संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ५७ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ५७ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ५७ Translation - भाषांतर श्रीवसिष्ठ उवाच ।ततो ददृशतुस्तत्र शवशय्यैकपार्श्वगाम् ।लीलां विदूरथस्याग्रे मृतां ते प्रथमागताम् ॥१॥प्राग्वेषां प्राक्समाचारां प्राग्देहां प्राक्सवासनाम् ।प्राक्तनाकारसदृशीं सर्वरूपाङ्गसुन्दरीम् ॥२॥प्राग्रूपावयवस्पन्दां प्रागम्बरपरीवृताम् ।प्राग्भूषणभरच्छन्नां केवलं तत्र संस्थिताम् ॥३॥गृहीतचामरां चारु वीजयन्तीं महीपतिम् ।उद्यच्चन्द्रामिव दिवं भूषयन्तीं महीतलम् ॥४॥मौनस्थां वामहस्तस्थवदनेन्दुतया नताम् ।भूषणांशुलतापुष्पैः फुल्लामिव वनस्थलीम् ॥५॥कुर्वाणां वीक्षितैर्दिक्षु मालत्युत्पलवर्षणम् ।सृजन्तीमात्मलावण्यादिन्दुमिन्दुं नभोदितम् ॥६॥नरपालात्मनो विष्णोर्लक्ष्मीमिव समागताम् ।उदितां पुष्पसंभारादिव पुष्पाकरश्रियम् ॥७॥भर्तुर्वदनके न्यस्तदृष्टिमिष्टविचेष्टिताम् ।किंचित्प्रम्लानवदनां म्लानचन्द्रां निशामिव ॥८॥ताभ्यां सा ललना दृष्टा तया ते तु न लक्षिते ।यस्मात्ते सत्यसंकल्पे सा न तावत्तथोदिता ॥९॥श्रीराम उवाच ।तस्मिन्प्रदेशे सा पूर्वलीला संस्थाप्य देहकम् ।ध्यानेन ज्ञप्तिसहिता गताभूदिति वर्णितम् ॥१०॥किमिदानीं स लीलाया देहस्तत्र न वर्णितः ।किंसंपन्नः क्व वा यात इति मे कथय प्रभो ॥११॥श्रीवसिष्ठ उवाच ।क्वासील्लीलाशरीरं तत्कुतस्तस्यास्ति सत्यता ।केवला भ्रान्तिरेवाभूज्जलबुद्धिर्मराविव ॥१२॥आत्मैवेदं जगत्सर्वं कुतो देहादिकल्पना ।ब्रह्मैऽवानन्दरूपं सद्यत्पश्यसि तदेव चित् ॥१३॥यथैव बोधे लीलासौ परिणाममिता क्रमात् ।परे तथैव तस्मात्तद्धिमवद्गलितं वपुः ॥१४॥ ( आतिवाहिकदेहस्य कालेनाभ्युदितो भ्रमः ।आधिभौतिकदेहोऽहमिति रज्जुभुजंगवत् ॥१॥)आतिवाहिकदेहेन दृश्यं यदवलोकितम् ।भूम्यादि नाम तस्यैव कृतं तच्चाधिभौतिकम् ॥१५॥वास्तवेन तु रूपेण भूम्याद्यात्माधिभौतिकः ।न शब्देन न चार्थेन सत्यात्मा शशश्रृङ्गवत् ॥१६॥पुंसो हरिणकोऽस्मीति स्वप्ने यस्योदिता मतिः ।स किमन्विष्यति मृगं स्वमृगत्वपरिक्षये ॥१७॥उदेत्यसत्यमेवाशु तथा सत्यं विलीयते ।भ्रान्तिर्भ्रमवतो रज्वामपि सर्पभ्रमे गते ॥१८॥समस्तस्याप्रबुद्धस्य मनोजातस्य कस्यचित् ।बीजं विना मृषैवेयं मिथ्यारूढिमुपागता ॥१९॥स्वप्नोपलम्भं सर्गाख्यं स सर्वोऽनुभवन्स्थितः ।चिरमावृत्तदेहात्मा भूचक्रभ्रमणं यथा ॥२०॥श्रीराम उवाच ।ब्रह्मँल्लोकैः पुरस्थस्य गच्छतो योगिनो निजम् ।आतिवाहिकतां देहः कीदृशोऽयं विलोक्यते ॥२१॥श्रीवसिष्ठ उवाच ।देहाद्देहान्तरप्राप्तिः पूर्वदेहं विना सदा ।आतिवाहिकदेहेऽस्मिन्स्वप्नेष्विव विनश्वरी ॥२२॥यथातपे हिमकणः शरद्व्योम्नि सितोऽम्बुदः ।दृश्यमानोऽप्यदृश्यत्वमित्येवं योगिदेहकः ॥२३॥द्रागित्येवाथवा कश्चिद्योगिदेहो न लक्ष्यते ।योगिभिश्च पुरो वेगात्प्रोड्डीन इव खे खगः ॥२४॥स्ववासनाभ्रमेणैव क्वचित्केचित्कदाचन ।मृतोऽयमिति पश्यन्ति केचिद्योगिनमग्रगाः ॥२५॥भ्रान्तिमात्रं तु देहात्मा तेषां तदुपशाम्यति ।सत्यबोधेन रज्जूनां सर्पबुद्धिरिवात्मनि ॥२६॥को देहः कस्य वा सत्ता कस्य नाशः कथं कुतः ।स्थितं तदेव यदभूदबोधः केवलं गतः ॥२७॥श्रीराम उवाच ।आतिवाहिकतामेति आधिभौतिक एव किम् ।उतान्य इति मे ब्रूहि येनोह्य इव भोः प्रभो ॥२८॥श्रीवसिष्ठ उवाच ।बहुशो ह्युक्तमेतत्ते न गृह्णासि किमुत्तम ।आतिवाहिक एवास्ति नास्त्येवेहाधिभौतिकः ॥२९॥तस्यैवाभ्यसतोऽप्येति साधिभौतिकतामतिः ।यदा शाम्यति सैवास्य तदा पूर्वा प्रवर्तते ॥३०॥तदा गुरुत्वं काठिन्यमिति यश्च मुधा ग्रहः ।शाम्येत्स्वप्ननरस्येव बोद्धुर्बोधान्निरामयात् ॥३१॥लघुतूलसमापत्तिस्ततः समुपजायते ।स्वप्ने स्वप्नपरिज्ञानादिव देहस्य योगिनः ॥३२॥स्वप्ने स्वप्नपरिज्ञानाद्यथा देहो लघुर्भवेत् ।तथा बोधादयं देहः स्थूलवत्प्लुतिमान्भवेत् ॥३३॥अनेकदिनसंकल्पदेहे परिणतात्मनाम् ।अस्मिन्देहे शवे दग्धे तत्रैवास्थितिमीयुषाम् ॥३४॥लघुदेहानुभवनमवश्यं भावि वै तथा ।प्रबोधातिशयादेति जीवतामपि योगिनाम् ॥३५॥उदितायां स्मृतौ तत्र संकल्पात्माहमित्यलम् ।यादृशः स भवेद्देहस्तादृशोऽयं प्रबोधतः ॥३६॥भ्रान्तिरेवमियं भाति रज्ज्वामिव भुजङ्गता ।किं नष्टमस्यां नष्टायां जातायां किं प्रजायते ॥३७॥श्रीराम उवाच ।अनन्तर ये वास्तव्या लीलां पश्यन्ति ते यदि ।तत्सत्यसंकल्पतया बुध्यन्ते किमतः प्रभो ॥३८॥श्रीवसिष्ठ उवाच ।एवं ज्ञास्यन्ति ते राज्ञी स्थितेयमिह दुःखिता ।वयस्या काचिदन्येयं कुतोऽप्यस्या उपागता ॥३९॥संदेहः क इवात्रैषां पशवो ह्यविवेकिनः ।यथादृष्टं विचेष्टन्ते कुत एषां विचारणा ॥४०॥यथा लोष्टो लुठद्वृक्षं वञ्चयित्वाशु गच्छति ।अज्ञानत्वेऽजपशवस्तथा ह्यस्ति पुरादिकम् ॥४१॥यथा स्वप्नवपुर्बोधान्न जाने क्वेव गच्छति ।असत्यमेव तद्यस्मात्तथैवेहाधिभौतिकम् ॥४२॥श्रीराम उवाच ।भगवन्स्वप्नशिखरी प्रबोधे क्वेव गच्छति ।इति मे संशयं छिन्धि शरदभ्रमिवानिलः ॥४३॥श्रीवसिष्ठ उवाच ।स्वप्नभ्रमेऽथ संकल्पे पदार्थाः पर्वतादयः ।संविदोऽन्तर्मिलन्त्येते स्पन्दनान्यनिले यथा ॥४४॥अस्पन्दस्य यथा वायोः सस्पन्दोऽन्तर्विशत्यलम् ।अनन्यात्मा तथैवायं स्वप्नार्थः संविदो मलम् ॥४५॥स्वप्नाद्यर्थावभासेन संविदेव स्फुरत्यलम् ।अस्फुरन्ती तु तेनैव यात्येकत्वं तदात्मिका ॥४६॥संवित्स्वप्नार्थयोर्द्वित्वं न कदाचन लभ्यते ।यथा द्रवत्वपयसोर्यथा वा स्पन्दवातयोः ॥४७॥यस्तत्र स्यादिवाबोधस्तदज्ञानमनुत्तमम् ।सैषासंसृतिरित्युक्ता मिथ्याज्ञानात्मिकोदिता ॥४८॥सहकारिकारणानामभावे किल कीदृशी ।संवित्स्वप्नपदार्थानां द्विता स्वप्ने निरर्थिका ॥४१॥यथा स्वप्नस्तथा जाग्रदिदं नास्त्यत्र संशयः ।स्वप्ने पुरमसद्भाति सर्गादौ भात्यसज्जगत् ॥५०॥न चार्थो भवितुं शक्यः सत्यत्वे स्वप्नतोदितः ।संविदो नित्यसत्यत्वं स्वप्नार्थानामसत्यता ॥५१॥झटित्येव यथाकाशं भवति स्वप्नपर्वतः ।क्रमेण वा तथा बोधे खं भवत्याधिभौतिकम् ॥५२॥उड्डीनोऽयं मृतो वेति पश्यन्ति निकटस्थिताः ।ज्ञमातिवाहिकीभूतं स्वस्वभावहता यतः ॥५३॥मिथ्यादृष्टय एवेमाः सृष्टयो मोहदृष्टयः ।मायामात्रदृशो भ्रान्तिः शून्याः स्वप्नानुभूतयः ॥५४॥स्वप्नानुभूतय इमा मरणान्तबोधेभ्रान्त्येतरभ्रमदृशः स्फुटसर्गभासः ।भान्त्यातिवाहिकशरीरगताः समस्तामिथ्योदिता मृगनदीसरणक्रमेण ॥५५॥इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो० स्वप्नार्थस्य विचारो नाम सप्तपञ्चाशः सर्गः ॥५७॥ N/A References : N/A Last Updated : September 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP