संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्|
सर्गः ४८

उत्पत्तिप्रकरणं - सर्गः ४८

योगवासिष्ठः

श्रीवसिष्ठ उवाच ।
प्राप्य राजा पुरः प्राप्तं सिन्धुमुद्धुरकन्धरम् ।
मध्याह्नतपनान्तेन कोपेन विततोऽभवत् ॥१॥
धनुरास्फालयामास चिरारावितदिङ्मुखम् ।
कल्पान्तपवनास्फोट इव मेरुगिरेस्तटम् ॥२॥
विससर्जोर्जितो राजा प्रलयार्कः करानिव ।
तूणीररजनीबद्धाः शिलीमुखपरम्पराः ॥३॥
एक एव विनिर्याति गुणात्तस्य शिलीमुखः ।
सहस्रं भवति व्योम्नि गच्छन्पतति लक्षशः ॥४॥
सिन्धोरपि तथैवासीच्छक्तिर्लाघवमेव च ।
वरेण वरदस्यैवं विष्णोर्धानुष्कता तयोः ॥५॥
मुसला नाम ते बाणा मुसलाकृतयोऽम्बरम् ।
छादयामासुरुन्नादाः कल्पान्ताशनयो यथा ॥६॥
रेजुः कनकनाराचराजयो व्योम्नि सस्वनाः ।
रसन्त्यः कल्पवातार्ताः पतन्त्य इव तारकाः ॥७॥
विदूरथाच्छरासारा अजस्रमभिनिर्ययुः ।
अब्धेरिव पयःपूराः सूर्यादिव मरीचयः ॥८॥
प्रचण्डपवनोद्धूतात्पुष्पाणीव महातरोः ।
अयःपिण्डादिवोत्तप्तात्ताडितात्कणपङ्कयः ॥९॥
धारा वर्षमुच इव सीकरा इव निर्झरात् ।
तत्पुराग्निमहादाहात्स्फुलिङ्गा इव भासुराः ॥१०॥
तयोश्चटचटास्फोटं शृण्वत्कोदण्डयोर्द्वयोः ।
बलद्वयमभूत्प्रेक्षामूकं शान्त इवाम्बुधिः ॥११॥
वहन्ति स्म शरापूरा गङ्गापूरा इवाम्बरे ।
सिन्धोरभिमुखं युद्धे घर्घरारावरंहसः ॥१२॥
कचत्कनकनाराचशरवर्षा अनारतम् ।
वहच्छवशवाशब्द निर्ययुर्धनुरम्बुदात् ॥१३॥
बाणमन्दाकिनीपूरं व्रजन्तं सिन्धुपूरणे ।
वातायनात्तमालोक्य लीला तत्पुरवासिनी ॥१४॥
तेन बाणसमूहेन जयमाशङ्क्य भर्तरि ।
उवाच वाक्यमानन्दविकसन्मुखपङ्कजा ॥१५॥
जय देवि जयत्येष नाथोऽस्माकं विलोकय ।
किंचानेन शरौघेण मेरुरप्येति चूर्णताम् ॥१६॥
तस्यामेव वदन्त्या तु घनस्नेहरवाकुलम् ।
प्रेक्षणव्यग्रयोर्देव्योर्हसन्त्योर्मानुषीं हृदा ॥१७॥
तच्छरार्णवमामत्तमपिबत्सिन्धुवाडवः ।
शरोष्मणा ह्यगस्त्येन जह्नुर्मन्दाकिनीमिव ॥१८॥
बाणवर्षेण कणशस्तं सायकमहाघनम् ।
छित्त्वा तनुरजः कृत्वा चिक्षेप गगनार्णवे ॥१९॥
यथा दीपस्य शान्तस्य न परिज्ञायते गतिः ।
तस्य सायकसङ्घस्य न विज्ञाता तथा गतिः ॥२०॥
तं छित्त्वा सायकासारं शरीराम्बुधरं घनम् ।
व्योम्नि प्रसारयामास रसाच्छवशतान्वितम् ॥२१॥
विदूरथस्तमप्याशु व्यधमत्सायकोत्तमैः ।
सामान्यजलदं मत्तं कल्पान्तपवनो यथा ॥२२॥
कृतप्रतिकृतैरेवं बाणवर्षैर्महीपती ।
व्यर्थीकृतैरनयतां प्रहारमविचारणैः ॥२३॥
अथादधे मोहनास्त्रं सिन्धुर्गन्धर्वसौहृदात् ।
प्राप्तं तेन ययुर्लोका विना मोहं विदूरथात् ॥२४॥
व्यस्तशस्त्राम्बरा मूका विषण्णवदनेक्षणाः ।
मृता इवाभवन्योधाश्चित्रन्यस्ता इवाथवा ॥२५॥
यावद्विदूरथादन्यं मोहो नयति मन्दताम् ।
तावद्विदूरथो राजा प्रबोधास्त्रमथाददे ॥२६॥
ततः प्रबोधमापन्नाः प्रजाः प्रातरिवाब्जिनी ।
विदूरथे भवत्सिन्धुः कुद्धोऽर्क इव राक्षसे ॥२७॥
नागास्त्रमाददे भीमं पाशबन्धनखेददम् ।
तेनाभवन्नभो व्याप्तं भोगिभिः पर्वतोपमैः ॥२८॥
सर्पैर्विलसिता भूमिर्मृणालैः सरसी यथा ।
संपन्ना गिरयः सर्वे कृष्णपन्नगकम्बलाः ॥२९॥
पदार्थाः सर्व एवेमे विषोष्मखिन्नतां ययुः ।
सपर्वतवनाभोगा ययौ विवशतां मही ॥३०॥
पूताङ्गारसमाकीर्णं विषवैषम्यशंसिनः ।
ववू रूक्षोष्णनीहारवाता ज्वलनरेणवः ॥३१॥
विदूरथोऽथ सौपर्णमाददेऽस्त्रं महास्त्रवित् ।
उदगुर्गरुडास्त्रेण सौपर्णाः पर्वता इव ॥३२॥
काञ्चनीकृतसर्वाशाः सर्वाशापरिपूरकाः ।
पक्षपर्वतसंरम्भजनितप्रलयानिलाः ॥३३॥
घोणानिलजवाकृष्टश्वसद्भुजगमण्डलाः ।
महाघुरघुरारावपूरिताम्भोधिखण्डकाः ॥३४॥
स सुपर्णघनोऽपात्तं सर्पौघं भूप्रपूरकम् ।
कष्टं शलशलायन्तमगस्त्य इव वारिधिम् ॥३५॥
सर्पकम्बलनिर्मुक्तं भूमण्डलमराजत ।
चिरात्तमवनीरन्ध्रमिव निर्वारिराशि च ॥३६॥
ततस्तद्गरुडानीकं क्वाप्यगच्छददृश्यताम् ।
दीपौघ इव वातेन शरदेवाब्दमण्डलम् ॥३७॥
वज्रभीत्येव पक्षौघपर्वतप्रकरः पुरः ।
स्वप्नदृष्टं जगदिव संकल्पपुरपूरवत् ॥३८॥
ततस्तमोऽस्त्रमसृजत्सिन्धुरन्धान्धकारदम् ।
तेनान्धकारो ववृधे कृष्णो भूजठरोपमः ॥३९॥
रोदोरन्ध्रे प्रविसृत एकार्णव इवाभवत् ।
मत्स्या इवाभवन्सेनास्ताराश्च मणयोऽभवन् ॥४०॥
अन्धकारप्रवृत्तेन मषीपङ्कार्णवोपमम् ।
कज्जलाचलसंभारोद्भूतकल्पानिलैरिव ॥४१॥
अन्धकूपे निपतिता इवासन्सकलाः प्रजाः ।
कल्पान्त इव संशेमुर्व्यवहारा दिशं प्रतिं ॥४२॥
विदूरथोऽथ मार्तण्डं दीपं ब्रह्माण्डमण्डपे ।
अस्त्रं मन्त्रविदां श्रेष्ठः सृष्ट्वा मन्त्रो व्यचेष्टयत् ॥४३॥
अथोदिततमोम्भोधिमर्कागस्त्यो गभस्तिभिः ।
अपिबत्कृष्णमम्भोदं शरत्काल इवामलः ॥४४॥
अन्धकाराम्बरोन्मुक्ता विरेजुरमला दिशः ।
भूपतेः पुरतः कान्ता इव रम्यपयोधराः ॥४५॥
ययुः प्रकटतामन्तरखिला वनराजयः ।
लोभकज्जलजालेन मुक्ता इव सतां धियः ॥४६॥
अथ कोपाकुलः सिन्धू राक्षसास्त्रं महाभयम् ।
क्षणादुदीरयामास मन्त्रोदीर्णशरात्मकम् ॥४७॥
उदगुर्भीषणा दिग्भ्यः परुषा वनराक्षसाः ।
पातालगजफूत्कारक्षुब्धा इव महार्णवाः ॥४८॥
कपिलोर्ध्वजटाधूम्राः स्फुटच्चटचटारवाः ।
अग्नयो लेलिहानोग्रजिह्वा आर्द्रेन्धना इव ॥४९॥
सावर्तवृत्तयो व्योम्नि भीमचीत्कारटांकृताः ।
अग्निदाहा महाधूमविलोला इव सोल्मुकाः ॥५०॥
दंष्ट्राबिसाङ्कुराक्रान्तमुखपङ्काक्षदेहकाः ।
उदिता लोमजम्बाला दुष्पल्वलतटा इव ॥५१॥
निगिरन्तः प्रधावन्तो गर्जन्तः सर्जिता इव ।
जटाजालतडित्पुञ्जा जलदाः सजला इव ॥५२॥
एतस्मिन्नन्तरे तस्मिँल्लीलानाथो विदूरथः ।
नारायणास्त्रं प्रददे दुष्टभूतनिवारणम् ॥५३॥
उदीर्यमाण एवास्मिन्मन्त्रराजेऽस्त्रराजयः ।
राक्षसानां प्रशेमुस्ता अन्धकार इवोदये ॥५४॥
प्रमुष्टराक्षसानीकमभवद्भुवनत्रयम् ।
शरदीव गताम्भोदं व्योम निर्मलमाबभौ ॥५५॥
अथ सिन्धुर्मुमोचास्त्रमाग्नेयं ज्वलिताम्बरम् ।
जज्वलुः ककुभस्तेन कल्पाग्निज्वलिता इव ॥५६॥
धूमाम्बुदभराच्छन्ना बभूवुः सकला दिशः ।
गगने प्रोतपातालतिमिराकुलिता इव ॥५७॥
बभूवुर्ज्वलिताकारा गिरयः काञ्चना इव ।
प्रफुल्लवननीरन्ध्रचम्पकौघवना इव ॥५८॥
ययुर्व्योमाद्रिदिक्कुञ्जा ज्वालाजालजटालताम् ।
कुङ्कुमेनोत्सवे मृत्योः समालब्धा इव स्रजः ॥५९॥
ज्वलिता जनता चैकशङ्किनी सा नभःस्पृशा ।
सहस्राकृतिनौवेगचलितेनेव सागरात् ॥६०॥
जित्वा रिपुं पुनरसौ यथा प्रहरते तथा ।
वारुणं विससर्जास्त्रं पूजयित्वा विदूरथः ॥६१॥
आययुः सलिलापूरास्तमःपूरा इवाभितः ।
अधस्तादूर्ध्वतो दिग्भ्यो द्रवरूपा इवाद्रयः ॥६२॥
भागा इव शरव्योम्नि धृतयाना इवाम्बुदाः ।
महार्णवा इवोच्चस्थाः कुलशैलशिला इव ॥६३॥
तमालौघा इवोड्डीनाः संधिता इव रात्रयः ।
कज्जलौघा इवोद्भूता लोकालोकतटादिव ॥६४॥
रसातलगुहाभोगा इव व्योमदिदृक्षवः ।
महाघुरघुरारावरंहोबृंहितमूर्तयः ॥६५॥
तामग्निसंततिं मत्तामाचचामाम्बुसंततिः ।
भुवनव्यापिनी संध्यामाशु कृष्णेव यामिनी ॥६६॥
तामग्निसंततिं पीत्वा पूरयामास भूतलम् ।
जलश्रीर्जटितं देहं निद्रेव व्यक्तिमेयुषी ॥६७॥
एवंविधानस्त्रमोहान्विदधुर्धावनेतरे ।
मिथोमायामयानग्रे पश्यन्त्यनुभवन्ति च ॥६८॥
हेतिभारवराः सिन्धोश्चक्ररक्षास्ततोऽम्भसा ।
तृणानीव गताः प्रोह्य रथश्चास्याभवत्प्लुतः ॥६९॥.
एतस्मिन्नन्तरे सिन्धुरस्त्रं सस्मार शोषणम् ।
आपत्त्राणकरं दैवं ददौ च शररूपिणम् ॥७०॥
शशामाम्बुमयी माया तेन यामेव भास्वता ।
ये मृतास्ते मृता एव बभूवुः शोषिता भुवः ॥७१॥
अथ मूर्खरुषा तुल्यस्तापः संतापयन्प्रजाः ।
जजृम्भे झर्झराकीर्णवनविस्तारकर्कशः ॥७२॥
कचत्कनकनिःस्यन्दसुन्दराङ्गच्छविर्दिशाम् ।
आसीद्राजवरस्त्रीणामिवालेपोऽङ्गसंगतः ॥७३॥
तेन धर्ममयीं मूर्च्छामाजग्मुस्तद्विरोधिनः ।
ग्रीष्मदावानलोत्तप्ता मृदवः पल्लवा इव ॥७४॥
विदूरथो रणोद्रेके तावत्क्रेंकारमाततम् ।
कोदण्डं कुण्डलीकृत्य पर्जन्यास्त्रमथाददे ॥७५॥
उदगुः पङ्क्तयोऽब्दानां यामिन्य इव संचिताः ।
तमालविपिनोड्डीनसंरम्भादम्बुमन्थराः ॥७६॥
वामना वारिपूरेण गर्जनोद्दामसंचराः ।
महिम्नामन्थराशेषककुम्मण्डलकुण्डलाः ॥७७॥
ववुरावलितासारा मेघडम्बरभेदिनः ।
कीर्णसीकरनीहारभारोदाराः समीरणाः ॥७८॥
प्रपुस्फुरुः सुसौवर्णसर्पापत्सरणोपमाः ।
विद्युतो दिवि दैव्यस्त्रीकटाक्षवलना इव ॥७९॥
जुघूर्णुर्गर्जनोच्छूनप्रतिश्रुद्धनकन्दराः ।
दिशश्चलितमातङ्गसिंहर्क्षरवघर्घराः ॥८०॥
महामुसलधाराभिः पेतुरासारवृष्टयः ।
कष्टटंकारकठिनाः कृतान्तस्येव दृष्टयः ॥८१॥
उदभूत्प्रथमं बाष्प उष्णोऽनलनिभो भुवः ।
पातालादभ्रवृन्दानां युद्धायेवात्तविभ्रमः ॥८२॥
ततो निमेषमात्रेण प्रशेमुर्मृगतृष्णिकाः ।
परबोधरसापूरैर्यथा संसारवासनाः ॥८३॥
आसीत्पङ्काङ्कमखिलं भूमण्डलमसंचरम् ।
पूरितः पूर्णधाराभिः सिन्धुः सिन्धुरिवाम्बुना ॥८४॥
वायव्यमस्त्रमसृजत्पूरिताकाशकोटरम् ।
कल्पान्तनृत्तसंमत्तरटद्भैरवभीषणम् ॥८५॥
ववुरशनिनिपातपीडिताङ्गा
दलितशिलाशकलाः ककुम्मुखेषु ।
प्रलयसमयसूचका भटानां
कृतपटुटांकृतटङ्किनः समीराः ॥८६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो० आयुधवर्णनं नामाष्टचत्वारिंशः सर्गः ॥४८॥

N/A

References : N/A
Last Updated : September 11, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP