संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय २०८

उत्तर पर्व - अध्याय २०८

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अथवृत्तांताः ॥

व्यासानुगमनं पूर्व ब्रह्मांडस्य समुद्धवः । माया च वैष्णवी यस्मात्संसारेदोषकीर्तनम् ‍ ॥१॥

पापभेदस्ततस्तस्माच्छुभासुभविनिर्णयः । शकटव्रतमाहात्म्यं तिलकव्रतकीर्तनम् ‍ ॥२॥

अशोक्करवीराख्यं व्रतं तस्माच्च कोकिलम् ‍ । बृहत्तपोव्रतं नाम रुद्रोपोषणमेव च ॥३॥

द्वितीयाव्रतमाहात्म्यशून्यशयनं तथा । कामाख्या तु तृतीया च मेघपालीव्रतं तथा ॥४॥

पंचग्निसाधना रम्या तृ तीयाव्रतमुत्तमम् ‍ । त्रिरात्रं गोष्पदं नाम हरिकालीव्रतं तथा ॥५॥

ललिताख्या तृतीया च योगाख्या च तथा परा । उमामहेश्वरं नाम तथा रंभातृतीयकम् ‍ ॥६॥

सौभाग्यख्या तृतीया च आर्द्रानंदकरी तथा । चैत्रे भाद्रपदे माघे तृतीयाव्रतमुच्यते ॥७॥

अनंतरे तृतीया च गणशांतिव्रतं तथा । सारस्वतव्रतं नाम पंचमी व्रतमुच्यते ॥८॥

तथा श्रीपंचमी नाम षष्ठी शोकप्रणाशिनी । फलषष्ठी च मंदारषष्ठी व्रतमथोच्यते ॥९॥

ललिताव्रतषष्ठी च षष्ठीकार्तिकसंज्ञिता । महत्तपःसप्तमी च विभूषासप्तमी तथा ॥१०॥

आदित्यमंडपविधिस्त्रयोदशीति सप्तमी । कृकवाकुप्लवङ्गा च तथैवाभय सप्तमी ॥११॥

कल्याणसप्तमी नाम शर्करासप्तमीव्रतम । सप्तमी कमलाख्या च तथान्याशुभसप्तमी ॥१२॥

स्त्रपनव्रतसप्तम्यौ तथैवाचलसप्तमी । बुधाष्टमीव्रतं नाम तथा जन्माष्टमबिव्रतम् ‍ ॥१३॥

दूर्वाकृष्णाष्टमी प्रोक्तअनयाव्रतमष्टमी । अष्टम्यर्काष्टमी चाथ श्रीवृक्षनवमीनवम् ‍ ॥१४॥

ध्वजाख्या नवमी चैव उल्काख्या नवमी तथा । दशावतारव्रतकं तथाशादशमीव्रतम् ‍ ॥१५॥

रोहिणींद्रहरिशंभुब्रह्मसूर्यावियोगकम । गोवत्सद्वादशी नाम व्रतमुक्तं ततः परम् ‍ ॥१६॥

नीराजद्वादशी च भीष्मपंचकमेव च । मल्लिकाख्या द्वादशी च भीमद्वादशिकोत्तमम् ‍ ॥१७॥

श्रवणद्वादशी नाम संप्राप्तिद्वादशीव्रतम् ‍ । गोविन्दद्वादशी नाम व्रतमुक्तं ततः परम् ‍ ॥१८॥

अखंडद्वादशीनामतिलद्वादश्यतः परम् ‍ । सुकृतद्वादशी नाम धरणीव्रतमेव च ॥१९॥

विशोकद्वादशी नाम विभूतिद्वाद्शीव्रतम् ‍ । पुष्पर्क्षद्वादशी चैव द्वादशी श्रवणर्क्षगा ॥२०॥

अनंगद्वादशी चैव अङ्कपादव्रतं तथा । निम्बार्ककरबीराथ यमादर्शत्रयोदशी ॥ अनंगद्वादशी चापि पालिरम्भाव्रते तथा ॥२१॥

चतुर्दशीव्रतं प्रोक्तं ततोऽनन्तचतुर्दशी । श्रावणीव्रतं नक्तं च चतुर्दश्याष्टमीमीदिने ॥२२॥

व्रतं शिवचतुर्दश्यां फलत्यागचतुर्दशी । वैशाखी कार्तिकी माघी व्रतमेतनंतरम् ‍ ॥२३॥

कार्तिक्यां कृर्त्तिकायोगे कृत्तिकाव्रतमीरितम् ‍ । फाल्गुने पौर्णिमायां तु व्रतं पूर्णमनोरथम ‍ ॥२४॥

अशोकपूर्णिमानाम अनंतव्रतमेव च । व्रतं हि सांभरायिण्यं सक्षत्रपुरुषव्रतम् ‍ ॥२५॥

शिवनक्षत्रपुरुषंसंपूर्ण येन मुच्यते । कामदानं व्रतं वृंताकबिधिरेव च ॥२६॥

आदित्यस्य दिने नक्तं संक्रात्युद्यापने फलम् ‍ । भद्रावतमगस्त्यार्घो नवचन्द्रार्कमेव च ॥२७॥

अर्घः शुक्रबृहस्पत्योः पंचाशीतिव्रतानि च । माघस्त्रानं नित्यस्त्रानं रुद्रस्त्रानविधिस्तथा ॥२८॥

चंद्रार्कग्रहणे स्त्रानं विधिश्वान्नाशने तथा । वापीकूपडागानामुत्सर्गो वृक्षयोजनम् ‍ ॥२९॥

देवपूजादिपदानवृषोत्सर्गीविधिस्तथा । फाल्गुन्युत्सवकं नाम तथान्यः सदनोत्सवः ॥३०॥

भूतमाता च श्रावण्यां रक्षाबंधविधिस्तथा । विधिस्तथा नवम्यास्तु तथा चन्द्रमहोत्सवः ॥३१॥

दीपालिकायां तु होमोलक्षहोमविधि स्तथा । कोटिहोमो महाशीतिर्गणनाथस्य शांतिका ॥३२॥

तथा नक्षत्रहोमोथगोदानावाधरव च । गुडधेनुर्घृतनुस्तिलधेनुव्रतं तथा ॥३३॥

जलधेनुविधिः प्रोक्तो लवणस्य तथापरा । धेनुः कार्या विधिं ज्ञात्वा नवनीतस्य चापरा । सुवर्णधेनुश्व तथा देवकार्य चिकीर्षुभिः ॥३४॥ [ ८१६४ ]

इति श्रीभविष्ये महापुराणे श्रीकृष्णयुधिष्ठिरसंवादे संक्षिप्तानुक्रमणिकाकथनं नामाष्टोत्तरद्विशततमोऽध्यायः ॥२०८॥

समाप्तोऽयं भविष्यपुराणग्रन्थः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP