ञपत् ।भूतसंग्रामसंरब्धममरेन्द्रमिवाप्सराः ॥४॥देव देवी सहास्माभिः पलाय्यान्तःपुरान्तरात् ।शरणं देवमायाता वातार्तेव लता द्रुमम् ॥५॥राजन्दारा हृतास्तास्ते बलवद्भिरुदायुधैः ।ऊर्मिजालैर्महाब्धीनां तीरद्रुमलता इव ॥६॥अन्तःपुराधिपाः सर्वे पिष्टाः शत्रुभिरुद्धतैः ।अशङ्किताभिपतितैर्वातैरिव वरद्रुमाः ॥७॥दूरेणाशङ्कमायातैः परैर्नः पुरमाहृतम् ।रात्रौ वर्षास्विवोद्धोषैः कमलानीव वारिभिः ॥८॥धूमं वर्षद्भिरुन्नादैर्लेलिहानोग्रहेतिभिः ।वह्निभिर्नः पुरं प्राप्तं परयोधैश्च भूरिभिः ॥९॥परिवारैर्विलासिन्यो देव्य आहृत्य मूर्धजैः ।आक्रन्दन्त्यो बलान्नीताः कुरर्य इव धीवरैः ॥१०॥इति नो येयमायाता शाखा प्रसरशालिनी ।आपत्तामलमुद्धर्तुं देवस्यैवास्ति शक्तता ॥११॥इत्याकर्ण्यावलोक्यासौ देव्यौ युद्धाय याम्यतः ।क्षम्यतां मम भार्येयं युष्मत्पादाब्जषट्पदी ॥१२॥इत्युक्त्वा निर्ययौ राजा कोपारुणितलोचनः ।मत्तेभनिर्भिन्नवनः कन्दरादिव केसरी ॥१३॥लीला लीलां ददर्शाथ स्वाकारसदृशाकृतिम् ।प्रतिबिम्बमिवायातामादर्शे चारुदर्शनाम् ॥१४॥प्रबुद्धलीलोवाच ।किमिदं देवि हे ब्रूहि कस्मादियमहं स्थिता ।या साऽभवमहं पूर्वं कथं सेयमहं स्थिता ॥१५॥मन्त्रिप्रभृतयः पौरा योधाः सबलवाहनाः ।सर्व एव त एवेमे स्थितास्तत्र तथैव ते ॥१६॥तत्रापीह च हे देवि सर्वे कथमवस्थिताः ।बहिरन्तश्च मुकुरे इवैते किं प्रचेतनाः ॥१७॥श्रीदेव्युवाच ।यथा ज्ञप्तिरुदेत्यन्तस्तथानुभवति क्षणात् ।चितिश्चेत्यार्थतामेति चित्तं चित्तार्थतामिव ॥१८॥यादृगर्थं जगद्रूपं तत्रैवोदेति तत्क्षणात् ।न देशकालदीर्घत्वं न वैचित्र्यं पदार्थजम् ॥१९॥बाह्यमाभ्यन्तरं भाति स्वप्नार्थोऽत्र निदर्शनम् ।यदन्तः स्वप्नसंकल्पपुरं च कचनं चितेः ॥२०॥तदेतद्बाह्यनाम्नैव स्वभ्यासात्सत्स्फुटं स्थितम् ।यादृग्भावो मृतो भर्ता तव तस्मिंस्तदा पुरे ॥२१॥तादृग्भावस्तमेवार्थं तत्रैव समुपागतः ।अन्य एव ह्यमी भूतास्तेभ्यस्तास्तादृशा अपि ॥२२॥सद्रूपा एव चैतस्य स्वप्नसंकल्पसैन्यवत् ।अविसंवादि सर्वार्थरूपं यदनुभूयते ॥२३॥तस्य तावद्वद कथं कीदृशी वापि सत्यता ।अथवोत्तरकाले तु भङ्गुरत्वादवस्तु तत् ॥२४॥ईदृक्च सर्वमेवेदं तत्र का नास्तिताधिका ।स्वप्ने जाग्रदसद्रूपा स्वप्नो जाग्रत्यसन्मयः ॥२५॥मृतिर्जन्मन्यसद्रूपा मृत्यां जन्माप्यसन्मयम् ।विशरेद्विशरारुत्वादनुभूतेश्च राघव ॥२६॥एवं न सन्नासदिदं भ्रान्तिमात्रं विभासते ।महाकल्पान्तसंपत्तावप्यद्याथ युगेऽनघ ॥२७॥न कदाचन यन्नास्ति तद्ब्रह्मैवास्ति तज्जगत् ।तस्मिन्मध्ये कचन्तीमा भ्रान्तयः सृष्टिनामिकाः ॥२८॥व्योम्नि केशोण्ड्रकानीव न कचन्तीव वस्तुतः ।यथा तरङ्गा जलधौ तथेमाः सृष्टयः परे ॥२९॥उत्पत्त्योत्पत्त्य लीयन्ते रजांसीव महानिले ।तस्माद्भ्रान्तिमयाभासे मिथ्यात्वमहमात्मनि ॥३०॥मृगतृष्णाजलचये कैवास्था सर्गभस्मनि ।भ्रान्तयश्च न तत्रान्यास्तास्तदेव परं पदम् ॥३१॥घने तमसि यक्षाभास्तम एव न यक्षकः ।तस्माज्जन्ममृतिर्मोहो व्यामोहत्वमिदं ततम् ॥३२॥सर्वं तत्समहाकल्पं शान्तौ यदवशिष्यते ।नातः सत्यमिदं दृश्यं न चासत्यं कदाचन ॥३३॥द्वयमेवैतदथवा ब्रह्म तत्रैव संभवात् ।आकाशे परमाण्वन्तर्द्रव्यादेरणुकेऽपि च ॥३४॥जीवाणुर्यत्र तत्रेदं जगद्वेत्ति निजं वपुः ।अग्निरौष्ण्यं यथा वेत्ति निजभावक्रमोदितम् ॥३५॥पश्यतीदं तथैवात्मा स्वात्मभूतं विशुद्धचित् ।यथा सूर्योदये गेहे भ्रमन्ति त्रसरेणवः ॥३६॥तथेमे परमाकाशे ब्रह्माण्डत्रसरेणवः ।यथा वायौ स्थितः स्पन्द आमोदः शून्यमम्बरे ॥३७॥पिण्डग्रहविनिर्मुक्तं तथा विश्वं स्थितं परे ।भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचराचराः ॥३८॥विवर्जितस्यावयवैर्भागा ब्रह्मण ईदृशाः ।साकारस्यावबोधाय विज्ञेया भवताधुना ॥३९॥अनन्याः स्वात्मनस्तस्य तेनानवयवा इव ।यथास्थितमिदं विश्वं निजभावक्रमोदितम् ॥४०॥रिक्तं न विश्वशब्दार्थैरनन्यद्ब्रह्मणि स्थितम् ।न तत्सत्यं न चासत्यं रज्जुसर्पभ्रमो यथा ॥४१॥मिथ्यानुभूतितः सत्यमसत्यं सत्परीक्षितम् ।परमं कारणं चित्त्वाज्जीवत्वमिति चेत्यलम् ॥४२॥ततस्तथैवानुभवाज्जीवत्वं विन्दति स्फुटम् ।सत्यं भवत्वसत्यं वा खे विभातमिदं जगत् ॥४३॥रञ्जयत्येव जीवाणुः स्वेच्छाभिरनुभूतिभिः ।अनुभूयन्तु एवाशु काश्चित्पूर्वानुभूतितः ॥४४॥अपूवानुभवाः काश्चित्समाश्चैवासमास्तथा ।क्वचित्कदाचित्ता एव क्वचिदर्धसमा अपि ॥४५॥कचन्त्यसत्याः सत्याभा जीवाकाशेऽनुभूतयः ।तत्कुलास्तत्समाचारास्तज्जन्मानस्तदीहिताः ॥४६॥त एव मन्त्रिणः पौराः प्रतिभाने भवन्ति च ।ते चैवात्मन्यलं सत्या देशकालेहितैः समाः ॥४७॥सर्वगात्मस्वरूपायाः प्रतिभाया इति स्थितिः ।यथा राजात्मनि व्योम्नि प्रतिभोदेति सन्मयी ॥४८॥तथा तदग्रगोदेति सत्येव प्रतिभाम्बरे ।त्वच्छीला त्वत्समाचारा त्वत्कुला त्वद्वपुर्मयी ॥४९॥इति लीलेयमाभाति प्रतिभाप्रतिबिम्बजा ।सर्वगे संविदादर्शे प्रतिभा प्रतिबिम्बति ॥५०॥यादृशी यत्र सा तत्र तथोदेति निरन्तरम् ।जीवाकाशस्य यान्तस्था प्रतिभा कुरुते स्वयम् ।सा बहिश्च चिदादर्शे प्रतिबिम्बादियं स्थिता ॥५१॥एषा त्वमम्बरमहं भुवनं धरा चराजेति सर्वमहमेव विभातमात्रम् ।चिद्व्योमबिल्वजठरं विदुरङ्ग विद्धित्वं तेन शान्तमलमास्स्व यथास्थितेह ॥५२॥इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो ० अग्निदाहरात्रियुद्धे जगद्ब्रह्मवर्णनं नाम चतुश्चत्वारिंशः सर्गः ॥४४॥ N/A References : N/A Last Updated : September 11, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP