संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १७३

उत्तर पर्व - अध्याय १७३

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

अग्निष्टिका कथं देया शिशिरे शीतभीरुभिः । सर्वस्त्त्वोपकाराय करुणीकृतमानसैः ॥१॥

श्रीकृष्ण उवाच ॥

अग्निष्टिकामहं पार्थ कथयामि निबोधताम् ‍ । यथा येन विधानेन सर्वस्त्त्वसुखप्रदाम् ‍ ॥२॥

आदौ मार्गशिरे मासि शोभने दिवसे शुभाम् ‍ । अग्निष्टिकां कारयित्वा सुखासनवतीं शुभाम् ‍ ॥३॥

देवांगणे पथे गेहे विस्तीर्णे चत्वरेऽथवा । उभयोः संध्ययोः कृत्वा संशुष्कं काष्ठसंचयम् ‍ ॥४॥

ततः प्रज्वालयेदग्निं हुत्वा व्याहृतिभिः क्रमात् ‍ । अनेन विधिना हुत्वा प्रत्यहं ज्वालयेत्ततः ॥५॥

यदि कश्वित्क्षुधार्थी स्याद्भोज्यं तस्मै प्रकल्पयेत् ‍ । सुखासीनो जनस्तत्र विशीतो विज्वरस्तथा ॥६॥

यः करोति कथाः पार्थ न ताः शक्त्या मयोदितुम् ‍ । राज्वार्ता जनवार्ता यदि कश्विन्निजेच्छया ॥७॥

वदेल्लोकः सुखासीनो न केनापि निवार्यते । अनेन विधिना यत्तु दद्यादन्गिष्टिकां नरः ॥८॥

तस्य पुण्यफलं राजन्कथ्यमानं निबोध मे । विमाने चार्कसंकाशे समारुढो महाधने ॥९॥

षष्टि वर्षसहस्त्राणि षष्टिवर्षशतानि च । हर्षितोऽत्यंतसुखितो ब्रह्मलोके नहीयते ॥१०॥

इह लोकेवतीर्णश्व चतुर्वेदो द्विजो भवेत् ‍ । नीरुजः सत्रयाजी च अग्निवत्तेजसान्वितः ॥११॥

चैत्ये सुरांगणसभावसथे सुभव्यां येऽग्निष्टिकां प्रचुरकाष्ठवतीं प्रदद्युः हेमंतशैशिरऋतौ सुखदा जनानां कायाग्नेदोपनमलं पुनराप्नुवंति ॥१२॥ [ ७४८४ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे अग्निष्टिकादानविधिवर्णनं नाम त्रिसप्तत्युत्तशततमोऽध्यायः ॥१७३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP