संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्|
सर्गः ५२

उत्पत्तिप्रकरणं - सर्गः ५२

योगवासिष्ठः

श्रीवसिष्ठ उवाच ।
एतस्मिन्नन्तरे राम लीलोवाच सरस्वतीम् ।
श्वासावशेषमालोक्य मूढं भर्तारमग्रगम् ॥१॥
प्रवृत्तो देहमुत्स्रष्टुं मद्भर्तायमिहाम्बिके ।
ज्ञप्तिरुवाच ।
एवंरूपमहारम्भे संग्रामे राष्ट्रसंभ्रमे ॥२॥
संपन्नेऽपि स्थितेऽप्युच्चैर्विचित्रारम्भमन्थरे ।
न किंचिदपि संपन्नं राष्ट्रं न च महीतलम् ॥३॥
न स्थितं क्वचनाप्येव स्वप्नात्मकमिदं जगत् ।
तस्य तन्मण्डपस्यान्तः शवस्य निकटाम्बरे ॥४॥
इदं भूराष्ट्रमाभाति भर्तृजीवस्य तेऽनघे ।
अन्तःपुरगृहान्ते तदिदं राष्ट्रान्वितोदरम् ॥५॥
वसिष्ठविप्रगेहेऽन्तर्विन्ध्याद्रिग्रामके स्थितम् ।
वसिष्ठविप्रगेहेन्तः शवगेहजगत्स्थितम् ॥६॥
शवगेहजगत्कुक्षाविदं गेहजगत्स्थितम् ।
एवमेष महारम्भो जगत्त्रयमयो भ्रमः ॥७॥
त्वया मयाऽनयाऽनेन संयुक्तः सार्णवावनिः ।
गिरिग्रामकदेहान्तर्मध्ये गगनकोशके ॥८॥
स्वात्मैव कचति व्यर्थो न कचत्येव वा क्वचित् ।
तत्पदं परमं विद्धि नाशोत्पादविवर्जितम् ॥९॥
स्वयं कचितमाभातं शान्तं परमनामयम् ।
किल मण्डपगेहेन्तः स्वस्वभावोदितात्मनि ॥१०॥
एवमारम्भघनयोरपि मण्डपयोस्तयोः ।
उदरे शून्यमाकाशमेवास्ति न जगद्भ्रमः ॥११॥
भ्रमद्रष्टुरभावे हि कीदृशी भ्रमता भ्रमे ।
नास्त्येव भ्रमसत्तातो यदस्ति तदजं पदम् ॥१२॥
भ्रमो दृश्यमसत्तस्य द्रष्टृदृश्यदशा कुतः ।
द्रष्टृदृश्यक्रमाभावादद्वयं सहजं हि तत् ॥१३॥
तत्पदं परमं विद्धि नाशोत्पादविवर्जितम् ।
स्वयं कचितमाभातं शान्तमाद्यमनामयम् ॥१४॥
किल मण्डपगेहान्तः स्वस्वभावोदितात्मनि ।
विहरन्ति जनास्तत्र स्वगेहे स्वव्यवस्थया ॥१५॥
न जगत्तत्र नो सर्गः कश्चिदप्यनुभूयते ।
तेनाहमजमाकाशं जगदित्येव वर्तते ॥१६॥
सर्वं शून्यात्मविज्ञानं मेर्वादिगिरिजालकम् ।
नेदं कुड्यमयं किंचिद्यथा स्वप्ने महापुरम् ॥१७॥
देशे प्रादेशमात्रेऽपि गिरिजालमयान्यपि ।
वज्रसाराणि खान्येव लक्षाणि जगतो विदुः ॥१८॥
जगन्ति सुबहून्येव संभवन्त्यणुकेऽपि च ।
कदलीपल्लवानीव संनिवेशेन भूरिशः ॥१९॥
त्रिजगच्चिदणावन्तरस्ति स्वप्नपुरं यथा ।
तस्याप्यन्तश्चिदणवस्तेष्वप्येकैकशो जगत् ॥२०॥
तेषां यस्मिञ्जगत्येष पद्मो राजा शवः स्थितः ।
लीला तव सपत्नीयं प्राप्ता पूर्वतरा शुभे ॥२१॥
यदैव मूर्च्छामायाता लीलेयं पुरतस्तव ।
तदैव भर्तुः पद्मस्य शवस्य निकटे स्थिता ॥२२॥
लीलोवाच ।
कथमेषा पुरा देवि संपन्ना तत्र देहिनी ।
कथं च तत्सपत्नीकभावमाप्तवती स्थिता ॥२३॥
ते चास्या वद किं रूपं पश्यन्त्यथ वदन्ति किम् ।
तद्गेहवरवास्तव्याः समासेनेति मे वद ॥२४॥
श्रीदेव्युवाच ।
श्रृणु सर्वं समासेन यथापृष्टं वदामि ते ।
लीले लीलास्ववृत्तान्तमन्तदं दृश्यदुर्दशम् ॥२५॥
पद्मस्तव स भर्तैष भ्रान्तिं तावत्ततामिमाम् ।
इयं जगन्मयी तस्मिन्नेव सद्मनि पश्यति ॥२६॥
भ्रान्तियुद्धमिदं युद्धमेषा भ्रान्तिर्जनोऽजनः ।
भ्रान्त्यैवास्तीह मरणमेष चैवं भ्रमात्मकः ॥२७॥
भ्रमक्रमेणानेनैव लीलास्य दयिता स्थिता ।
त्वं चैषा च वरारोहे स्वप्नमात्रं वराङ्गने ॥२८॥
यथा भवत्यावेतस्य स्वप्नमात्रं वराङ्गने ।
तथा भवत्योर्भर्तैष तथैवाहमपि स्वयम् ॥२९॥
जगच्छोभैवेदृशीयं दृश्यमेतदिहोच्यते ।
एतदेव परिज्ञातं दृश्यशब्दार्थमुज्प्तति ॥३०॥
एवमेषा त्वमेषा च संपन्नैवमसौ नृपः ।
अहं चात्मनि सत्यत्वं गता सर्वतयात्मनः ॥३१॥
इमे वयमिहान्योन्यं संपन्नाश्चोदिता इति ।
इत्थं सर्वात्मकतया महाचिद्धनसंस्थितेः ॥३२॥
एवमेषा स्थिता राज्ञी हारिहासविलासिनी ।
लीला विलोलवदना नवयौवनशालिनी ॥३३॥
पेशलाचारमधुरा मधुरोदारभाषिणी ।
कोकिलास्वरसंकाशा मदमन्मथमन्थरा ॥३४॥
असितोत्पलपत्राक्षी वृत्तपीनपयोधरा ।
कान्ता काञ्चनगौराङ्गी पक्वबिम्बफलाधरा ॥३५॥
त्वत्संकल्पात्मकस्यैषा यदा भर्तुर्मनःकला ।
तदा त्वत्सदृशाकारा स्थितैषा चिच्चमत्कृतौ ॥३६॥
त्वद्भर्तुर्मरणे क्षिप्रं समनन्तरमेव हि ।
त्वद्भर्त्रैषा पुरो दृष्टा त्वत्संकल्पात्मनामुना ॥३७॥
यदाधिभौतिकं भावं चेतोऽनुभवति स्वयम् ।
चेत्यं सन्मयमेवात आतिवाहिककल्पनम् ॥३८॥
यदाधिभौतिकं भावं चेतो वेत्ति न सन्मयम् ।
आतिवाहिकसंकल्पस्तदा सत्योपजायते ॥३९॥
अथो मरणसंवित्त्या पुनर्जन्ममये भ्रमे ।
त्वं हि संविदितानेन त्वया च गत एव सः ॥४०॥
इत्थं त्वां दृष्टवानेष दृष्टश्चैव त्वयेति च ।
त्वमप्यात्मनि संपन्ना सर्वगत्वाच्चिदात्मनः ॥४१॥
ब्रह्म सर्वगतं यस्माद्यथा यत्र यदोदितम् ।
भवत्याशु तथा तत्र स्वप्नशक्त्यैव पश्यति ॥४२॥
सर्वत्र सर्वशक्तित्वाद्यत्र या शक्तिरुन्नयेत् ।
आस्ते तत्र तथा भाति तीव्रसंवेगहेतुतः ॥४३॥
मृतिमोहक्षणेनैव यदैतौ दंपती स्थितौ ।
तदैवाभ्यामिदं बुद्धं प्रतिभासवशाद्हृदि ॥४४॥
आवयोः पितरावेताविमे वै चापि मातरौ ।
देश एष धनं चेदं कर्मेदं पूर्वमीदृशम् ॥४५॥
आवां विवाहितावेवमेवं नामैकतां गतौ ।
एतयोः सापि जनता याता तत्रैव सत्यताम् ॥४६॥
तथैवात्रास्ति दृष्टान्तः प्रत्यक्षं स्वप्नवेदनम् ।
इत्येवंभावया लीले लीलयाहमथार्चिता ॥४७॥
नाहं स्यां विधवेत्येवं वरो दत्तो मयाप्यसौ ।
इत्यर्थेन मृता पूर्वमेवेह खलु बालिका ॥४८॥
भवतां चेतनांशानामहं चेतनधर्मिणी ।
कुलदेवी सदा पूज्या स्वत एव करोम्यहम् ॥४९॥
अथास्या जीवको देहात्प्राणमारुतरूपधृक् ।
मनसा चलतां प्राप्तो मुखाग्रत्यक्तदेहकः ॥५०॥
ततो मरणमूर्च्छान्ते गृहेऽस्मिन्नेव चैतया ।
बुद्धौ भावित आकाशे दृष्टो जीवात्मना ततः ॥५१॥
संपन्नैषा हरिणनयना चन्द्रबिम्बाननश्री-
र्मानोन्नद्धा दयितललिता कान्तमाभोक्तुकामा ।
पूर्वस्मृत्या सरभसमुखी संयुता मण्डलान्तः
स्वप्नान्ते वाऽप्रकृतिविभवा पद्मिनी चोदितेव ॥५२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये लीलोपाख्याने० मरणसमनन्तरदेहप्रतिभावर्णनं नाम द्विपञ्चाशः सर्गः ॥५२॥

N/A

References : N/A
Last Updated : September 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP