संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ९९ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ९९ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ९९ Translation - भाषांतर श्रीराम उवाच ।कासौ महाटवी ब्रह्मन्कदा दृष्टा कथं मया ।के च ते पुरुषास्तत्र किं तत्कर्तुं कृतोद्यमाः ॥१॥श्रीवसिष्ठ उवाच ।रघुनाथ महाबाहो श्रृणु वक्ष्यामि तेऽखिलम् ।न सा महाटवी राम दूरे नैव च ते नराः ॥२॥येयं संसारपदवी गम्भीराऽपारकोटरा ।तां तां शून्यां विकाराढ्यां विद्धि राम महाटवीम् ॥३॥विचारालोकलभ्येयं यदैकेनैव वस्तुना ।पूर्णा नान्येन संयुक्ता केवलेव तदैव सा ॥४॥तत्र ये ते महाकाराः पुरुषाः प्रभ्रमन्ति हि ।मनांसि तानि विद्धि त्वं दुःखे निपतितान्यलम् ॥५॥द्रष्टा योऽयमहं तेषां सविवेको महामते ।विवेकेन मया तानि दृष्टान्यन्येव नानघ ॥६॥मया तान्येव बोध्यन्ते विवेकेन मनांसि हि ।सततं सुप्रकाशेन कमलानीव भानुना ॥७॥मत्प्रबोधं समासाद्य मत्प्रसादान्महामते ।मनांसि कानि चित्तानि गतान्युपशमात्परम् ॥८॥कानिचिन्नाभिनन्दन्ति मां विवेकं विमोहतः ।मत्तिरस्कारवशतः कूपेष्वेव पतन्त्यधः ॥९॥ये तेऽन्धकूपा गहना नरकास्ते रधूद्वह ।कदलीकाननं यानि संप्रविष्टानि तानि तु ॥१०॥स्वर्गैकरसिकानि त्वं मनांसि ज्ञातुमर्हसि ।प्रविष्टान्यन्धकूपान्तर्निर्गतानि न यानि तु ॥११॥महापातकयुक्तानि तानि चित्तानि राघव ।कदलीकाननस्थानि निर्गतानि न यानि तु ॥१२॥पुण्यसंभारयुक्तानि तानि चित्तानि राघव ।करञ्जवनयातानि निर्गतानि न यानि तु ॥१३॥तानि मानुष्यजातानि चित्तानि रघुनन्दन ।कानिचित्संप्रबुद्धानि तत्र मुक्तानि बन्धनात् ॥१४॥कानिचिद्बहुरूपाणि योनेर्योनिं विशन्ति हि ।मनांसि तानि तिष्ठन्ति निपतन्त्युत्पतन्ति च ॥१५॥यत्तत्करञ्जगहनं तत्कलत्ररसं विदुः ।दुःखकण्टकसंबाधं मानुष्यं विविधैषणम् ॥१६॥करञ्जगहनं यानि प्रविष्टानि मनांसि तु ।मानुष्ये तानि जातानि तत्रैव रसिकानि च ॥१७॥कदलीकाननं यत्तच्छशाङ्ककरशीतलम् ।तन्मनोह्लादनकरं स्वर्गं विद्धि रघूद्वह ॥१८॥कानिचित्पुण्यभूतेन तपसा धारणात्मना ।धारयन्ति शरीराणि संस्थितान्युदितान्यपि ॥१९॥यैरहं पुंभिरबुधैर्बुद्धिचित्ततिरस्कृतः ।तैर्मनोभिरनात्मज्ञैः स्वविवेकस्तिरस्कृतः ॥२०॥त्वया दृष्टो विनष्टोऽस्मि त्वं मे शत्रुरिति द्रुतम् ।यदुक्तं तद्धि चित्तेन गलता परिदेवितम् ॥२१॥रुदितं यन्महाक्रन्दं पुंसा बह्नाशु राघव ।तद्भोगजालं त्यजता मनसा रोदनं कृतम् ॥२२॥अर्धप्राप्तविवेकस्य न प्राप्तस्यामलं पदम् ।चेतसस्त्यजतो भोगान्परितापो भृशं भवेत् ॥२३॥रुदताङ्गानि दृष्टानि कारुण्येनावबोधिना ।कष्टमेतानि संत्यज्य किं प्रयामीति चेतसा ॥२४॥अर्धप्राप्तविवेकस्य न प्राप्तस्यामलं पदम् ।चेतसस्त्यजतोऽङ्गानि परितापो हि वर्धते ॥२५॥हसितं तु यदानन्दि पुंसा मदवबोधतः ।परिप्राप्तविवेकेन तत्तुष्टं राम चेतसा ॥२६॥परिप्राप्तविवेकस्य त्यक्तसंसारसंस्थितेः ।चेतसस्त्यजतो रूपमानन्दो हि विवर्धते ॥२७॥हसताङ्गानि दृष्टानि पुंसा यान्युपहासतः ।तानि दृष्टानि मनसा विप्रलम्भपदानि ह ॥२८॥मिथ्याविकल्परचितैर्विप्रलब्धमहो चिरम् ।इत्यङ्गान्युपहासेन दृष्टानि स्वानि चेतसा ॥२९॥मनः प्राप्तविवेकं हि विश्रान्तं वितते पदे ।प्राक्तनादीनताधारं हसन्पश्यति दूरतः ॥३०॥यदसौ समवष्टभ्य मया पृष्टः प्रयत्नतः ।तद्विवेको बलाच्चित्तमादत्त इति दर्शितम् ॥३१॥यदङ्गानि विशीर्णानि गतान्यन्तर्धिमग्रतः ।तच्चित्तेन विनार्थाशा शाम्यतीति प्रदर्शितम् ॥३२॥सहस्रनेत्रहस्तत्वं यत्पुंसः परिवर्णितम् ।तदनन्ताकृतित्वं हि चेतसः परिदर्शितम् ॥३५॥यदात्मनि प्रहारौघैः पुमान्प्रहरति स्वयम् ।तत्तत्कुकल्पनाघातैः प्रहरत्यात्मनो मनः ॥३४॥पलायते यत्पुरुषः स्वात्मनः प्रहरन्स्वयम् ।स्ववासनाप्रहारेभ्यस्तन्मनः प्रपलायते ॥३५॥स्वयं प्रहरति स्वान्तं स्वयमेव स्वयेच्छया ।पलायते स्वयं चैव पश्याज्ञानविजृम्भितम् ॥३६॥स्ववासनोपतप्तानि सर्वाण्येव मनांसि हि ।स्वयमेव पलायन्ते गन्तुं युक्तानि तत्पदम् ॥३७॥यदिदं विततं दुःखं तत्तनोति स्वयं मनः ।स्वयमेवातिखिन्नं तु पुनस्तस्मात्पलायते ॥३८॥संकल्पवासनाजालैः स्वयमायाति बन्धनम् ।मनो लालामयैर्जालैः कोशकारकृमिर्यथा ॥३९॥यथानर्थमवाप्नोति तथा क्रीडति चञ्चलम् ।भाविदुःखमपश्यन्स्वं दुर्लीलाभिरिवार्भकः ॥४०॥अपश्यन्काष्ठरन्ध्रस्थवृषणाक्रमणं यथा ।कीलोत्पाटी कपिर्दुःखमेतीदं हि तथा मनः ॥४१॥चिरपालनया चैव चिरभावनया तथा ।अभ्यासात्तुच्छतामेत्य न भूयः परिशोचति ॥४२॥मनःप्रमादाद्वर्धन्ते दुःखानि गिरिकूटवत् ।तद्वशादेव नश्यन्ति सूर्यस्याग्रे हिमं यथा ॥४३॥यावज्जीवमनिन्द्यया च रमते शास्त्रार्थसंजातयातुल्यं वासनया मनो हि मुनिवन्मौनेन रागादिषु ।पश्चात्पावनपावनं पदमजं तत्प्राप्य तच्छीतलंतत्संस्थेन न शोच्यते पुनरलं पुंसा महापत्स्वपि ॥४४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपाये उत्पत्तिप्रकरणे चित्तोपाख्यानं नामैकोनशततमः सर्गः ॥९९॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP