संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ११२

उत्तर पर्व - अध्याय ११२

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥ अथातो वृंताकविधिं व्याख्यास्यामः । संवत्सरं च षण्मासांस्त्रीन्मासान्वा न भक्षयेत्‍ । अथ् भरण्यां मघायां वा एकरात्रोपवासं कृत्वा स्थंख्डिले देवानाहूय गंधधूपुष्पनैवेद्यदीपादिनी । दर्भपाणिर्गधोदकेनावाहयेत्‍ । यमराजानमावाहयामि । कालमावाहयामि । नीलमावाहयामि । चित्रगुप्तमावाहयामि । वैवस्वतमावाहयामि । मृत्युमावाहयामि । परमेष्ठित मावाहयामीति । ततोग्निमुपससाधाय  तिलाज्ये जुहुयात्‍ । यमराजाय स्वाहा । कालाय स्वाहा । नीलाय स्वाहा । चित्रगुप्ताय स्वाहा । वैवस्वताय स्वाहा । मृत्यवे स्वाहा । परमेष्ठिने स्वाहेति । अग्निर्मुधैत्याहुतीस्त्वष्टाशतं हुत्वा स्विष्टकृतिं कृत्वा प्रायश्चित्तं हुत्वा ब्राह्मणः स्वयमेवकरोति । इतरेषामाचार्यः । अथ सौवर्ण तृंताकं ब्राह्मणाय निवेदयेत्‍ । कृष्णवृषभं गां च दद्यात्‍ । कर्णवेष्टांगुलीयके च्छत्रोपानहौ कृष्णयुगं कृष्णकंबलं च दद्यात्‍ । ब्राह्मणन्भोजयित्वा आशिषो वाचयेत्‍ । पौंडकाश्वमेधफलसवाप्नोति । सप्तकोटिसहस्त्राणि नाकपृष्टे महीयते । सप्तजन्मांतरं यावद्यमलोकं न पश्यतीत्याह भगवान्बौधायनः । वृंताकमप्रतिहन्तान्तरहेमसिद्धं दद्यादद्विजाय घृततक्रसमन्वितं यः । कृत्वा व्रतं वत्सरमासमेकं याम्यं न पश्यति पुरं पुरुषः कदाचित्‍ १ [४७९०] इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरुंवादे वृंताव्रतविंधि वर्णनं नाम द्वादशोत्तरशतमोऽध्यायः ॥११२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP