TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ५

उत्तर पर्व - अध्याय ५

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ५

श्रीकृष्णा उवाच ॥

अघोधःपतनं पुंसामधःकर्म प्रकीर्तितम् ‍ । नारकार्णवघोरषु यातना पापमुच्यते ॥१॥

अधर्मभेदा विज्ञेयाश्चित्तवृत्तिप्रभेदतः । स्थूलाः सूक्ष्मा सुमूक्ष्माश्व कोटिमेदैरनेकधा ॥२॥

तत्र ये पापनिचयाः स्थूला वरकहेतवः ते समासेच कथ्यन्ते मनोवाक्कायसाधनाः ॥३॥

पास्त्रीप्वथ संकल्पश्वेतसाऽनिष्टचिन्हनम् ‍ । अकार्यामिनिवेशश्व त्रिवधं कर्म मानसम् ‍ ॥४॥

अनिबद्धप्रलापित्वमसत्यं चाप्रियं च यत् ‍ । परापवादपैशुन्यं चतुर्धा कर्म वाचिकम् ‍ ॥५॥

अभक्ष्यमक्षणं हिंसा मिथ्याकामस्य सेवनम् ‍ । परस्वानामुपादानं चतुर्धा कर्म कातिकम् ‍ ॥६॥

इत्येतद्‍द्वादशविधं कमं प्रोक्तं ससाधनम् ‍ । तेषां भेदं पुनर्वच्मि येषां फलमनन्तकम् ‍ ॥७॥

ये द्विपन्ति महादेव संसारार्णवतारणम् ‍ । समस्तपातकोपेतास्ते यान्ति नरकाग्निपु ॥८॥

ब्रह्मघ्नश्व सुरापश्व स्तेयी च गुरुतल्पगः । महापातकिनश्वैते तत्संसर्गी च पञ्चमः ॥९॥

क्रोधाद्‍द्वेषाद्भयाल्लोमाद्‍ब्राह्मणं विशसन्ति ये । प्राणान्तिको महादोषो ब्रह्मन्घास्ते प्रकीर्तिताः ॥१०॥

ब्राह्मणं च समाहूय याचमानमकिश्चनम् ‍ । पश्वान्नास्तीतितं ब्रूयात्स चैव ब्रह्महा स्मृतः ॥११॥

यस्तु विद्याभिमाननेन निस्तेजयति बै द्विजान् ‍ । उदासीनः सभामध्ये ब्रह्महा सोऽपि कीर्तितः ॥१२॥

मिथ्यागुणैः स्वमात्मानं नयत्युत्कर्षणं बलात् ‍ । गुरुणां च विरुद्धो यः स चैव ब्रह्महा स्मृतः ॥१३॥

क्षुत्तृट्‍संतप्तदेहानां द्विजानां भौक्तुमिच्छताम् ‍ । यः समाचरते विघ्नं तमाहुर्ब्रह्मघातकम् ‍ ॥१४॥

पिशुनः सर्वलोकानां छिद्रान्वेषणतत्परः । उद्वेगजननः क्रूरः स चैव ब्रह्महा स्मृतः ॥१५॥

गवां तृषामिभूतानां जलार्थमुपसर्पतासम् ‍ । यः समाचरते विन्घं स चैव ब्रह्महा स्मृतः ॥१६॥

परदोषमवज्ञाय नृपकर्णे करोति यः । पापीयान्पिशुनः क्षुद्रः स चैव्र ब्रह्महा स्मृतः ॥१७॥

देवद्विजगवां भूमिं पूर्वमुक्तां हरेत्तु यः । प्रनष्टामपि कालेम तमाहुर्ब्रह्मघातकम् ‍ ॥१८॥

द्विजवित्तापहरणे न्यायतः समुपार्जिते । ब्रह्महत्यासमं ज्ञेयं पातकं नाव्र संशयः ॥१९॥

अग्निहोव्रपरित्यागो यस्तु याज्ञिककर्मणाम् ‍ । मातापिनृपरित्यागः कूटसाक्ष्यम सुह्रद्वधः ॥२०॥

गवां मार्गे वने चाग्निं पुरे ग्रामे च दीपयेत् ‍ । इति पापानि घाराणि सुरापानसमानि तु ॥२१॥

हीनस्वहरणे चापि नरस्त्रीगजवाजिनाम् ‍ । गोभूरजतरत्नानामौषधीनां रजस्य च ॥२२॥

चन्दनागरुकर्पूरकस्तूरीखण्डवाससाम् ‍ । हस्तन्यस्यापहरणं रुक्मस्तेयसमं स्मृतम् ‍ ॥२३॥

कन्यानां वरयोग्यानामदानं सद्दशे वेर । पुव्रमिव्रकलव्रेषु गमनं भगिनीषु च ॥२४॥

कुमारीसाहसं घोरमन्त्यजस्त्रीनिपेवणम् ‍ । अवर्णायाश्व गमजं गुरुतल्पसमं स्मृतम् ‍ ॥२५॥

महापातकतुल्यानि पापान्युक्तानि यानि तु । तानि पातकसंज्ञानि तद्वदाम्युपपातकम् ‍ ॥२६॥

द्विजार्थं च प्रतिज्ञाय न प्रयच्छति यः पुनः । तस्मान्नरपते विन्घतुल्यं तदुपपातकम् ‍ ॥२७॥

द्विजद्रव्यापहरणं मर्यादाया व्यतिक्रमः । अतिकोपश्व मानश्व दाम्भिकत्वं कृतन्घता ॥२८॥

अत्यन्तविषयासक्तिः कपिण्य़ं श्रेष्ठमत्सरः । परदारापहरणं साध्वीकन्याविदूपणम् ‍ ॥२९॥

परिवित्तिः परीवेत्तः परीवेत्ता यया च परिविद्यते । तयोर्दानं च कन्यायास्तयोवि च याजनम् ‍ ॥३०॥

पुव्रमिव्रकलव्राणामभावे स्वामिनस्तथा । शिवानां चैव संन्यासः सहजानां तपस्विनाम् ‍ ॥३१॥

भङ्गश्व धर्मकृत्यानां सहायानां बिनाशनम् ‍ । पीडामाश्रमसंस्थानामाचरेत्त्वल्पिकामपि ॥३२॥

स्वभृत्यपरिवर्गस्य पशुधान्यधनस्य च । कुप्यधान्यपशुस्तेयमयाच्यानां च याचनम् ‍ ॥३३॥

गवां क्षव्रियवैश्यानां स्त्रीशुद्राणां विशेषतः यज्ञारामतडागानां दारापत्यस्य विक्रयः । तीर्थयाव्रोपवासानां वतायतनकर्मणाम् ‍ ॥३४॥

स्त्रीधनान्युपजीवन्ति स्त्रीभिरत्यन्तनिर्जिताः । अरक्षणं च नारीणां मद्यपस्त्रीनिपेवणम् ‍ ॥३५॥

ऋणानामप्रदानं च घान्यवृद्धयुपजीविनाम् ‍ । निन्दिताच्च धनादानमपण्यानां च विक्रयः ॥३६॥

विषमारणमन्व्राणां प्रयोगो मूलकर्मणाम् ‍ । उच्चाटनाविचारश्व गरविद्वेषणक्रिया ॥३७॥

जिह्रासमुपभोगार्थं यस्यारम्भः स्वकर्मसु । मूल्येनाध्यापये द्यश्व मूल्येनाधीयते चयाः ॥३८॥

व्रात्यता व्रतसंत्यागः सर्वाहार्निषेवणम् ‍ । असद्दाराभिगमनं शुष्कतर्कावलम्बनम् ‍ ॥३९॥

देवाग्निसाधुसाध्वीनां निन्दा गोब्राह्मणस्य च । प्रत्यक्षं वा परोक्षं वा राज्ञां मण्डलिकामपि ॥४०॥

दुःशीला नास्तिकाः पापाः सर्वशून्यस्य वादिनः । पर्वकाले दिवा चैव वियोनौ पशुयोनिषु ॥४१॥

रजस्वलानां योनौ च मैथुनं च समाचरेतू । स्त्रीपुव्रमिव्रसंप्रीत्यै ग्रासान्नच्छेदकाश्व ये ॥४२॥

जतंस्याप्रियवक्तारों धूर्ताः समयभेदिनः । भेता तडगचक्राणां संक्रमाणां रथस्य च ॥४३॥

एकपङ्रक्तिस्थितानां च पाकभेदं करोति यः । ङ्हत्येतैस्ते नराः पापैरूपपातकिनः स्मृताह ॥४४॥

युक्तास्तवूनकैः क्षुद्रैः पापैः पापतराः स्मृताः । ये गोबाह्मणकन्यानां स्वामिमिव्रतपस्विनाम् ‍ ॥४५॥

अन्तरं यान्ति कार्येंपु ते नरा नारकाः स्मृताः । परश्रिया ये तप्यन्ते ये परद्रव्यसूचकाः ॥४६॥

परव्यापारनिरताः परस्त्रीनरदूपकाः । द्विजाय दुःख यः कुर्यात्सत्कारैर्बहुभिः सदा ॥४७॥

सेवते यो द्विजः शूद्रां सुरां जिन्घति कामतः । ये पानाभिरताः कूरा ये च हिंसाप्रिया नराः ॥४८॥

नित्तार्थं ये च क्रुर्वन्ति दानयज्ञादिकां क्रियाम् ‍ । गोष्ठाग्निजलरथ्यासु तरुच्छायामठेपु च ॥४९॥

त्यजन्त्यमेध्यं पुरुषा आरामायतनेषु च । मद्यपानरता नित्यं गानवाद्यरता नराः ॥५०॥

केलींकलाभुजङ्गश्व स्न्ध्रान्वेषणतत्पराः । वंशेषु काशिकाष्ठैश्व शुभैः शङ्रकुभिरेव वा ॥५१॥

ये मार्गान्यमुपन्घन्ति परस्त्रीराहरन्ति च । कूटशासनहर्तारः कूटकर्मक्रियारताः ॥५२॥

कूटयुद्धाश्व शखेण कूटसंव्यवहारिणः । धनुपां शल्यशस्त्राणां यः कर्ता यश्व विक्रयी ॥५३॥

निर्दयोऽतीव भृत्येषु पशूनां दमकश्व यः । मिथ्याप्रवदतो वाक्यमाकर्णयति यः शनैः ॥५४॥

स्वामिमिव्रगुरुद्रोही मायाव्री चपलः शठः । ये भार्यापुव्रमिव्राणि बालवृद्धकृशातुरान् ‍ ॥५५॥

भृत्यानविथिबन्धूंश्व बाधयन्ति बुभक्षया । यः स्वयं मिष्टमश्राति विप्रयान्यत्प्रयच्छति ॥५६॥

वृथा पाकः स विज्ञेयो ब्रह्मवादिषु गर्हितः । नियमान्स्वयमादाय ये त्यजन्त्यजितोन्द्रियाः ॥५७॥

प्रव्राज्यावासिनो ये च रहस्यानां च भेदकाः । ताडयन्ति च वगाद्ये शपन्ति च मुहुमुंहुः ॥५८॥

दुर्बलांश्च न पुष्णन्ति पुनस्तान्वाहयन्ति च । पीडयन्त्यतिभारेण सक्षतान्वाहयन्ति च ॥५९॥

सार्द्धयामादुपरितः संयुक्तेषु च भुञ्जते । ये भग्नक्षतरोगार्ताक्षीणांश्वै बुभुक्षया ॥६०॥

न पालयन्ति यन्तेन ते गोन्घा नारका नराः वृषाणां वृषणान्येव पापिष्ठा गालयन्ति ये ॥६१॥

वाहयन्ति च गां वेघ्यां ते महानारकाः स्मृताः । आश्रमं समनुप्राप्रं क्षुत्तृषाश्रमपीडितम् ‍ ॥६२॥

येऽतिथिं नाभिमन्यन्ते ते वै निरयगामिनः । अनाथं विकलं दीनं बालं वृद्धं कृशातुरम् ‍ ॥६३॥

नानुकम्पन्ति ये मूढास्ते यान्ति निरयार्णवम् ‍ । अजाविको माहिषिकः सामुद्रो वृषलीपतिः ॥६४॥

शूद्रविट्रक्षव्रवृत्तिश्व नारकी स्यादद्विजाधमः । शिल्पिनः कारुका वैद्या हेमकारा नटा द्विजाः ॥६५॥

कृतकौक्षेयसंगुक्तास्तथाऽन्ये नारकाः स्मृताः । यश्वोदितमतिक्रम्य स्वेच्छया वाहरेत्करम् ‍ ॥६६॥

नरके तु स पच्येत यश्व दण्डरुचिर्भवेत्य़ । उत्कोचकैरधिकृतैस्तस्करैश्व प्रपीडन्यते ॥६७॥

यस्य राज्ञः प्रजा रुष्टा पच्यते नरकेषु सः । ये द्विजाः प्रतिगृह्रन्ति नृपस्यान्यायवर्तिनः ॥६८॥

प्रयान्ति तेपि घोराणि नरकाणि न संशयः । पारदारिकचौराणां यत्पापं पार्थिवस्य तत् ‍ ॥६९॥

भवेदरक्षतस्तस्माद्धारेस्तस्य प्रतिग्रहः । अचौरं चौरवत्पश्येच्चौरं वाऽचौररूपवत् ‍ ॥७०॥

अविचार्यं नृपस्तस्माद्धातयन्नरकं व्रजेत् ‍ । घृततैलान्नपानानि मधुमांससुरासवम् ‍ ॥७१॥

गुडेक्षुक्षारशाकानि दधिमूलफलानि च । तृणं काष्ठं पुष्पपव्रमौषधं कांस्यभाजनम् ‍ ॥७२॥

उपानच्छव्रशकटमासनं शयनाम्बरम् ‍ । तास्त्रं सीसं व्रपुं कांस्यं शंखाद्यं च जलोद्भवम् ‍ ॥७३॥

वार्क्षं वा वैणवाद्यं वा गृहेषूपस्कराणि च । ऊर्णाकार्पासकौशेयभङ्गपद्दोद्भवानि च ॥७४॥

स्थूलसूक्ष्माणि वस्त्राणि ये च लोभाद्धरन्ति च । एवमादीनि चान्यानि द्रव्याणि विविधानि च ॥७५॥

नरकाणि ध्रुवं यान्ति नरा वा नाव्र संशयः । यद्वा तद्वा परद्रव्यमपि सर्पममाव्रकम् ‍ ॥७६॥

अपह्रत्य नरो याति नरकं नाव्र संशयः । एवमाद्यैर्नरः पापैरुत्कान्तेः समनन्तरम् ‍ ॥७७॥

शरीरं चालनार्थाय पूर्वाकारमवाप्रुयात । यमलोकं ब्रजेत्तेन शरीरेण यमाज्ञया ॥७८॥

यमदूतैर्महाघोरैर्नीयमानाः सुदुःखिताः । तिर्यङ् ‍ मानुषदेहानामधर्मनिरतात्णनाम् ‍ ॥७९॥

धर्मराजः स्मृतः शास्ता सुघोरैर्विविधैर्वधैः विनयाचारयुक्तानां प्रमादत्स्खलितात्मनाम् ‍ ॥८०॥

प्रायश्वित्तैर्गुरुः शास्ता न च तैर्द्दश्यते यमः । पारदारिकचौराणामन्यायव्यवहारिणाम् ‍ ॥८१॥

नृपतिः शासकस्तेषां प्रच्छन्नानां च धर्मराट् ‍ । तरुमात्कृतस्य पापस्य प्रायश्वित्तं समाचरेत् ‍ ॥८२॥

नाभुक्तस्यान्यथा नाशः कल्पकोटिशतैरपि । यः करोति स्वयं कर्म कारयेद्वापि मोदयेत् ‍ ॥८३॥

कायेन मनसा वाचा तस्य चाघोगतिः फलम् ‍ । इति सक्षेपतः प्रोक्ताः पापभेदाःससाधनाः ॥८४॥

कथ्यन्ते गतयश्विव्रा नराणां पापकर्मणाम् ‍ ॥८५॥

वाक्कायचित्तजानितैर्बहुभेदभिस्त्रैः कृत्यैः शुभाशुभफलोदयहेतुभूतैः । भास्वत्सुरेशभुवनं नरकाननेकान्संप्रान्पुवन्ति मनुजा मनुजेन्द्रचन्द्र ॥८६॥ [ ४१३ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि पापभेदख्यापनं नाम पञ्चमोऽध्यायः ॥५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:21.1770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

nonsense

  • स्त्री. अर्थशून्य बाब 
  • पु. (foolery) मूर्खपणा 
RANDOM WORD

Did you know?

श्रीदत्तपुराणटीका and more books for shree dattaray
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.