TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ३७

उत्तर पर्व - अध्याय ३७

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ३७

युधिष्ठिर उवाच ॥

कथमासाद्यते लक्ष्मीर्दुर्लभा भुवनव्रये । दानेन तपसा वापि व्रतेन नियमेन वा ॥१॥

जपहोमनमस्कारैः संस्कारैर्वा पृथग्विधैः । एतद्वद यदुश्रेष्ठ सर्वविस्वं मतो मम ॥२॥

श्रीकृष्ण उवाच ॥ भृगोः ख्यात्यां समुत्पन्न पूर्वं श्रीः श्रूयते शुभा । वासुदेवाय सा दंत्ता मुनिना मानवृद्धये ॥३॥

वासुदेवोऽपि तां प्राप्य पीनोन्नतपयोधराम् ‍ । पद्मपव्रविशालाक्षीं पूर्णचन्द्रनिभाननाम् ‍ ॥४॥

भाभासितदिगाभोगां साक्षाद्भानोः प्रभामिव । नितम्बाडमबरवतीं मत्तमातङ्ग्गाभिनीम् ‍ ॥५॥

रेमे सह तया राजन्विभ्रमोद्‍भ्रान्तचित्तया । सा च विष्णुं जगज्जिष्णुं पतिं व्रिजगतां पतिम् ‍ ॥६॥

प्राप्य कृतार्थमात्मानं मेने मानयशोधना । ह्रष्ट पुष्ट जगत्सर्वमभवद्भावितं तया ॥७॥

लक्ष्म्या निरीक्षित चैव सानन्दं हि महीतलम् ‍ । क्षेमं सुभिक्षमारोग्यमनाक्र्न्दमनाकुलम् ‍ ॥८॥

जगदासीदनु दूभ्रन्तं प्रशान्तोपद्रवं तथा । दिवि देवा मुमुदिरे दानवा दैत्यमानवाः ॥९॥

विस्फरितफणाभोग नागाश्वैव रसातल । क्षिप्तं हि ब्राह्मणैर्वह्रौ भुज्यते व्रिदिवैर्हविः ॥१०॥

चातुर्वर्ण्यमसंकीर्णं पाल्यते पार्थ पार्थिवैः । विरोचनपभृतिभिहष्टवैवं दैत्यसत्तमैः ॥११॥

तपस्तप्तुमथारब्धमग्निमाश्रित्य संयतैः । सोममंस्थाहाविसस्थापाकसंस्थादिभिर्मखैः ॥१२॥

सदाचारैः समारब्धमिष्टं स्वेष्टाभिलाषिभिः । एवं धर्मप्रवानैस्तैर्वेदवादरतात्मभिः ॥१३॥

जगदासीत्समाक्रान्तं विक्रमेण क्रमेण तु । लक्ष्मीविलासप्रभवो देवानामभदन्सदः ॥१४॥

मदाच्छीलं च शौचं च सत्यं सद्यो व्यनीनशन् ‍ । सत्यशौचविहीनांस्तान्देवान्संत्यज्य चञ्चलान् ‍ ॥१५॥

जगाम दानवकुलं कुलदेवानुरागतः । लक्ष्म्या भावितदेहैस्तैः पुनरुद्धतमानरौः ॥१६॥

व्यबहर्तुं समारब्धमन्यायेन मदोद्धतैः । वयं वेदा वयं यज्ञा वयं विद्या वयं जगत् ‍ ॥१७॥

ब्रह्यविष्णुशंकराद्या वयं सर्वे दिवौकसः । अहंकारविमूढांस्ताञ्ज्ञात्वा दानवसत्तमान् ‍ ॥१८॥

सागरं सा विवेशाथ भ्रान्तचिता भृगीः सुत्ता । क्षीराब्धिमध्यगतया लक्ष्म्या क्षीणार्थसंचयाः ॥१९॥

निरानन्दगतश्रीकमभवद्भुवनव्रयम् ‍ । गतश्रीकमथात्यानं मत्वा शम्बरसूदनः ॥२०॥

पपच्छाङ्रिरसं विप्रं ब्रूहि किञ्चिद्‍व्रतं मम । येन संप्राप्यते लक्ष्मीलब्धा न चलते पुनः ॥२१॥

निश्वलापि सूह्यन्मिव्रैर्भोग्या भवति सा मुने । न सा श्रीत्यभिमन्तव्या कन्या सा पाल्यते गृहे ॥२२॥

परार्थं या सुह्यष्मिव्रभृत्यैर्नैवोपभुज्यते । शक्रस्यैतद्वचः श्रुत्वा बृहस्पतिरुदारधीः ॥२३॥

कथयामास संचिन्त्य शुभं श्रीपञ्चमीव्र्तम् ‍ । यत्पुरा कस्यचित्प्रोक्तं व्रतानामुत्तम व्रतम् ‍ ॥२४॥

तदस्मै कथयामास सरहस्यमशेषतः । तच्छुत्वा कर्तुमारब्धं सुरेशेन सुरैस्तथा ॥२५॥

दैत्यदानवगन्धर्वैर्यक्षैः प्रक्षीणकल्मषैः । सिद्धैः प्रसिद्धचरितैर्विष्णुना प्रभविष्णुना ॥२६॥

ब्राह्मणैर्ब्रह्यतत्त्वज्ञैः समर्थैः पार्थिवैः सहा । कैश्वित्सात्त्विकभावेन राजसेनापरैरपि ॥२७॥

तामसेन तथा कैश्वित्कृतं व्रतमिदं तथा । व्रते समाप्ते भूयिष्ठे निष्ठया परया प्रभो ॥२८॥

देवानां दानवानां च युद्धमासीदथोद्धतम् ‍ । निर्मथ्य भुजवीर्येण सागरं सरितां पतिम् ‍ ॥२९॥

समाहरामो ह्यमृतं हिताय व्रिदिवौंकसाम् ‍ । इत्येवं समयं कृत्वा ममन्थुर्वरुणालयम् ‍ ॥३०॥

मन्थान मन्दर कृत्वा नेव्रं कृत्वा तु वासुकिम् ‍ । मथ्यमानलाज्जातश्वन्द्रः शीतांशुरुज्ज्वलः ॥३१॥

अनन्तरं समुत्पन्न लक्ष्मीः क्षीराब्धिमध्यतः । तया विलोकिताः सर्वे दैत्यदानवसत्तमाः ॥३२॥

आलोक्य सा जगामाशु विष्णोर्वक्षःस्थलं शुभम् ‍ । विधिना विष्णुना चीर्णं व्रतं तेनाब्धिसभवा ॥३३॥

शरीरस्था बभूवास्य विभ्रमोद्‍भ्रान्तलोचना । किं च राजसभावेन शक्रेणैतत्कृतं यतः ॥३४॥

ततस्त्रिभुवनैश्वर्यं प्राप्तं तेन महर्द्धिकम् ‍ । तमसावृतचित्तैस्तु संचीर्णं दैत्यदानवैः ॥३५॥

तेन तेषामथैश्वर्यं द्दष्टिनष्टमभूत्किल । एवं सश्रीकमभवत्सदेवासुरमानुषम् ‍ ॥३६॥

जगच्च जगतां श्रेष्ठ व्रतस्यास्य प्रभावतः । युधिष्ठिर उवाच ॥ कथमेतद्‍व्रतं कृष्ण क्रियते मनुजैः कदा ॥३७॥

प्रारभ्यते पार्यते च सर्वं वद यदूत्तम ॥ श्रीकृष्ण उवाच ॥ मार्गशीर्षे सिते पक्षे पञ्चभ्यां पतगोदये ॥३८॥

उपवासस्य नियमं कुर्यादाशु सुहृद्धृदि । स्वर्णरौप्यारकूटोत्था त्ताभ्रमृत्काष्ठजाथवा ॥३९॥

चिव्रपद्वगतां देवीं लक्ष्मीं क्ष्मापाल कारयेत् ‍ । पद्महस्तां पद्मवर्णां पद्मां पद्मदलेक्षणाम् ‍ ॥४०॥

दिग्गजन्द्रैः स्त्राप्यमानां काञ्चवैः कलशोत्तमैः । ततो यामव्रये जाते निन्नगायां गृहेऽथवा ॥४१॥

स्त्रानं कुर्यादसंभ्रात शक्रवदुपचारतः । देवान्पितृंश्व संतप्य ततो देवगृहं व्रजेत् ‍ ॥४२॥

तव्रस्थां पूजयेद्देवीं पुष्णैस्तत्कालसंभवेः । चपलायै नमः पादौ चञ्चलायै च जानुनी ॥४३॥

कटिं कमलवासिन्यै नामिं ख्यात्यै नमो नमः । स्ततौ मन्मथवासिन्ये ललितापै भुजद्वयम् ‍ ॥४४॥

उत्कण्ठितायै कण्ठं च म धव्यै मुखमण्डलम् ‍ । नमः श्रियै शिरः पूज्य दद्याभ्रैवेद्यमादरात् ‍ ॥४५॥

फलानि च यथालाभं व्रिरूढान्धान्यसंचयान् ‍ । ततः सुवासिनी पूज्या कुसुमैः कुङ्कमन च ॥४६॥

भोजयेन्मधुरान्नेन प्रणिपत्य विसर्जयेत् ‍ । ततस्तु तन्दुलप्रस्थं घतपाव्रेण संयुतम् ‍ ॥४७॥

ब्राह्मणाय प्रदातव्यं श्रीशः संप्रीयतामिति । निर्वर्त्य तदशषेण ततो भुञ्जीत वाग्यतः ॥४८॥

मासानुमासं कर्तव्यं विधिनानेन भारत । श्रीर्लक्ष्मीः कमला संपदुमा नारायणी तदा ॥४९॥

पद्मा धृतिः स्थितिः पष्टिऋद्धिः सिद्धिर्यथाक्रमम् ‍ । मासानुमासं राजेन्द्र प्रीयतामिति कीर्तयेत् ‍ ॥५०॥

ततश्व द्वाद्शे मासि संप्राप्ते पञ्चमे दिने । वस्त्रमण्डपिकां कृत्वा पुष्पगन्धाधिवासिताम् ‍ ॥५१॥

शय्यायां स्थापयेल्लक्ष्मीं सर्वोपस्करसंयुताम् ‍ । मैक्तिकाष्टकसंयुक्तां नेव्रपद्दावृतस्तनीम् ‍ ॥५२॥

सप्तधान्यसमोपेतां रसधातुलमन्विताम् ‍ । पादुकोपानहच्छव्रभाजनासनसत्कृताम् ‍ ॥५३॥

दद्यात्संपूज्य विधिवद्‍ब्राह्मणाय कुटुम्बिने । व्यासाय वेदविदुषे यस्य वा रोचते स्वयम् ‍ ॥५४॥

सोपस्करां सवत्सां च धनुं दत्वा क्षमापयेत् ‍ । क्षीराव्धिमधनोद्भते विष्णार्व्रक्षःस्थलालय ॥५५॥

सर्वकामप्रदे देवि ऋद्धिं यच्छ नमोऽस्तु ते । ततः सुवासिनीः पूज्य वस्त्रैराभरणैः शुभैः ॥५६॥

भोजयित्वा स्वयं पश्वाद्भृञ्जीत सहबन्धुभिः एवं यः कुरूते पार्थ भक्त्या श्रीपञ्चमीव्रतम् ‍ ॥५७॥

अस्य श्रीर्भवने भाति कुलानामेकव्रिंरातिः । नारी वा कुरुते या तु प्राप्यानज्ञां स्वभर्तृतः ॥५८॥

सुभगा दर्शनीया च बहुपुव्रा च जायत ॥५९॥

श्रीपञ्चमीव्रतमिदं दयितं मुरारेर्भक्त्या समाचरति पूज्य भृगोस्तनूजाम् ‍ । राज्य निजं स भवि भव्यजनोपभोगान्भुक्त्वा प्रयाति भुवनं सधुसूदनस्य ॥६०॥ [ १७७० ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयधिष्ठरसंवादे पञ्चमीव्रतकल्पे श्रीपञ्चमीव्रतभिरूपणम नाम सधव्रिंशत्तमोऽध्यायः ॥३७॥

इति पञ्चभीकल्पः समाप्तः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:22.8800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

erythric acid

  • एरिथिक आम्ल 
RANDOM WORD

Did you know?

सोळा मासिक श्राद्धें कोणती ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site