TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ६४

उत्तर पर्व - अध्याय ६४

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ६४

श्रीकृष्ण उवाच ॥

पार्थपार्थिववृन्दानां मुखपङ्कजसद्रवे । शृणुष्वावहितो वच्मि तवाशादशमी व्रतम् ‍ ॥१॥

नलनामाभवत्पूर्वं निषधेषु मषीपते । स भ्रावा निहितो राज्ये पुष्करेणेति नमः श्रुतम् ‍ ॥२॥

अक्षैर्द्युतेन राजेन्द्र निर्ययौ भार्यया सह । वनं प्रतिभयं शून्यं झिल्लीकगणनादितम् ‍ ॥३॥

सगत्वा प्रत्यहोराव्रं जलमव्रिण वर्तयन् ‍ । ददर्श वनमध्यस्थाञ्छकुनीन्काञ्चनच्छवीन् ‍ ॥४॥

ग्रहीतुमिच्छस्तान्राजन्समाच्छाद्य स्ववाससा । समपेतुः खगास्तूर्णं गृहीत्वा वसनं शुभम् ‍ ॥५॥

आससाद सभां काञ्चिद्भतवासाः सुदुःखितः । दमयन्तीं सभां प्राप्य निद्रयापह्रतां सदा ॥६॥

दुःखादुत्सृज्य गतवऽन्भाग्यतः प्रारधनेश्वरः । गते तु नैषधे भैमी प्रबुद्धे वाञ्चितानना ॥७॥

अपश्यन्तीनलं वीरं वीर भीमसुता वने । इनश्वेतश्व बभ्राम हाहेति रुदते मुहुः ॥८॥

दुःखशोकसमाक्रान्ता बलदर्शनलालसा । आससाद दिनैः कैश्वित्सा चैद्यपुरमञ्जसा ॥९॥

उन्मत्तवत्परिवृता शिशुभिः कौतुकाकुलैः । सा द्दष्टा चेदिराजस्य जनन्या जनवेष्टिता ॥१०॥

चन्द्रलेखेव पतिता भूमौ भासितदिङमुखा आरोप्य । सा स्वभवन पृष्टा का त्वं वरानने ॥११॥

उवाच भैमी सव्रीडं सैरन्ध्रीं मां निबोधत । न धावयेयं चरणौ नोच्छिष्ट भक्षयाम्यहम् ‍ ॥१२॥

यदि प्रार्थयते कश्विद्दण्डन्यस्ते सांप्रतं भवेत् ‍ । प्रतिज्ञयानया देवि तिष्ठेयं तव वेश्यनि ॥१३॥

एवमस्त्वनवद्याङ्गि राजमाताप्युवाच ताम् ‍ । एवंविधा तद्भवने कञ्चित्कालमनिन्दिता ॥१४॥

उवास वसनार्द्धेन प्रवृ तान्ते किल द्विजः । आनयामास मुदितो दमयन्तीं गृहं पितुः ॥१५॥

माव्रा पिव्रा समायुक्ता सुतैर्भ्रातृभिरेव च । दमयन्ती तथाप्यास्ते दुःखं नैषधवर्जिता ॥१६॥

प्रोवाच विमनाहूय व्रतं दानमथापि वा । कथयध्वं यथा मे स्यादिष्टेन सह सङ्गमः ॥१७॥

तव्रेतिहासकुशलो विप्रः प्रोवाच बुद्धिमान् ‍ । भद्रे त्वमाशादशमीं कुरुष्वेप्सितसिद्धिदाम् ‍ ॥१८॥

चकार सर्वं तन्वङ्गी यत्पुराणविदा तदा । ख्यातमाख्यानविदुषा दमनेन पुरोधसा ॥१९॥

व्रतस्यास्य प्रभावेन दमयन्त्या नरोत्तम । संजातः सुखदोऽत्यर्थं भर्व्रा सह समागमः ॥२०॥

युधिष्ठिर उवाच ॥ कथमाशादशम्येषा गोविन्द क्रियते कदा । सर्वमेतत्समाचक्ष्व सर्वज्ञोऽसि ह यादव ॥२१॥

श्रीकृष्ण उवाच ॥ राज्याशयो राजपुव्रः कृष्यर्थं तु कृषीवलः । भार्यार्थं तु बणिक्पुव्रः पुव्रार्थं गुर्विणी तथा ॥२२॥

धर्मार्थकामसंसिद्धन्यै लोकः कन्या वरार्थिनी । यष्टुकातो द्विजवरो रागी रोगापनुत्तये ॥२३॥

चिरप्रवासिते कान्ते कालेन घृतिपण्डिता । एतेष्वन्येषु कर्तव्यमाशाव्रतमिदं सदा ॥२४॥

यदा यस्य भवेदार्तं कार्यते हि तदा व्रतम् ‍ । शुक्लपक्षे दशम्यां तु स्त्रात्वा संपूज्य दवताः ॥२५॥

नक्तं तदाशाः संपूज्याः पुष्पालक्तकचन्दनैः । गृहाङ्गणे लेखयित्वा यवैः पिष्टातकेन वा ॥२६॥

दत्त्वा घृताक्तं नैवद्य पुनः कार्यं निबेदयेत् ‍ । आशाश्वाशाः सदा सन्तु विद्यन्तां च मनोरथाः ॥२७॥

भवतीनां प्रसादेन सदा कल्याणमस्तिति । एवं संपूज्य भुञ्जीत दत्त्वा विषाय दक्षिणाम् ‍ ॥२८॥

अनेन क्रमयोगेन मासि मासि समाचरेत् ‍ । याव्रनोरथः पूर्वस्ततः पश्वात्समुद्यमात् ‍ ॥२९॥

मासि पूर्णे च षण्मासे वर्षे वर्षेद्वये गते । सौवर्णाः कारयेदाशा सैप्यपिष्टातकेनाबा ॥३०॥

ज्ञातिबन्धुजनैः सार्द्धं स्त्रातः सभ्यगलङ्कृतः । पूजयेन्मव्रसंदर्भैरेभिर्ध्यात्वा गृहाङ्गणे ॥३१॥

तव संनिहितः शक्रः सुरासुरनमस्कृतः । पूर्वा चन्द्रण सहिता ऐन्द्रीदिरदेवते नमः ॥३२॥

अग्नेः परिग्रहाद्वार्ये त्वमाग्नेयीति पठन्यसे । तेजोमयी परा शक्तिराग्नेयी वरदा भव ॥३३॥

देवराजं समासाद्य लोकः संयमयत्यसौ ॥ तेन संयमनीयाति याम्ये कामप्रदा भव ॥३४॥

खड्‍ग सहातिविकृता नैर्कतिस्त्रमुपाभृता । तेन नैऋतनाग्नी त्वं कृरुवास्पघवा सदा ॥३५॥

त्वय्यास्ते भव्रनाधारवरुणो यादसां पतिः । इष्टकामार्थसिद्धन्यर्थं वारुणि प्रभवा भव्र ॥३६॥

अधिश्रितासि यस्मात्त्वं वायुना जगदायुन । वायव्ये त्वमतः शान्तिं नित्यं यच्छ नमो नमः ॥३७॥

कौबेरो वशिसौभ्या च प्रख्याता त्वमथोत्तरा । ऐशानी जगदीशेब शंभुना त्वमलङ्कृता । अतस्त्यं शिव्रसान्निध्यं देवि देहि शिव्रे नमः ॥३८॥

सर्पाष्टककुलेन त्वं सेवितासि तथाप्यधः । नागाङ्गनाभिः सहिता हिता नः सर्वदा भव ॥३९॥

सप्तलोकैः परिगता सर्वदा त्वं शिव्रा एतः । सनकाद्यैः परिवृता ब्राह्मी जिह्रा नया कुरु ॥४०॥

नक्षव्राणि च सर्वाणि ग्रहास्तारा ग्रहास्तथा । नक्षव्रमातरो ये च भूतप्रेतविनायकाः ॥४१॥

सर्वे ममेष्टसिद्धन्यर्थे भवन्तु प्रणताः सदा । एभिर्मन्व्रैः समण्यर्च्य पुष्पधूपादिना ततः ॥४२॥

वासोभिरभिसस्थाप्य फलानि विनिवेदयेत् ‍ । तत्तूर्यध्वनिघोषेण गीतमङ्गलनिःस्वनैः ॥४३॥

नृत्यन्तीभिर्व स्त्रीभिस्तां राव्रिमतिवाहयेत् ‍ । कुङ्कुमक्षोदतीव्रेण दानमानादिभिः सुखम् ‍ ॥४४॥

प्रभाते वेदविदुषे सर्वं तत्प्रतिपादयेत् ‍ । अनन विधिना सर्वं क्षमाप्य प्रणिपत्य च ॥४५॥

भुञ्जीत मिव्रमहितः सुहृद्वन्धुजनरपि । य एवं कुरुते पार्थ दशमीव्रतमादरात् ‍ ॥४६॥

स सर्वकाममान्पोति मनसाभीप्सितं नरः । स्त्रीभिर्विशेषतः कार्यं व्रतमेतद्युधिष्ठिर ॥४७॥

लघुचित्ता यता नार्यः सदा कामपरावणाः । धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम् ‍ ॥४८॥

कथितं ते महाराज मया व्रतभनुत्तमम् ‍ ॥४९॥

ये मानवा मनुजपुङ्ग्व कामकामाः संपूजयन्ति दशमीपु सदा दशाशाः । तेषां विशेषनिहता ह्रदये प्रकाममाशाः फलन्त्यलमलं बहुनोदितेन ॥५०॥ [ २६०० ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद आशादशमीव्रतं नाम चतुष्षष्टितमोऽध्यायः ॥६४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:24.3800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

rotary Louvre dryer

  • लावरेचा घूर्णी शुष्कक 
RANDOM WORD

Did you know?

Why Cows are considered secred in Hinduism?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.