TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय २८

उत्तर पर्व - अध्याय २८

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय २८

युधिष्ठिर उवाच ॥

चैव्रे भाद्रपदे माघे रूपसौभाग्यपुव्रदम् ‍ । नृतीयाव्रयमेतन्मे कृष्ण कस्मान्न कीर्तितम् ‍ ॥१॥

किमहं भक्तिरहितस्त्रयीमार्गातिगो नरः। सुप्रसिद्धं जगत्येतद्नोपितं केन हेतुना ॥२॥

भवान्सर्वार्थानुकूलः सर्वज्ञ इति मे मतिः। श्रीकृष्ण उवाच ॥ व्रतं चैतज्जगत्ख्यातं नाख्यातं तेन ते मया ॥३॥

पद्यस्ति श्रवणे बुद्धिः श्रूयतां पाण्डुनन्दन । कोऽन्यः श्रोता जगत्यस्मिन्भवता सद्दशो भूवि ॥४॥

जया च विजया चैव उमायाः परिचारिके । आगत्य मुनिकन्याभिः पृष्टेऽभीष्टफलेच्छया ॥५॥

भवत्यौ सर्वदा देव्याश्वितवृत्तिविदौ किल । केन व्रतोपचारेण कस्मिन्नहनि पार्वती ॥६॥

पूजिता तुष्टिमभ्येति मन्व्रैः कैश्व वरानने । तासां तद्वचनं श्रुत्वा जया प्रोवाच सादरम् ‍ ॥७॥

श्रूयतामभिधास्यामि सर्वकामफलपदम् ‍ । व्रतमुत्सवसंयुक्तं नरनारीमनोरमम् ‍ ॥८॥

कैश्व सिततृतीयायां दन्तधावनपूर्वकम् ‍ । उपवासस्प नियमं गृह्लीयाद्भक्तिभागितम् ‍ ॥९॥

सकुङ्कुमं सताम्बूलं सिन्दूरं रक्तवाससी । विधवा वै सोपवासाप्यवैधव्यकरं परम् ‍ ॥१०॥

विधवा याति मार्गेण कुमारी तु थद्दच्छया । कुर्यादभ्यर्चनविधिं श्रूयतां मन्व्राविक्रमः ॥११॥

नेव्रपद्दपटीवस्त्रवैर्भ्रमण्डपिक शुभाम् ‍ । कारयेत्कुसुमाप्रोददिव्याभरणभुषिताम् ‍ ॥१२॥

प्रवाललम्बितव्रातामन्तर्दिव्यवितानकाम् ‍ । विन्यस्तपूर्णकलशां सत्पीठस्थापितद्विजाम् ‍ ॥१३॥

पुरतः कारयेत्कुण्डं हस्तमाव्रं समेखळम् ‍ । ततः स्त्रातानुलिप्ता च परिधाय सुवाससी ॥१४॥

देवाम्पितृन्समभ्यर्च्य ततो देवीगृहं व्रजेत् ‍ । नामाष्टकेन संपूज्य गौरी गोपतिवल्लभा ॥१५॥

तत्कालप्रभैवः पुष्पैर्गन्धालिबकुलाकुलैः । कुङ्‍कुमेन समालभ्य कर्पूरागरुचन्दनैः ॥१६॥

एवं संपूज्य विधिवत्सद्धूपेनाधिवासयेत् ‍ । पार्वती ललिता गौरी गान्धारी शाङकरी शिवा ॥१७॥

उमा सती समुद्दिष्टं नामाष्टकमिदं मया । लड्‍डूकैः खण्डबैष्टैश्व गुणकैः सिंहकेसरैः ॥१८॥

सोमालकैः कोकसरैः खण्डखाद्यकरम्बकैः । घृतपक्कैबहुविधैः सुपक्कफलकल्पितैः ॥१९॥

द्दष्टिप्राणहरैह्रद्यैनैवैद्यैः प्रीणयेदुमाम् ‍ । कण्टुखण्डं जीरकं च कुङ्‍कुमं लवणार्द्रकम् ‍ ॥२०॥

इक्षुदण्डानैक्षव्रं च हरिद्रार्द्रान्पुरो न्यसेत् ‍ । नालिकेरानामलकान्मातुलुङ्गन्सदाडिमान् ‍ ॥२१॥

कूष्माण्डकर्कटीवृन्तनारङ्गपनसादिकान् ‍ । कालोद्भवानि चान्यानि फलानि विनिवेदयेत् ‍ ॥२२॥

गृहाद्युदू खलशिलाप्रभृतीन्नतिभिः सह । नेव्राञ्जनशलाकाश्व नखरेचनकानि च ॥२३॥

दर्पणं वंशपाव्राणि भवान्यै विनिवदयेत् ‍ । शङ्खतूर्यनिनादेन गीतप्तङ्गलनिःस्वनैः ॥२४॥

भक्त्या संपूजयेद्देवीं स्वशक्त्या शिववल्लभाम् ‍ । ततोऽस्वसमये भाजोः कुमार्यः करकैर्नवैः ॥२५॥

स्त्रानं कुर्युर्मुद्रा युक्ताः सौभाग्यारोग्यवृद्धये । यामे यामे गते स्त्रानं देवीपूननप्रेव च ॥२६॥

तैरेव नाममिर्होमस्तिलाज्येन प्रशस्यते । पद्मासनस्थिता साध्वी तेनैबाद्रेंण वाससा ॥२७॥

गौरीमुखेक्षणपरा तां राव्रिमतिवाहयेत् ‍ । काश्विद्वाद्यन्ति संहृष्टाः काश्विन्नृत्यन्ति हर्षिताः ॥२८॥

कथयन्ति कथाः काश्विद्देव्यास्तव्र महोत्सवे । गीततालानुसंबद्धमनुद्धतमनाकृळम् ‍ ॥२९॥

नृत्यन्ति स्म पुरे देव्याः काश्विदुल्लसितभ्रुवम् ‍ । नृत्येन हृष्यति हरो गौरी गीतन तुष्यति ॥३०॥

सद्भावेनाथ वा सर्वे गच्छन्ति परमां मुदम् ‍ । सुवासिनीभिस्ताम्बूल कुङ्कुमं कुसुमानि च ॥३१॥

प्रदेयं जागरवतां चान्येषामपि किञ्चन । नटैर्विटैर्भटैश्वैव तथा प्रेक्षणकोत्सवैः ॥३२॥

सखिभिः सहिता राव्रिं गायन्नृत्यन्हि तां नयेत् ‍ । एवं प्रभातसमये स्त्रात्वा संपूज्य पर्वतीम् ‍ ॥३३॥

ततो वै सा समारोहेद्वस्त्रालङ्रकृततोरणम् ‍ । तोलयेत्सा तथासीनां गुडेन लवणेन च ॥३४॥

कुङ्कुमेनाथ वा शक्त्या कपूरागरुचन्दनैः । पर्वतानामपि च्छैदैः केचिदिच्छन्ति सूरयः ॥३५॥

कुण्डमण्डपसंभारैर्मन्ब्रैस्तव्रैव शोभयेत् ‍ । लवणेन सहात्मानं तोलयन्ति गुडेन वा ॥३६॥

कयापि भक्तिपरया सौभाग्यमतुलीकृतम् ‍ । एवं देवीं प्रणम्यार्यां क्षमाप्य गृहमाविशेत् ‍ ॥३७॥

आमन्व्र्य शास्त्रकुशलानाचारविधिपारगान ‍ । अन्नं च मधुरप्राय भोजयित्वा सुवासिनीः ॥३८॥

स्वयं भुञ्जीत सहसा ज्ञातीजनबुधैः स्वकैः । यच्च देव्याः पुरो दत्त नैवेद्यादि तदिच्छया ॥३९॥

गृहं प्रति नयेत्सर्वं विभज्याभ्रन्तमानसा । ततो दद्यादगृहस्थेम्यः कृतकृत्या भवेत्तदा ॥४०॥

बिधिर्भाद्रपदेऽप्येष सुसौन्दर्यप्रदाथकः । सप्तधान्यस्वरूपां च शूर्पे संपूजयेदुमाम् ‍ ॥४१॥

गोमूव्रप्राशंन ह्यव्र तेन गोमूव्रसंज्ञिता । माघमासतृतीयायां विशेषः श्रूयतामिति ॥४२॥

पूर्वोक्त सकलं कृत्वा प्रभाते यवसंस्तरम् ‍ । तोलयित्वा कुन्दपुष्पैः पूजयेत्तत्सुतामिति ॥४३॥

एतेन कारणेनोक्ता चतुर्थी कुन्दसंनुया । तृतीयाख्यं मयैतत्ते कथितं सर्वंकारणम् ‍ ॥४४॥

जयया मुनिकन्यानां यत्पुरा समुदाद्वतम् ‍ । श्रीकृष्ण उवाच ॥ आसीद्विदर्भनगरे बेश्या सर्वाङ्रसुन्दरी ॥४५॥

तया ब्राह्मनवाक्येन सर्वमेतत्कृतं पुरा । भुक्त्वा भोगान्महीपृष्ठे दत्त्वा दानं यथेप्सया ॥४६॥

कालेन समनुप्राप्ता मरणं मनुजेश्वर । अचिन्त्या राजदुहिता सा बभूवातिशोभना ॥४७॥

अवन्तिसुन्दरी नाम देवानामपि सुन्दरी । यदि वक्व्रसहखाणां सहस्त्र स्यात्कथञ्चन ॥४८॥

तथापि निर्वर्णयितुमशक्या सा सुलोचना । चैव्रवृतीयामाहात्म्यात्सा बभूव प्रभावती ॥४९॥

मातापिव्रोरतिप्रेष्ठा शिष्ठान्यजनबल्लभा । लब्धाब्धिसंभवा यद्वत्कृष्णेनाक्लिष्टकर्मणा ॥५०॥

ततः सा वुभुजे भोगान्भर्व्रा सार्द्धं मुदा सती । षददाद्‍ब्राह्मणेभ्यः सा भूषपं कटकादिकम् ‍ ॥५१॥

तत्प्रभावेण सा लेभे सौभाग्यं किं ततः परम् ‍ । पुव्रांश्व जनयामास विष्णुशकपराक्रमान ‍ ॥५२॥

सर्वास्त्रशस्त्रकुशलान्वेदोक्तविधिपारगान् ‍ । पवं रूपं महात्प्राप्य सौभाग्यं पुव्रसंपदम् ‍ ॥५३॥

भर्तुः सहैव मरणमन्ते प्राप्य पतिव्रता । शक्रादिलोकपालानां भवनेषु यथाक्रमम् ‍ ॥५४॥

आक्रम्य ब्रह्मलोकं च जगाम शिवसात्मताम् ‍ । एवं यान्यापि कुरुते नारी व्रतमिदं शुभम् ‍ ॥५५॥

सा रूपसौभाग्यसुतान्प्राप्य स्वर्गे महीयते । न दुर्भगा कुले तस्याः काचिद्भवति कन्थका ॥५६॥

न दुर्विनीतश्व सुतो न भृत्योऽप्रियकृद्भवेत् ‍ । न दारिद्यं गृहे तस्मिन्न व्याधिरूपजायते ॥५७॥

यव्र सा रमते साध्वी धमातचामीकरप्रभा । अन्याश्व पाश्वरिण्यन्ति ब्राह्यणानुमते व्रतम् ‍ ॥५८॥

संपूज्य वाचकं भक्त्या भूषणाच्छादनादिभिः । ताः सर्वसुखसंपन्ना अविपन्नप्रनोरथा । भविष्यन्ति कुरुश्रेष्ठ तस्यै देवि नमोस्तु ते ॥५९॥

माघे महार्ध्यमणिमण्डितपादपीठां चैव्रे विचिव्रकुसुमोत्कारचर्चिताङ्गीम् ‍ । सूर्यप्ररूढनवसस्यमयीं नभस्ये सपूज्य शंभुदयितां प्रभवन्ति नार्यः ॥६०॥ [ १४०१ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे चैव्रभाद्रपदमाघतृतीयाव्रतव्रर्णनं नामाष्टविंशतितमोऽध्यायः ॥२८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:22.4130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

pollices

  • पु./अ.व. अंगुष्ठ 
  • (sing. pollex) 
RANDOM WORD

Did you know?

जन्मानंतर पाचवी पूजनाचे महत्व काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.