TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ७०

उत्तर पर्व - अध्याय ७०

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ७०

श्रीकृष्ण उवाच ॥

शृणु सार्थ प्रष्ठक्ष्याभि गोविन्दशयनं व्रतम् ‍ । कटदानं समत्थानं तातुर्मास्वव्रतकमम् ‍ ॥१॥

युधिष्ठिर उवाच ॥ किं देवशयनं नाम देवः स्वणिति चाप्यसौ । देवः किमर्थं स्वपिति किं विधानं सदा वद ॥२॥

के मन्व्राः के च नियमा व्रतान्यथ क्रिया च का किं ग्राह्मं किं च भोक्तव्यं सुप्ते देवे जनार्दने ॥३॥

श्रीकृष्ण उवाच । मिथुनस्थे सहस्त्राशौ स्थापयेन्मधुसूदनम् ‍ । तुलाराशिगते तस्मिन्पुनरुत्थापयेदव्रतम् ‍ ॥४॥

अधिमास च पतिते एष एव बिधिक्रम्घ । नान्याथा स्थापयेद्देवं न चैवोत्थापयेद्धरिम् ‍ ॥५॥

आषाढस्यासिते पक्षे एकादश्यामुपोषितः । स्थापयद्भक्तिमान्विष्णुं शङ्खचक्रगदाधरम् ‍ ॥६॥

पीताम्बरधरं सौभ्यं पर्यङ्के स्वास्तृते शुभे । शुक्लबस्त्रसमाच्छन्ने सोपधाने युधिष्ठिर ॥७॥

इतिहासपराणज्ञो विष्णुभक्तोपि यः पुमान् ‍ । स्त्रापयित्वा दधिक्षीरघृतक्षौद्रजलैस्तथा ॥८॥

सप्रालम्य शुभैर्गन्धैर्धूपैर्वस्त्रैरलङकृतम् ‍ । पूजयित्वा कुङ्‍कुमाद्यैर्मन्व्रेणानेन षाण्डव ॥९॥

सुप्ते त्वयि जगन्नाथ जगसप्तं भवेदिदम् ‍ । विबुद्धे त्ययि बुध्येत जगत्सर्वं चराचरम् ‍ ॥१०॥

एवं तां प्रतिमां विष्णोः स्थापयित्वा युधिष्ठिर । तस्यैवाग्रे स्वयं वाचा गृह्रीयान्नियमांस्ततः ॥११॥

चतुरो वार्षिकान्मासान्देवस्योत्थापनावधि । स्त्री वा नरो वा मद्भक्तो धर्मार्थं सद्दढव्रतः ॥१२॥

गृह्रीयान्नियमानेतान्दन्तधावनपूर्वकम् ‍ । तेषां फलानि वक्ष्यामि तत्कर्तृणा पृथक्पृथक ॥१३॥

मधुरस्वरो भवेद्राजा पुरुषो गुडवर्जनात् ‍ । तैलस्थ वर्जनात्पार्थ सुन्दराङ्गः प्रजायते ॥१४॥

कटुतैलपरित्यागाच्छव्रुक्षयमवाप्रुयात् ‍ । मधूकतैलत्यागेन सौभाग्यमतुलं भवंत ‍ ॥१५॥

पुष्णादिभोगत्यागेन स्वर्गे विद्याधरो भवेत् ‍ । योगाभ्यासी भवेद्यस्तु स ब्रह्यपदमाप्रयात् ‍ ॥१६॥

कटुकाम्लतिक्तमधुरक्षारकाषायमेव च । यो वर्जयेत्स वैरूप्य दौर्गत्यं नान्पुयात्क्कचित् ‍ ॥१७॥

ताम्बूलवर्जनाद्भोगी रक्तकण्ठश्व जायते । घृतत्यागात्सुलावण्यं सवसिद्धिः पुनर्भवत् ‍ ॥१८॥

फलत्यागाच्च मतिमान्बहुपुव्रश्व जायत । शाकपव्राशनाद्भोगी अपक्कादोऽमलो भव्रेत ॥१९॥

पादाभ्यङ्ग्परित्यागाच्छिरोभ्यङ्गाच्च पार्थिव । दीप्तिमान्दीप्तिकरणो यक्षो द्रव्यपतिर्भवेत् ‍ ॥२०॥

दधिदुग्घतकनियमाद्नोलोकं लभते नरः । इन्द्रातिथित्वमान्पोति स्थालीपाकविवर्जितात् ‍ ॥२१॥

लभेत सन्ततिं दीर्घां तापपक्कस्य भक्षणात् ‍ । भूमावस्तरशायी च विष्णारनुचरो भवेत् ‍ ॥२२॥

सदामुनिः सदायोगी मधुमांसस्य वर्जनात् ‍ । निर्व्याविर्नीरुजौजस्वी सुरामद्यविवर्जनात् ‍ ॥२३॥

एवमादिपरित्यागाद्धर्मः स्याद्धर्मनन्दन । एकान्तरोपवासेन ब्रह्मलोके महीयते ॥२४॥

धारणं नखरोमाणां गङ्गस्त्रानं दिने दिने । मौनव्रती भवेद्यस्तु तस्याज्ञाऽस्खलिता भवेत् ‍ ॥२५॥

भूमौ भुङक्ते सदा यस्तु स पृथिव्याः पतिर्भवेत् ‍ । नमो नारायणायेति जपतोनशनं फलम् ‍ ॥२६॥

पादाभिवन्दनाद्विष्णार्लभेद्भोदानजं फलम् ‍ । विष्णुपादाम्बुसंस्पर्शात्कृतकृत्यो भवन्नरः ॥२७॥

विष्णुदेवकुले कुर्यादुपलेपनमर्चनम ‍ । कल्पस्थायी भवेद्राजा स नरो नाव्र संशयः ॥२८॥

प्रदक्षिणाशतं यस्तु करोति स्तुतिपालकः । हंसयुक्तविमानेन स च विष्णुपुरं व्रजेत ‍ ॥२९॥

गीतवाद्यकरो विष्णोर्गान्धर्वं लोकमान्पुयात ‍ । नित्यं शास्त्रविनोदेन लोकान्यसु प्रबोधति ॥३०॥

सव्यासरूपी भगवान ते विष्णुपुरं व्रजेत् ‍ । पुष्पमालादिभिः पूजां कृत्वा विष्णुपुरं व्रजेत् ‍ ॥३१॥

नित्यस्नायी नरो यस्तु नरकं स न पश्यति । भोजनं च जयेद्यस्तु स स्नानं पौष्करं लभेत् ‍ ॥३२॥

कृत्वा प्रेक्षणक दिव्यं राज्यं सो‍ऽप्सरसां लभेत् ‍ । अयाचितेन प्रान्पोति वापीकूपे यथा फलम् ‍ ॥३३॥

षष्ठकालेन्नभोज्येन स्थायी स्वर्गे नसे भवेत् ‍ । पर्णेषु यो नरो भुङके कुरुक्षेव्रफलं लभेत ‍ ॥३४॥

शिलायां भोजनान्नित्यं स्नानं प्रयागजं भघेत् ‍ । यामद्वये जलत्यागान्न रोगैः परिभूयते ॥३५॥

एवमादिव्रतैः मार्थ तुष्ठिमायाति हेतुत्तः । सुप्ते सति जगन्नाथे केशवे गरूडध्वजे ॥३६॥

निवर्तन्ते कियाः सर्वाश्वातुर्वर्ण्यस्य भारत । विवाहव्रतबन्धादिभूतसंस्कारदीक्षणम् ‍ ॥३७॥

यज्ञाश्व गृहवेशादि गोदानादि प्रतिष्टितम् ‍ । पूज्यानि पानि कर्माणि तानि सर्वाणि वर्जयेत् ‍ ॥३८॥

असकान्तं तु मासं वै दैवे पिव्र्ये च वर्जयेत् ‍ । मलिम्लुचमशौच च सूर्यसंक्रान्तिवर्जितम् ‍ ॥३९॥

प्राप्ते भाद्रपदे मासि एकादश्यां दिने हरेः । कढदानंभवेद्विष्णोर्महापूजां प्रवर्तयेत् ‍ ॥४०॥

य एतदेव शयनं तव्रदं कारणं शृणु । पुरा तपःप्रभावेन तोषयित्वा हरिं विभुम् ‍ ॥४१॥

ममापि मानयत्यङ्ग प्रर्थितो योगनिद्रया । निरीक्ष्य वात्मनो देहं रुद्ध लक्ष्म्या उरःस्थलम् ‍ ॥४२॥

शङ्खचकासिमार्गाद्यैर्बाहवोप्यथ वक्षसा । अधोनाभेर्निरूद्धं मे वैनतेयेन पक्षिणा ॥४३॥

मुकुटेन शिरो रुद्धं कुण्डलाभ्यां च कर्णकौ । ततो ददावहं तुष्टो नेव्रयोः स्थानमादरात् ‍ ॥४४॥

चतुरो वार्षिकान्मासान्माऽऽश्रिता सा भविष्यति । योगजि द्रापि माहात्म्यं श्रुत्वा पौरातनं शुभम ‍ ॥४५॥

चकार लोचनावासमतोऽर्थं मे युधिष्ठिर । अहं च तां भावयित्वा मानयामि मनस्विनीम् ‍ ॥४६॥

योगनिद्रा महानिद्रा शेषाभिशयने स्थितः । क्षीगेदधौ च विध्यग्रे घौतपादः समाहितः ॥४७॥

लक्ष्मीकराम्बुजैरक्षैर्मृद्य मानपदद्वषः । तस्मिन्कालऽपि मद्भक्तो यो मासांश्वतरःक्षिपेत् ‍ ॥४८॥

व्रतैरनेकैर्नियमैः पाण्डवश्रेष्ठ मानवः । कल्पस्थायी विष्णुलोकं स व्रजेन्नाव्र संशयः ॥४९॥

ततोऽवबुध्यते देवः श्रीमाञ्छङ्खगदाधरः । कार्तिके शुक्लपक्षस्य एकादश्यां पृथवछृणु ॥५०॥

मन्व्रेणानेन राजेन्द्र देवमुत्थापयेदद्विजः । इदं विष्णुर्विचक्रमे स्वासने च तदा नृप ॥५१॥

समुत्थिते तदा विष्णौ क्रियाः सवोः प्रवर्तयेत् ‍ । महातूर्यरवे राव्रौ भ्रामयेत्स्यन्दने स्थितम् ‍ ॥५२॥

उत्थिते देवदेवेशे नगरे पार्थिवः स्वयम् ‍ । दौपोद्रेककरे मार्गे नृत्यगीतजनाकुले ॥५३॥

यो यो दामोदरं पश्येदुत्थितं धरणीधर । तं तं प्रदेयं राजेन्द्र सर्वं स्वर्गाय कल्पले ॥५४॥

राव्रौ प्रजागरे देवमेकादश्यां सुरालये । प्रभाते विमले स्त्रात्वा द्वादश्यां विष्णुमर्चयेत् ‍ ॥५५॥

होमयेद्धव्यवाह च हव्यद्रव्यैर्घतादिभिः । ततो विप्राञ्चभान्त्रात्वा भोजयेदन्नविस्तरैः ॥५६॥

घृतदधिक्षौद्रकाद्यैर्गुडयुक्तैः सुमोदकैः । यजमानोऽपि संतुष्टस्त्वराहास्य दिवर्जितः ॥५७॥

एकादश दशाष्टौ वा पञ्च द्वौ वा कुरूत्तम । अचयेद्च्चन्दनैर्धूपैः पुष्णैर्गन्धैर्द्विजोत्तमान् ‍ ॥५८॥

अद्धोक्तविधिना पार्थ भोजयेद्भाग्यवान्यतीन् ‍ । आचान्तेभ्यस्ततो दद्यात्त्यागं यत्किञ्चिदेव हि ॥५९॥

स्ववाचा स्वमनोभीष्टपव्रपव्रपुष्पफलादिकम् ‍ । चतुरो वार्षिकान्मासन्नियमं यस्य यत्कृतम् ‍ ॥६०॥

कथयित्वा द्विजेभ्यस्तं दद्याद्भक्त्या सदाक्षिणाम् ‍ । दत्त्वा विसर्जयेद्विप्रांस्ततो भुञ्जीत च स्वयम् ‍ ॥६१॥

यत्त्यक्तं चतुरो मासान्प्रवृत्तिस्तस्य चाचरेत् ‍ । एवं य आचरेत्पार्थ सोऽनन्तं धर्ममान्पुयात् ‍ ॥६२॥

अवसाने तु राजेन्द्र वासुदेवपुरीं व्रजेत् ‍ । यस्याविन्घैः समाप्येत चातुर्मास्यव्रतं नृप ॥६३॥

स भवेत्कृतकृत्यस्तु न पुनर्मातृको भवेत् ‍ । यो देव्ररायनं पार्थ मासं मासं समाचरेत् ‍ ॥६४॥

उत्थानं चापि कृष्नस्य स हरेलोंकमान्पुयात । शृणोति ध्यायति स्तौति जुहोत्याख्याति यो नरः ॥६५॥

विष्णोर्भक्तिं परां पार्थ स गच्छेद्वैंष्णवं पदम् ‍ ॥६६॥

सुग्धाब्धिभोगशयने भगवाननन्तो यस्मिन्दिने स्वपिति यव्र विबुध्यते वा । तस्मिन्ननन्यमनसामुपव्रासभाजां पुंसां ददाति सुगतिं गरुडाङ्गसङ्गी ॥६७॥ [ २८८१ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे देवशयनोत्थापनद्वादशीव्रतवर्णनं नाम सप्ततितमोऽध्यायः ॥७०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:24.7230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वाहती वाट

  • वाहता रस्ता. 
  • वाहती कूस पहा. 
  • आरंभ 
  • सुरुवात. 
More meanings
RANDOM WORD

Did you know?

why treeepad veedhee ? narrate
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site