संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः १११ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः १११ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १११ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अस्य चित्तमहाव्याधेश्चिकित्साया महौषधम् ।स्वायत्तं श्रृणु वक्ष्यामि साधु सुस्वादु निश्चितम् ॥१॥स्वेनैव पौरुषेणाशु स्वसंवेदनरूपिणा ।यत्नेन चित्तवेतालस्त्यक्त्वेष्टं वस्तु जीयते ॥२॥त्यजन्नभिमतं वस्तु यस्तिष्ठति निरामयः ।जितमेव मनस्तेन कुदन्त इव दन्तिना ॥३॥स्वसंवेदनयत्नेन पाल्यते चित्तबालकः ।अवस्तुतो वस्तुनि च योज्यते बोध्यतेऽपि च ॥४॥शास्रसत्सङ्गधीरेण चिन्तातप्तमतापिना ।छिन्धि त्वमायसेनायो मनसैव मनो मुने ॥५॥अयत्नेन यथा बाल इतश्चेतश्च योज्यते ।भावैस्तथैव चेतोन्तः किमिवात्रास्ति दुष्करम् ॥६॥सत्कर्मणि समाक्रान्तमुदर्कोदयदायिनि ।स्वपौरुषेणैव मनश्चेतनेन नियोजयेत् ॥७॥स्वायत्तमेकान्तहितं स्वेप्सितत्यागवेदनम् ।यस्य दुष्करतां यातं धिक्तं पुरुषकीटकम् ॥८॥अरम्यं रम्यरूपेण भावयित्वा स्वसंविदा ।मल्लेनेव शिशुश्चित्तमयत्नेनैव जीयते ॥९॥पौरुषेण प्रयत्नेन चित्तमाश्वेव जीयते ।अचित्तेनाप्रयत्नेन पदं ब्रह्मणि दीयते ॥१०॥स्वायत्तं च सुसाध्यं च स्वचित्ताक्रान्तिमात्रकम् ।शक्नुवन्ति न ये कर्तुं धिक्तान्पुरुषजम्बुकान् ॥११॥स्वपौरुषैकसाध्येन स्वेप्सितत्यागरूपिणा ।मनःप्रशममात्रेण विना नास्ति शुभा गतिः ॥१२॥मनोमारणमात्रेण साध्येन स्वात्मसंविदा ।निःसपत्नमनाद्यन्तमनिङ्गनमिहोच्यताम् ॥१३॥ईप्सितावेदनाख्यात्तु मनःप्रशमनादृते ।गुरूपदेशशास्त्रार्थमन्त्राद्या युक्तयस्तृणम् ॥१४॥सर्वं सर्वगतं शान्तं ब्रह्म संपद्यते तदा ।असंकल्पनशस्त्रेण च्छिन्नं चित्तं गतं यदा ॥१५॥स्वसंवेदनसाध्येऽस्मिन्संकल्पानर्थशासने ।शान्तायामत्र वपुषि पुंसः कैव कदर्थना ॥१६॥नूनं दैवमनादृत्य मूढसंकल्पकल्पितम् ।पुरुषार्थेन संवित्त्या नय चित्तमचित्तताम् ॥१७॥तां महापदवीमेकां कामप्यधिगतं चिरम् ।चित्तं चिद्भक्षितं कृत्वा चित्तादपि परो भव ॥१८॥भव भावनया युक्तो युक्तः परमया धिया ।धारयात्मानमव्यग्रो ग्रस्तचित्तं ततः परम् ॥१९॥परं पौरुषमाश्रित्य नीत्वा चित्तमचित्तताम् ।तां महापदवीमेहि यत्र नाशो न विद्यते ॥२०॥संवेदनविपर्यासरूपिणी धीरिवाचला ।जेतुमाशु मनो राम पौरुषेणैव शक्यते ॥२१॥अनुद्वेगः श्रियो मूलमनुद्वेगात्प्रवर्तते ।जन्तोर्मनोजयो येन त्रिलोकीविजयस्तृणम् ॥२२॥न शस्त्रदलनोत्पातपाता यस्यां मनागपि ।स्वभावमात्रव्यावृत्तौ तस्यां कैव कदर्थना ॥२३॥अपि स्ववेदनाक्रान्तौ न शक्ता ये नराधमाः ।कथं व्यवहरिष्यन्ति व्यवहारदशासु ते ॥२४॥पुमान्मृतोऽस्मि जातोऽस्मि जीवामीति कुदृष्टयः ।चेतसो वृत्तयो भान्ति चपलस्यासदुत्थिताः ॥२५॥न कश्चनेह म्रियते जायते न च कश्चन ।स्वयं वेत्ति मृतं स्वस्य लोकमन्यं स्वकं मनः ॥२६॥इतो याति परं लोकं स्फुरत्यन्यतया मनः ।तत्तस्यैत्येतदामोक्षमतो मृतिभयं कुतः ॥२७॥इहलोकेन विचरत्विहलोके परत्र च ।चित्तमामोक्षमास्तेऽस्य रूपमन्यन्न विद्यते ॥२८॥मृते भ्रातरि भृत्यादौ क्लेश आक्रियतेऽनृतः ।तत्स्वचित्तं स्वचैतन्यव्यावृत्तात्मेति मे मतिः ॥२९॥सति पथ्ये तते शुभ्रे चित्तोपशमनादृते ।तिर्यगूर्ध्वमधस्ताच्च भूयोभूयो विचारितम् ॥३०॥यावन्नास्ति किलोपायश्चित्तोपशमनादृते ।ऋते तथ्ये तते शुभ्रे बोधे हृद्युदिते सति ॥३१॥मनोविलयमात्रेण विश्रान्तिरुपजायते ।व्यायते हृदयाकाशे चिति चिच्चक्रधारया ॥३२॥मनो मारय निःशङ्कं त्वां प्रबध्नन्ति नाधयः ।यदि रम्यमरम्यत्वे त्वया संविदितं विदा ॥३३॥छिन्नान्येव तदाङ्गानि चित्तस्येति मतिर्मम ।अयं सोऽहमिदं तन्म एतावन्मात्रकं मनः ॥३४॥तदभावनमात्रेण दात्रेणेव विलूयते ।छिन्नाभ्रमण्डलं व्योम्नि यथा शरदि धूयते ॥३५॥वातेनाकल्पनेनैवं तथा तद्धूयते मनः ।भवन्ति यत्र शस्त्राग्निपवनास्तत्र भीर्भवेत् ॥३६॥स्वायते मृदुनि स्वच्छे किमसंकल्पने भयम् ।इदं श्रेय इद नेति सिद्धमाबालमक्षतम् ॥३७॥बालं पुत्रमिवोदारे मनः श्रेयसि योजयेत् ।अक्षयं चानवं चेतःसिंहं संसृतिबृंहणम् ।घ्नन्ति ये ते जयन्तीह निर्वाणपददायिनः ॥३८॥भीमाः संभ्रमदायिन्यः संकल्पकदनादिमाः ।विपदः संप्रसूयन्ते मृगतृष्णा मराविव ॥३९॥कल्पान्तपवना वान्तु यान्तु चैकत्वमर्णवाः ।तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः ॥४०॥मनोबीजात्समुद्यन्ति सुखदुःखे शुभाशुभे ।संसारखण्डका एते लोकसप्तकपल्लवाः ॥४१॥असंकल्पनमात्रैकसाध्ये सकलसिद्धिदे ।असंकल्पनसाम्राज्ये तिष्ठावष्टब्धतत्पदः ॥४२॥प्रयच्छत्युत्तमानन्दं क्षीयमाणं मनः क्रमात् ।काष्ठक्षीणाङ्गकाङ्गारो यथाङ्गारक्षयार्थिनः ॥४३॥अपि ब्रह्मकुटीलक्षं मनसश्चेत्समीहितम् ।तदणोरन्तरे व्यक्तं विभक्तं परिदृश्यते ॥४४॥संकल्पमात्रविभवेन कृतात्यनर्थंसंकल्पमात्रविभवेन सुसाधितार्थम् ।संतोषमात्रविभवेन मनो विजित्यनित्योदितेन जयमेहि निरीप्सितेन ॥४५॥परमपावनया विमनस्तयासमतया मतयात्मविदामपि ।शमितया मितयान्तरहंतयायदवशिष्टमजं पदमस्तु तत् ॥४५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उत्पत्तिप्रकरणे चित्तचिकित्सानामैकादशोत्तरशततमः सर्गः ॥१११॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP