TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ९५

उत्तर पर्व - अध्याय ९५

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ९५

युधिष्ठिर उवाच ॥

लोके प्रसिद्धाः श्रूयंते श्रवण्योमामदेवताः। एताः काः किं च कुर्वंति धर्मं चासां ब्रवीहि मे ॥१॥

श्रीकृष्ण उवाच ॥ विद्यंते देवताः पुण्याः श्रवण्यो नाम पांडव । ब्रह्मणा प्रथमं सृष्टा नियोगं च जने कृतम् ‍ ॥२॥

यो यं वदति लोकेऽस्मिञ्छुभं वाप्यथवाशुभम् ‍ । श्राणयंति हितं शीघ्रं ब्राह्मणः कर्मगोचरम् ‍ ॥३॥

जातास्त्रिलोकेपूज्यास्तुनियमेनप्रजायते । दूराच्छ्रवणाविज्ञानं दूराद्दर्शनगोचरम् ‍ ॥४॥

तासामस्तहि सा शक्तिरचिन्त्या तर्कहेतुभिः। नरैस्तुष्टैश्व यत्प्रोक्तं कार्याकार्यस्य कारणात् ‍ ॥५॥

तं शृण्वंति यतः पार्थ नैकाश्रावणिका मताः। तथा देवा यथा दैत्या यथा विद्याधरा नराः ॥६॥

यथाहिसिद्धगन्धर्वानागाःकिंपुरुषाः खगाः। राक्षसाश्व पिशाचाश्व देवानामष्टयोनयः ॥७॥

तथैताः पुण्यनामानो वंद्याः श्रावणिकाःस्मृताः । ताः समुद्दिश्य कर्तव्यं व्रतं नारीनरैरिह ॥८॥

किंतु तासां महोग्रं तु व्रतं संयमनं तदा । आघ्राय धूपं पक्वास्त्रं जलं नाघ्रेयमेव च ॥९॥

दातव्यं पुनरन्यासां गारीणां भोज्यपारणा । अदत्वा यदि मृत्युः स्यादंतरालेपि पाण्डव ॥१०॥

तदालग्नग्रहैर्ग्रस्तापीडिता हि भवन्ति ते । सफेनिलैर्मुखैरौद्रैभ्रियंतेतीवदुःखिताः ॥११॥

श्रूयंते हि पुरा षार्थ पृथिव्यां नहुषो नृपः । तस्य भायी महादेवी जयश्रीर्नाम भारत ॥१२॥

रत्यक्षरूपसंपन्न दर्शनीयतराशुभा । पीवरोरुस्तना श्यामा मृवुकुञ्चितमुर्द्धजा ॥१३॥

शब्दगद्नदसंभाषामत्तमःतंगप्रामिनी । यथारूपा तथाशीला सती चेष्टा महीतले ॥१४॥

सा काचिद्नता स्त्रातुं गंगायां साश्रमे मुनेः । वसिष्ठस्य ददर्शाथ सतीं भार्यामरुंधतीम् ‍ ॥१५॥

भोजयंतीमुनीनां तु पत्न्यो नानान्नभोजनैः । तया चा प्रणिपत्याथ पृष्टा देव्या महासती ॥१६॥

पूज्यं भगवतिब्रूहि किमेतद्‍व्रतमुच्यते । अरून्धत्युवाच ॥ जयश्रिये शृणुष्व त्वं नान्माश्रवणिका ब्रतम् ‍ ॥१७॥

एतद्धर्व्रा समाख्यातं वसिष्ठेन महर्षिणा । गूढं ब्रह्मर्षिसर्वस्वं सुपतिव्रतकं शुभम् ‍ ॥१८॥

गच्छ वा तिष्ठ वा राज्ञि तवातिथ्यं करोम्यहम् ‍ । एवमुक्ता जयश्रीस्तु भोज्ये तस्मिन्यद्दच्छया ॥१९॥

बुभजे सापि तव्रैव अरुंधत्या कृतादरात् ‍ । भुक्त्वाचम्य जगामाथ स्वपुरे परमेश्वरम् ‍ ॥२०॥

कालेन विस्मृतं तस्यास्तद्‍द्वतं तस्य भोजने । ततस्तु समये पूर्णे भ्रियमाणा महासती ॥२१॥

जयश्रीर्घर्घरांगं तु कुर्वाणा कंठगद्नदम् ‍ । फेनं लालाविलाद्वक्व्रादुद्निरंती मुहुर्मुहुः ॥२२॥

स्थिता पंचदशाहानि बभित्सा दारुणानना । ततः षोडशमे प्राप्ते दिने स्वयमरुंधती ॥२३॥

प्रविश्याभ्यंतरं पुर्णं तांराज्ञीमलोक्य च । नहुषाय समाचख्यौ यदुकं श्रवणीव्रते ॥२४॥

तच्छुत्वा नहुषो राजा द्रुतं भोज्यं प्रचक्रमे । यथोक्तं तदरुंधत्या यच्च यावभीप्सिम् ‍ ॥२५॥

दत्त्वा च कारकानष्टौ तामुद्दिश्य जयश्रियम । क्षनाज्जगाम पञ्चत्वं करकाणां प्रदानतः ॥२६॥

जगाम शक्तलोकं सा विमानेनार्कवर्चसा । दोधूयमानाचमरैः स्तूयमाना सुरासुरैः ॥२७॥

मार्गशीर्षादिमासेषु द्वादशस्त्रपि पांडव । द्रव्यप्राप्तिश्व भक्तिश्व दानकालेप्रशस्यतै ॥२८॥

भुक्त्वा यज्ञे चतुर्दश्यामष्टम्यां वायुधिष्ठिर । व्रती स्त्रात्वा तु पूर्वाह्वे नद्यादौ विमले जले ॥२९॥

आमंव्रयेद्दशैकैका नारीर्गौरीस्वरूपिणीः । सदाचाराः सुर्वषाश्व ब्राह्मण्यो वा स्वगोव्रजाः ॥३०॥

द्वादशब्रह्मणांस्तव्र वेदवेदांगपारगान् ‍ । मव्रज्ञानितिहासज्ञानु दशांताञ्जितोन्द्रियान् ‍ ॥३१॥

सर्वं दद्याद्विधानेन पादक्षालनपूर्वकम् ‍ । चंदनेन सुगन्धेन पुष्पधूपादिना तथा ॥३२॥

ग्रीवासूव्रकसिंदूरकुंकुमेन च भूषयेत् ‍ । तासामग्रे प्रदातव्या वर्द्धन्यो द्वादशैव तु ॥३३॥

अच्छिद्राजलपूर्णास्तुसुवृत्ताः सूव्रवेष्टिताः । सोहालकादिभिश्र्छन्नः पुष्पमालाविभूषिताः ॥३४॥

चंदनेन समालब्धाः सहिरण्याः पृथक्पृथक ‍ । तन्मध्ये वर्द्धनी चैका स्वके शीर्पे निवेशयेत ‍ ॥३५॥

स्थित्वा मण्डलके मध्ये यजमानः स्वयं तदा । यद्वाल्ये यच्चकौमारे वार्द्धके वापि यत्कृतम् ‍ ॥३६॥

तत्सर्वं नाशमायात पितृदेवर्षिणाम् ‍ नृणाम् ‍ । स्वार्ण तारक महाराज तारयरव भवार्णवात् ‍ ॥३७॥

अद्याहं गंतुमिच्छाभि विष्पोः पदमनुत्तमम् ‍ । एवमस्त्विति ता ब्रूयुः स्त्रियः सर्वा युधिष्टिर ॥३८॥

ततो ब्राह्मणमाहूय यजमान इदं वदेत् ‍ । ब्रूहि ब्राह्मण यन्मे त्वमघं येन क्षयं व्रजेत् ‍ ॥३९॥

उत्तीर्य श्रावणामेतां समुत्तारय सांप्रतम् ‍ । उत्तारयीत मंव्रेण ब्राह्मणोवर्धनीं चताम् ‍ ॥४०॥

उपोष्य शिरसो देव्याः समुत्तीर्य रुहद्रुमान् ‍ । कटुकं निंबवृक्षं वा ततोमधुकमारुह ॥४१॥

ततो गच्छमहादेवं श्रवणे श्रव्रणोत्तमे । वर्धनिकोत्तारनमंव्रः । एवं ताः समयं प्रोक्त्वा दत्त्वाशीर्वचनानि च ॥४२॥

तां वर्द्धनिकामेकान्ते विप्राय प्रतिपादयेत् ‍ । गृहीत्वा करकान्नार्य्यो व्रजेयुः स्वेषु वेश्मसु ॥४३॥

यजमानोऽपि यातासु यथेष्टं काममाचरेत् ‍ । एवमाचरते पार्थं भ्रावणीव्रतमादरात् ‍ ॥४४॥

तस्य काले तु संप्ताप्ते सुखं मृत्युः प्रजायते । निर्व्याधिनींरुजो भोगी स्थित्वा स्थित्वा शतं सुखम् ‍ ॥४५॥

प्रव्रुपौव्रसमृद्धन्यादि भुक्त्वा मर्त्यसुखानि च । रुद्रलोकमवान्पोति सोमलोकं स गच्छति ॥४६॥

स्त्रीणां तुल्यं स हीनोऽपि व्रती व्रतफलं भवेत् ‍ । गौरीभोज्येषु दत्तेषु एकादशसु यत्फलम् ‍ ॥४७॥

तदेकेनापि लभते पार्थ श्रवणिकाव्रते । भक्त्वा गच्छंति ते लोकान्विह्रत्य सुखमादरात् ‍ ॥४८॥ [ ४०५७ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे श्रवणिकाव्रते नाम पंचनवतितमोऽध्यायः ॥९५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:26.1000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सप्त पर्ण

  • एक खाद्य. 
  • द्राक्षें, 
  • डाळिंब, 
  • खजूर, यांचा रस. 
More meanings
RANDOM WORD

Did you know?

नैमित्तिक पूजा म्हणजे काय? त्या कोणकोणत्या?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site