TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १४७

उत्तर पर्व - अध्याय १४७

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय १४७

श्रीकृष्ण उवाच ॥

श्वेतद्वीपे सुखासीनं देवदेवं जगत्प्रभुम् ‍ । वासुदेवं जगन्नाथं स्थितिंसंयमकारकम् ‍ ॥१॥

परावराणां स्त्रष्टारं पुराणं परमव्य्यम् ‍ । आदिदेवं जगन्नाथं जगतः कारणात्मकम् ‍ ॥२॥

प्रणिपत्य महादेवं चराचरगुरुं हरिम् ‍ । लक्ष्मीः प्रोवाच राजेन्द्र पादसंवाहने स्थिता ॥३॥

भगवन्देवदेवेश भक्तानामनुकंपक । प्रष्टव्यं किंचिदिच्छामि प्रष्टुं प्रश्नाविदांवर ॥४॥

प्रकुरुष्व महाभाग दयां कृत्वा ममोपरि । व्रतं किंचित्कथयमे रुपसौभाग्यदायकम् ‍ ॥५॥

उत्तमे सर्ववर्णानां व्रतानामपि चोत्तमम् ‍ । कृतेन येन देवेश सर्वतीर्थफलं भवेत् ‍ ॥६॥

विष्णुरुवाच ॥

गृहस्थश्वाश्रमाणां च वर्णानां ब्राह्मणोयथा । यथा नदीषु सर्वासु जाह्रवी लोकविश्रुता ॥७॥

ह्रदानामुदधिः श्रेष्ठो देवानां विष्णु रुत्तमः । स्त्रीणां देवी यथा लक्ष्मीस्तथेदं व्रतमुत्तमम् ॥८॥

नगङ्गाकुरुक्षेत्रं नकाशीनचपुष्करम् ‍ । पावनानि महाभागे यथेदं व्रतमुत्तमम् ‍ ॥९॥

गौर्या देवय कृतं पूर्व शंकरेण महात्मना । रामेण सीतया सार्द्धराज्यं प्राप्य कुतं पुरा ॥१०॥

दमयंतीवियोगेन नलेन तु तथा कृतम् ‍ । कृष्णया सहितैः पार्थ पांडवैर्वनवासिभिः ॥११॥

कृतमेतदूव्रतं भद्रे स्वर्गमोक्षप्रदायकम् ‍ । रंभया मेनया वापि पौलोम्या सत्यभामया ॥१२॥

शांडिल्या चाप्यरुंधत्या उर्वश्या देवदत्तया । कृतं व्रतमिदं भद्रं सौभाग्यसुखकाम्यया ॥१३॥

पाताले नागाकन्याभिः कृतमेतत्सुशोभनम् ‍ । गायत्र्या च सरस्वत्या सावित्र्या ब्रह्मभार्यया ॥१४॥

अन्याभिः सर्वनारीभिः सर्वकामफलेप्सुभिः । तस्मात्तेऽहं प्रवक्ष्यामि सर्वपापप्रणशनम् ‍ ॥१५॥

वसुप्रीतिकरं रम्यं व्रतानां परमं श्रृणु । ब्रह्महा मुच्यते पापात्सुरापो वसुहारकः ॥१६॥

गुरुभार्याभिगामी च ह्येतेषां संगमी च यः । मानकूटं तुलाकूटं कन्यावृत्तिर्गवां क्रेता ॥१७॥

अगम्यागमनो यस्तु मांसाशी वृषलीपतिः । कुंडदिभोजी यस्तु स्याद्भूमिहर्ता तथैव च ॥१८॥

एभिः सर्वैर्महापापैर्मुच्यते नात्र संशयः । एभिः स्यान्नरनारीभिः कर्तव्यं व्रतमुत्तमम् ‍ ॥१९॥

अतस्तेऽहं विधिं वक्ष्ये विधानमवधारय । काञ्चख्यापुरी नाम व्रतं त्रैलोक्यविश्रुतम् ‍ ॥२०॥

यः करोति नरो देवि नारी वा भक्तिसंयुता । तस्य पुत्राश्व पौत्राश्व जायते विपुलं धनम् ‍ ॥२१॥

यस्मिन्मासे च कर्तव्यं व्रतमेतच्च सुन्दरि । तस्मिन्मासे च कर्तव्या काञ्चनाख्या पुरी शुभा ॥२२॥

शुल्ककृष्णतृतीयायामेकादश्यां च पूर्णिमाम् ‍ । संक्रातिर्वा महाभागे कुहूर्वाचाष्टमीतिथिः ॥२३॥

पर्वस्वन्येषु सर्वेषु दातव्या काञ्चनी पुरी । व्रती स्त्रात्वा तु पूर्वाह्रे नद्यादौ विमले जले ॥२४॥

मृत्तिकालंभनं कार्य मंत्रेणानेन सुव्रते । उद्धृतासियथापूर्वविष्णुनाक्रोडरुपिणा ॥२५॥

लोकानामुपकारार्थ वंदनासिद्धि कामदा । तस्मात्त्वं वंदिता पापं हर मेऽनेकजन्मजम् ‍ ॥२६॥

मृत्तिकामन्त्रः ॥

आपस्तु विश्वयोनिर्हि विष्णुना निर्मिताः स्वयम् ‍ । सान्निध्यं तीर्थसहितं कर्तव्यं मम सांप्रतम् ‍ । अग्मंत्रः ॥२७॥

अनेन विधिना स्तात्वा यजमानः समाहितः । गृहमागम्य शुद्धात्मा नालेपत्पिशुनान्खलान् ‍ ॥२८॥

पाखंडिनोविकर्मस्थान्धूर्ताकितवाञ्छठान् ‍ । प्रक्षाल्यपाणिवदनं कुर्यात्त्वाचनमनं ततः ॥२९॥

उपवासरय नियमं कुर्यान्नक्तस्य वा पुनः । शंखप्रवरमादाय हेमयुक्तं जलैर्भृतम् ‍ ॥३०॥

द्वादशाक्षरमंत्रेण तज्जलं चाभिमत्रयेत् ‍ । पिबेत्तोयं गृहे गत्वा हरिरित्यक्षरं जपेत् ‍ ॥३१॥

शमीवृक्षमया वेदी चतुःस्तंभसमन्विता । चतुर्हस्तप्रमाणेन कार्य्या चैव सुशोभना ॥३२॥

वस्त्रेणावेष्टिताः स्तंभा वितानवरमंडिताः । पुष्पमालान्विताः कार्या दिव्यधूपधिवासिताः ॥३३॥

मध्ये तु मंडलं कार्ये पद्माख्यं वर्णकैः शुभैः । येन दृष्टेन देवेशि सर्वपापक्षयो भवेत् ‍ । मंडलस्य तु मध्ये वै भद्रपीठं सुशोभनम् ‍ ॥३४॥

आत्तनं तत्रविन्यस्य कोमल्म वस्त्रवेष्टितम् ‍ । तस्योपरि न्यसेद्देवं लक्ष्म्यायुक्तं जनार्दनम् ‍ ॥३५॥

अग्रे तु कलशः कार्यो जलपूर्णः सुशोभनः । क्षीरसागरनामा स कल्पितव्यः प्रयत्नतः ॥३६॥

पंचरत्नसमायुक्तं वस्त्रेणावेष्टयेद्धनम् ‍ । कुम्भं प्रपूर्णमुदकैस्तस्योपरिन्यसेद्‌बुधः ॥३७॥

तस्योपरिष्टात्संस्थाप्य कांचनाख्वां पुरीं शुभाम् ‍ । चतुष्पलाह्युत्तमा स्यादिद्वपला सप्यमाः मृता ॥३८॥

सान्वैकपला कार्या कलशैस्तु समन्विता । मोदकान्स्थापयेद्दिव्यान्समंतात्तुंदराकृतीन् ‍ ॥३९॥

तदग्रे कदलीस्तंभैस्तोरणं परिकल्पयेत् ‍ । चातुश्वरणिकांस्तत्र विप्रानावाह्य सुंअरि ॥४०॥

प्रतिष्ठां कारयेत्तस्या वेदमंत्रैः सुशोभनैः । तस्या मध्ये न्यसेद्विष्णुं हैमं लक्ष्म्या समन्वितम् ‍ ॥४१॥

नेत्रे रत्नमो कार्ये दशना वज्रभूषिताः । मुक्ताफलमयं तस्य भूषणं परिकल्पयेत् ‍ ॥४२॥

अंगं स्वर्णमयं कार्ये शंखचक्रदायुधम् ‍ । पञ्चामृतेन देवेशं स्त्राप्य नारायणं विभुम् ‍ ॥४३॥

तनेव गंधपुष्पाद्यैमंत्रमुच्चार्य पूजयेत् ‍ । ब्राह्मणो वैदिकैर्मत्रैः पूजयेन्मधुसूदनम् ‍ ॥४४॥

शेषावर्णाः पुराणोक्तैस्ताञ्छुणुष्व मम प्रिये । वासुदेवाय पादौ तु गुल्फौ संकर्षणाय च ॥४५॥

त्रैलोक्यजनकायेति जानुनी पूजयेद्धरेः । त्रैलोदयनाथाय गुह्ये ज्ञानमयाय वै कटिम् ‍ ॥४७॥

दामोदरा येत्युदरं हृदयं । विश्वरुपिणे । नित्यं हि पूजयेद्देवि उरः । श्रीवत्सधारिणे ॥४८॥

कंठं कौस्तुभनाथाय आस्यं यज्ञमुखाय च । दैत्यांतकारिणे । बाहू स्वैर्नामै रायुधानि च ॥४९॥

शिरः सर्वात्मने देवि देवदेवस्य पूजयेत् ‍ । श्रियं प्रपूजयेद्देवीं देव्यां मंत्रैः पृथिष्विधैः ॥५०॥

इन्द्रादिलोकपालानां पूजा कार्या यथाक्रमम् ‍ । नवग्रहाणां च होमः कर्तव्यो विघ्ननाशनः ॥५१॥

पूजा गणपतेः कार्या तथा होमं विधानतः । अग्ने नैवेद्यमतुलं दापयेद्‌घृतपाचितम् ‍ ॥५२॥

पायसं घृपुरांश्व मोदकान्पूरिकास्तथा । सोहालिकादिनैवेद्यः फेणिकाः शर्करास्तथा ॥५३॥

देशकालेद्भवान्येव फलानि विनिवेदयेत् ‍ । दीपान्दशदिशो दद्यात्पार्थिवान्रक्तवर्तिकान् ‍ ॥५४॥

एतेन तु विशालाक्षि मूलमंत्रेण दापयेत् ‍ । पुष्पमालान्वितान्कृत्वा चंदनेन विभूषितान् ‍ ॥५५॥

अभिमंत्र्य प्रयत्नेन विष्णुस्तवक वाचकैः । सहस्त्रशीर्षादिभिर्मत्रैर्जप्रद्धिर्ब्राह्मणोत्तसैः ॥५६॥

षोडशाथ सपत्नीकाः पूजयेच्च यथाविधि । भूषयेच्च शुभैर्वस्त्रस्तथालंकरणादिभिः ॥५७॥

विष्णुं मत्वा द्विजः पूज्यो लक्ष्मीं मत्वा च ब्राह्मणीम् ‍ । छत्रंचोपानहंचैवअंगुल्याभरणतथा ॥५८॥

फलानिसप्तधान्यं चः भोजनं च यदीप्सितम् ‍ । दातव्यं च सभार्या कृष्णो मे प्रीयतामिति ॥५९॥

शय्यां सोपस्करां चैव वस्त्रेणाच्छाद्य यत्नतः । तथा प्रकल्पयेद्दित्तशक्त्या च सुंदरी यथा ॥६०॥

व्रते च गौर्देया सर्वोपस्करसंयुता । पुरीं घटापयेत्पूर्व वस्त्रेणाच्छाद्य यत्नतः । तथा क्रुयात्प्रयासेन यथा कर्ता न पश्यति ॥६१॥

दीपांस्तु दीपितांरतत्र आनयेयज्ञमंडपेम् ‍ । श्वेतवस्त्रेण नेत्रेःतु यजमानस्य च प्रिये ॥६२॥

आचार्यः शास्त्रवित्प्राज्ञ आबध्य नयने ततः । आबध्य नेत्रे सुप्राज्ञ आचार्यस्तमिंदं वदेत् ‍ ॥६३॥

सर्वकामप्रदां पश्य कांञ्चनाख्यां पुरीमिमाम् ‍ । वरवस्त्रयुतां रम्यां दुःखदौर्भाग्यनाशिनीम् ‍ ॥६४॥

एवमुक्त्वा महाभागे पटमुन्मुच्य नेत्रयोः । पुष्पांञ्जलिं परौ क्षिप्त्वा स पश्येत्तां पुरीं शुभाम् ‍ ॥६५॥

दृष्ट्वा तां नगरीं देवि यजमानः समाहितः । सौवर्णे पात्रमादाय रौप्यं ताम्रमथापि वा ॥६६॥

अथवा शंखमादायपात्रालाभे तु सुंदरि । पञ्चरत्नं क्षिपेत्पात्रे जलं गाड्गं तथा फलम् ‍ ॥६७॥

सिद्धार्थमक्षतापूर्वेरोचना दधि वा पुनः । ततश्चार्घ्यः प्रदातब्यः कृष्णाय प्रभविष्णवे ॥६८॥

लक्ष्मीनारायणौ देवौ सर्वकामफलप्रदौ । रुक्मपुर्याः प्रदानेन यच्छेतां वांच्छितं मम ॥६९॥

नारायण ह्रषीकेश ज्ञानज्ञेयनिरंजन । लक्ष्मीकांत जगन्नाथ गृहाणार्घ्य नमोस्तु ते ॥७०॥

अर्घमंत्रः ।

एवमर्घ्य ततो दत्वा विष्णवेप्रभाविष्णवे । देव्यास्त्वर्घ्यः प्रदातव्यो भक्तियुक्तेन चेतसा ॥७१॥

जानुभ्यामवनिंगत्वामंत्रमेतभुदीरयेत् ‍ । ब्रह्मणा पूजिता देवी विष्णुना शंकरेण च ॥७२॥

पार्वत्या पूजिता लक्ष्मीः स्कंदवैश्रवणेन च । मयाच पूजिता देवि धर्मस्य विजिगीषया ॥७३॥

सौभाग्यं देहि मे पुत्रान्धनं पौत्रांश्च पूजितान् ‍ । गृहाणार्घ्यं मया दत्तं देवि सौख्यं प्रयच्छ मे ॥७४॥

य एवं पुरतो दत्वा पूर्वोक्तविधिना तव । रात्रौ जागरणं कुर्याद्भक्तियुक्तेन चेतसा ॥७५॥

गीतनृत्यविनोदेन उपाख्यानैश्व वैष्णवैः । येन केन विनोदेन निद्रा नैव प्रजायते ॥७६॥

उन्निद्रो जागरे द्यस्तु शतयज्ञफलं लभेत् ‍ । प्रभाते विमले स्नात्वा संपूज्य पितृदेवताः ॥७७॥

ब्राह्मणांश्व सपत्नीकान्परिधाप्यानुभोजयेत् ‍ । दक्षिणाश्च यथाशक्त्या प्रदाय च क्षमापयेत् ‍ ॥७८॥

दीनांधबधिरान्पंगून्सर्वोस्तान्परितोषयत् ‍ । पश्चात्पारणकं कार्यमुपवासी भवेद्यदि ॥७९॥

मधुरं पयसा युक्तं सुह्रद्भिबांर्धवैः सह । एवमेतद्‍व्रतं कार्यमेकादश्यां शुचिस्मिते ॥८०॥

शुक्लायामथ कृष्णायां तृतीयायां तथा तिथौ । संक्रांतिवासरे वापि व्यतीपाते च वैघृतौ ॥८१॥

यदा वा जायते वित्तं चित्ते च वरवणिंनि । गावः शक्त्या प्रदातव्या कृष्णो मे प्रीयतामिति ॥८२॥

एवं कृते च यत्पुण्यं तन्न शक्यं निवेदितुम् ‍ । अपि वर्षसहस्त्रेण कुललक्षशतैरपि ॥८३॥

कल्पकोटिसहस्त्राणि कल्पकोटिशतानि च । ब्रह्मलोकं समासाद्य प्रतिमोदति ब्रह्मणा ॥८४॥

ब्रह्मलोकाद्रुद्रलोकं तत्परं विष्णुसंनिधौ । इन्द्रादिलोकपालानां व्रती लोकमवाप्नुयात् ‍ ॥८५॥

ततो भुक्त्वा शुचिः श्रीमान्भोगांस्त्रैलोक्यसुंदरि । चक्रवर्ती भवेद्भूमौ ब्रह्मण्यो वैष्णवस्तथा ॥८६॥

य इदं शृणुयान्नित्यं वाच्यमानं समंततः । कुलसप्तकमुद्धृत्य वैष्णवं लोकमाप्नुयात् ‍ ॥८७॥

त्वया कांचनपुर्याख्यं व्रतमेतत्कृतं पुरा । तेन पुण्येन लब्धोऽहं भर्ता त्रैलोक्यपूजितः ॥८८॥ [ ६६४९ ]

इति श्रीभविष्येमहापुराणे श्रीविष्णुलक्ष्मीसंवादे कांचनपुरीव्रतवर्णनं नाम सप्तचत्वारिंशदुत्तरशततमोऽध्यायः ॥१४७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:29.3170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पादनेसे क्य नफा? दिल तरावट गांड सफा

  • (हिं.) अर्थं स्पष्ट आहे. 
RANDOM WORD

Did you know?

गांवे, नद्या, समुद्र, देवदेवता किंवा अन्य नांवांची उत्पत्ती काय असेल? नांवे कशी पडली असतील?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.