TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ५३

उत्तर पर्व - अध्याय ५३

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ५३

युधिष्ठिर उवाच ॥

अध्रुवेण शरीरेण सुपक्कनापि किं फलम् ‍ । माधस्नानविहीनेन यत्त्यक्तं यदुनन्दन ॥१॥

प्रातः स्त्रानासमर्थानां शरीरं पश्य देहिनाम् ‍ । किं तेन वद कर्तव्यं माघे संस्त्रानभारूना ॥२॥

कायक्लेशसहा नार्यो न भवन्ति चदूत्तम । सौकुमार्यं शरीरस्य अचलत्वात्तथैव च ॥३॥

कथं च ताः सूरूपाः स्युः सुभगाः सुप्रजास्तथा । सुकृतस्येह पुण्यस्य सर्वमेतत्फलं यतः ॥४॥

अल्पायासेन सुमहद्येन पुण्यमवाप्यते । स्त्रीभिर्माघे मम ब्रूहि स्त्रानं तत्सुर माधव ॥५॥

श्रीकृष्ण उवाच ॥ श्रूयतां पाण्डवश्रेष्ठ रहस्यमृषिभाषितम् ‍ । यन्मया कस्यचिन्नोक्तमचलासप्तमीव्रतम् ‍ ॥६॥

वेश्या चेन्दुमती नाम रूपौदार्यगुणान्विता । आसीत्कुरुकुलश्रेष्ठ मगधस्य विलासिनी ॥७॥

तनुमध्या सुजघनी पीनोन्नतपयोधरा । सम्यग्विक्तावयवा पूर्णचन्द्रनिभातना ॥८॥

सौन्दर्यं सौकुमार्यं च तस्याः कामेन गीयते । यस्याः संदर्शनादेव कामः कामातुरो भवेत् ‍ ॥९॥

मूर्तिः शशधरस्येव नयनानन्दकारिणी । वशीकरणविद्येव सर्वलोकमनोहरा ॥१०॥

एकस्मिन्दिवसे प्रातःसुमुखस्थितया तया । चिन्तिता हृदये राजन्त्संसारस्यानवस्थितिः ॥११॥

सन्निमज्ज्याज्जगदिंद विषये कायसागरे । जन्ममृत्युजराग्राहं न कश्विदव्रब्बुद्धन्यते ॥१२॥

सुपाको भूतभाण्डानां धातृशिल्पिविनिर्मितम् ‍ । स्वकर्मेन्धनसंवीतं पच्यते बालवह्रिता ॥१३॥

ये यान्ति दिवसाः पुंसां धर्मका मार्थवर्जिताः । न ते पुनरिहायान्ति हरभक्ता नरा यथा ॥१४॥

स्त्रानदानतपो होमः स्वाध्यायः पितृतर्पणम् ‍ । यस्मिन्दिने न क्रियते वृथा स दिवसो नृणाम् ‍ ॥१५॥

पुव्रदारगृहकर्मसमासक्तं हि मानसम् ‍ । वकी वागुरमासाद्य मृत्युद्वाराय गच्छति ॥१६॥

इत्येवं चिन्तथित्वा तु वेश्या चेन्दुमती ततः । वसिष्ठस्याश्रमं पुण्यं जगाम गजगामिनी ॥१७॥

वसिष्ठमृषिमासीनं प्रणम्य विनयात्ततः । कृताञ्जलिपुटं कृत्वा इदं वचनमब्रवीत् ‍ ॥१८॥

इन्दुमत्युव्राच ॥ द्शसूनासमश्वक्री दशचक्रिसमोध्वजः । दशध्वजसमा वेश्या द्शवेश्यासमो नृपः ॥१९॥

मया न द्त्तं न हुतं नोपवासव्रतं कृतम् ‍ । भक्त्या न पूजितः शम्भुः श्रितो नैको धनी नरः ॥२०॥

सांप्रतं वर्तमानाया व्रतं किच्चिद्वदस्व मे । येन दुःखाम्बुपापौघातुत्तरामि भवार्णवात् ‍ ॥२१॥

एतदस्याः सुबहुशः श्रुत्वा धर्मं परन्तपः । वसिष्ठः कथयामास महाकारुणिको मुनिः ॥२२॥

वसिष्ठ उवाच ॥ माघस्य सितसप्तम्यां सर्वकामफलप्रदम् ‍ । तपःसौभारग्यजननं स्त्रानं तव वरानने ॥२३॥

कृत्वा षष्ठन्यामेकभक्तं सप्तम्यां निश्वलं जलम् ‍ । राव्यन्ते चालयेथास्त्व दत्त्वा शिरसि दीपकम् ‍ ॥२४॥

माघस्य सितसप्तम्यामचलं चालितं मया । जलमलानां सर्वेषां कुरु त्वं चालनं तथा ॥२५॥

वसिष्ठवचनं श्रुत्वा तस्मिन्नेवाहनि नृप । सर्वं चकारेन्दुमती स्त्रानं दानं यथाविधि ॥२६॥

व्यहस्त्रानप्रभावेण भुक्त्वा भोग्यान्यथेप्सितान् ‍ । इन्द्रलोकेप्सरःसङ्रघे नायकत्वमवाप सा ॥२७॥

अचलासप्तमीस्त्रानं कथितं च विशाम्पते । सर्वपापप्रशमनं सुखसौभाग्यवर्द्धनम् ‍ ॥२८॥

युधिष्ठिर उवाच ॥ सप्तमीस्त्रानमाहात्म्यं श्रुतं न च विशेषतः । सांप्रतं श्रोतुमिच्छाति विधिमन्व्रसमन्वितम् ‍ ॥२९॥

श्रीकृष्ण उवाच ॥ एकभक्तेन संतिष्ठेत्षष्ठन्यां संपूज्य भास्करम् ‍ । सप्तम्याम तु व्रजेत्प्रातः सुगम्भीरं जलाशयम् ‍ ॥३०॥

सरित्सङगं तडागं च देवखातमथापि वा । सुखावगाहसलिलं दुष्टसत्त्वैरदूषितम् ‍ ॥३१॥

पशुभिः पक्षिभिश्वैव जलजैर्मत्स्यकच्छपैः । न जलं चाल्यते यावत्तावत्स्त्रानं समाचरेत् ‍ ॥३२॥

नमस्ते रुद्ररूपाय रसानां पतये नमः । वरुणाय नमस्तेऽस्तु हरिवास नमोऽस्तु ते ॥३३॥

यावज्जन्म कृतं पापं मया जन्मसु सप्तसु । तन्मे रोमं च शोकं च माकरी हम्तु सप्तमी ॥३४॥

जननी सर्वभूतानां सप्तमी सप्तसप्तिके । सर्वव्याधिहरे देवि नमस्ते रविमण्डले ॥३५॥

जलोपरितरं दीपं स्त्रात्वा संतर्प्य देवताः । दन्दनेन लिखेत्पद्ममष्टपव्रं सकर्णिकम् ‍ ॥३६॥

मध्ये शर्वं सपत्नीकं प्रणवेन नु पूजयेत । भानुं शक्रे दले पूज्य रविं वैश्वानर दले ॥३७॥

याम्ये विवस्वान्नैऋत्ये भास्करस्येति पूजयेत् ‍ । पश्विमे सविता पूज्यः पूज्योर्को वायवे दले ॥३८॥

सौभ्ये सहखकिरणः शेषे सर्वात्मनेति च । पूज्याः प्रणवपूर्वास्तु नमस्कारान्तयोजिताः ॥३९॥

पुष्णैः सुगन्धपैश्व वस्त्रेणाच्छाद्य भास्करस । विसर्जयेत्ततः पश्वात्स्वस्थानं गम्यतामिति ॥४०॥

ताभ्रपाव्रे सुविस्तीर्णे मृन्मथे वा युधिष्ठिर । स्थापयेत्तिलचूर्णं च सघृतं सगुडं तथा ॥४१॥

काञ्चनं तालकं कृत्वा ह्मसिक्तस्तिलचर्णके । संस्थाप्य रक्तवस्त्रैस्तु पुष्पैर्धूपैस्तथार्चयेत् ‍ ॥४२॥

ततस्तं ब्राह्मणे दद्याद्दत्त्वा मन्व्रण तालकम् ‍ । आदित्यस्य प्रसादेन प्रातःस्नानफलं लभेत ‍ ॥४३॥

दुष्टदौर्भाग्यदुःखेभ्यो मया दत्त तु तालकम् ‍ । ततस्तं तालकं कृत्वा ब्राह्यणायोपपादयेत् ‍ ॥४४॥

सपुव्रपशुभृत्याय मेऽर्कोऽयं प्रीयतामिति । ततो व्रतोपदेष्टारं पूजयेद्वस्त्रगोतिलैः ॥४५॥

विप्रानन्यान्यथाशक्त्या पूजयित्वा गृहं व्रजेत् ‍ । एतत्ते कथितं कार्यं रूपसौभाग्यकारकम् ‍ ॥४६॥

अचलासप्रमीस्त्रानं सर्वकामफलप्रदम् ‍ ॥४७॥

इति पठति य इत्थं यः शृणोति प्रसङगत्कलिकलुषहरं वै सप्तमीस्त्रानमेतत् ‍ । मतिमपि च जनानां यो ददात प्रसङ्गात्सुरभवनगतोऽसौ पूज्यते देवसङ्‍घैः ॥४८॥ [ २१३३ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽचलसप्तमीव्रतविधिवर्णनं नाम व्रिपञ्चाशत्तमोऽध्यायः ॥५३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:23.7400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

offset printing

  • प्रतिरुप मुद्रण 
RANDOM WORD

Did you know?

शंखनादाविषयी कांही माहिती पाहिजे.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.