TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १५२

उत्तर पर्व - अध्याय १५२

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय १५२

श्रीकृष्ण उवाच ॥

अथातः संप्रवक्ष्यामि धेनूनां कल्पना नृप । विशेषविधिना याश्व देयाः कामानभीप्सुभिः ॥१॥

सांगं यद्दीयते दानं समग्रं तत्सुखावहम् ‍ । असमग्रं तु दोषाय भवतीह परत्र च ॥२॥

तस्मान्न दक्षिणाहीनं विधानविकलं तथा । देयं दानं महाराज समग्रफलकाभ्यया ॥३॥

अन्यथा दीयमानं तदहंकाराय केवलम् ‍ । प्रत्यक्षं चार्थहानिःस्यान्न वा तत्फलदं भवेत् ‍ ॥४॥

तिल धेनुं प्रवक्ष्यामि शृणु पार्थिवसत्तम । वाराहेण पुरा प्रोक्तां महाप तकनाशिनीम् ‍ ॥५॥

यां दत्वा ब्रह्महा मोघ्नः पितृहा गुरुतल्पगः । अगारदाही गरदः सर्वपापरतोपि वा ॥६॥

महापातकयुक्तश्व संयुक्तश्वोपपतकैः । मुच्यते ह्यखिलैः पापैः स्वर्गलोकं च गच्छति ॥७॥

अनुलिप्ते महीपृष्ठे कृष्णा जिनसमावृते । धेनुं तिलमया कृत्वा दर्भानास्तीर्य सर्वतः ॥८॥

तिलाः श्वेतास्तिलाः कृष्ण स्तिला गोमूत्रवर्णकाः । तिलानां च विचित्राणां धेनुं सर्वा च कारयेत् ‍ ॥९॥

द्रोणस्य वत्सकं कुर्याच्चतुराढ किकां च गाम ‍ । स्वर्णश्रृंगी रौप्यखुरां गंधवर्णवतीं तथा ॥१०॥

कार्या शर्करया जिह्रा गुडेनास्यं च कंबलम् ‍ ॥ इक्षुपादां ताम्रपृष्ठींशुक्तिमुक्ताफलेक्षणाम् ‍ ॥११॥

प्रशस्तपत्रश्रवणां फलदंतवतीं शुभाम् ‍ । स्त्रग्दामपुच्छां कुर्वीत न वनीतस्तनान्विताम् ‍ ॥१२॥

सितवस्त्रशिरालंवां सितसर्षपरोमिकाम् ‍ । फलैर्मनोहरैरन्नैर्मणिमुक्ताफलान्विताम् ‍ ॥१३॥

ईदृक्संस्थानसंपन्ना कृत्वा श्रद्धासमन्वितः । कांस्योपदोहनां दद्यात्पर्वकाले समागते ॥१४॥

या लक्ष्मीः सर्वभूतानां या वै देवेष्ववस्थिता । धेनुरुपेण सा देवी मम पापं व्यपोहतु ॥१५॥

ततः प्रदक्षिणां कुत्वा पूजयित्वा प्रणम्य च । सदक्षिणा मया तुभ्यं दत्ते त्युक्त्वा विसर्जयेत् ‍ ॥१६॥

अनेन विधिना दत्वा तिलधेनुं नराधिष । सर्वपापविनिर्मुक्ता परं ब्रह्माधिगच्छति ॥१७॥

यश्व गृह्यति विधिवद्दीयमानां प्रमोदते । दीयमानां प्रशंसति ये च संहृष्टमानसः ॥१८॥

तेपि दोषविनिर्मुक्ता ब्रह्मलोकं व्रजंति ते । प्रशांताय सुशीलाय वेदव्रतरताय च ॥१९॥

धेनुं तिलमर्यी दत्वा न शोचति कृताकृते । त्रिरावं यस्तिलाहारस्तिलधेनुप्रदो भवेत् ‍ ॥२०॥

एकाहमथवा राजन्नयुच्छेदंतरात्मना । दानाद्विशुद्धिः पापस्य तस्य पुण्यवतो नृप ॥२१॥

चान्द्रायणादभ्यधिकं कथितं तिलभक्षणम् ‍ । बालत्वे चैव यत्पापं यौवनें वार्द्धके तथा ॥२२॥

वाचाकृतं तु मनसा कर्मणा यच्च संचितं । उदकष्ठीवने चैव नग्नस्नानेन यद्भवेत ॥२३॥

मुशलेनोद्यतेनापि लंबिते ब्राह्मणे तथा । वृषलीगमने चैव गुरुदाराभिगामिनी ॥२४॥

सुरापानेन यत्पापमभक्षयस्य च भक्षणात् ‍ । तत्सर्वं विलयं याति तिलधेनुनुप्रदायिनी ॥२५॥

यममार्गे महाघोरे नदी वैतरणी स्मृता । वालुकायाः स्थलं चैव पच्य़ंते यत्र पापिनः ॥२६॥

यत्र लोहमुखाहाः काका यत्रश्वानो भयावहाः । निकृत्य पापिनां मांसं भक्षयंति बुभुक्षिताः ॥२७॥

असिपत्रवनं चैव लोहकंटकशाल्मलीम् ‍ । एतान्सर्वानतिक्रम्य ततो यमपुरं व्रजेत् ‍ ॥२८॥

विमाने कांचने दिव्ये मणिरत्नाविभूषिते । तत्रारुह्य नरश्रेष्ठो गच्छते पर माङ्गतिम् ‍ ॥२९॥

गुणहीने न दातव्या न दातव्या धनेश्वरे । कुण्ड गोले च लुब्धे च न च देया कदापि सा ॥३०॥

एका एकस्य दातव्या मुनिभिः कथितं पुरा अरण्ये नैमिषे पार्थ नारदेन निवेदितम् ‍ ॥३१॥।

तत्तेहं संप्रवक्ष्यामि सम्यक्फलसहस्त्रदम् ‍ । इदं पुण्यं पवित्रं च माङ्गल्यं कीर्तिवर्धनम् ‍ ॥३२॥

विप्राणां श्रावयेच्छ्राद्धे अनन्तफलमश्रुते । वहूनां न प्रदेयानि गौर्गृहंशयनंस्त्रियः ॥३३॥

विभज्यमानान्येतानि दातारं पातयंत्यधः सा तु विक्रयमापन्ना दहत्यासप्तमं कुलम् ‍ ॥३४॥

अस्या दानप्रभावेन विमानं सर्वकामिकं । समारुह्य नरो याति यत्र देवो हरिः स्वयम् ‍ ॥३५॥

एषाचैव प्रदातव्या प्रयतेनान्तरात्मना । पौर्णमास्यां च माघस्य कार्तिक्यां चैव भारत ॥३६॥

चन्द्रसूर्योपरागे तु विषुवेअयने तथा । षडशीतिमुखे चैव व्यतीपाते तु सर्वदा ॥३७॥

वैशाख्या मार्गशीर्ष्या बागजच्छायासु चैव हि । एषा ते कथिता पार्थ तिलधेनुर्मयानघ ॥३८॥

यावंति धेनोरोमाणि गात्रेषु नृपपुङ्गत्व । तावद्वर्षसहस्त्राणि तदा स्वर्गे महीयते ॥३९॥

यश्व गृह्याति विधिवद्दीयमानां च पश्यति । अनुमोदयते चैव ते सर्वे स्वर्गगामिनः ॥४०॥

धेनुं धनाधिपतयोमगधोद्भवेन मानेन ये तिलमयीं चतुराढकेन । कृत्वा यथोक्तरचनां कृतचारुवत्सां यच्छंति ते भुवि विमुक्तपापाः ॥४१॥

प्रतिगृह्रामि देवि त्वां कुटुंबभरणाय च । कामानयादयास्माकं घेनो त्वं सर्वदा हासि ॥४२॥ [ ६७६७ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तिलधेनुदानव्रतविधिवर्णनं नाम द्विपंचाशदुत्तरशततमोऽध्यायः ॥१५२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:29.5830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

apparent angle

  • आभासी कोन 
RANDOM WORD

Did you know?

हिंदू धर्मात स्त्रियांना उपनयनाचा धर्मसंमत अधिकार का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site