TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ८४

उत्तर पर्व - अध्याय ८४

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ८४

युधिष्ठिर उवाच ॥

किमभीष्टवियोगशोकसङ्घाल्लघु इह समुपोषतां व्रतं वा । विभवोद्धवकारि भूतलेऽस्मिन्भवति विभो भयसूदणं च पुंसाम् ‍ ॥१॥

श्रीकृष्ण उवाच ॥ परिपृष्टमिदं जगत्प्रियं ते विबुधानामपि दुर्लभ महात्वात् ‍ । तव भक्तिमतस्तथापि वक्ष्येब्रतमिन्द्रासुरदानवेषु गुह्यम् ‍ ॥२॥

पुण्यमाश्वयुजे मासि विशोकद्वादशीव्रतम् ‍ । दशम्यां लघुभुग्विद्वानारभेन्नियमेन तु ॥३॥

उदङ्‍मुखः प्राङ्‍मुखो वा दन्तधावनपूर्वकम् ‍ । एकादश्यां निराहारः सम्यगभ्यर्च्य केशवम् ‍ ॥४॥

विधिवत्त्वां समभ्यर्च्य मोक्ष्यामि अपरे‍ऽहनि । एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः ॥५॥

" स्त्रानं सर्वौषधैः कुर्यात्पञ्चगव्यजलेन तु । शुक्लमाल्याम्बरस्तद्वत्पुजयेच्छ्रीशमुत्पलैः ॥६॥

विशोकाय नमः पादौ जङ्‍धे च वरदाय वै । श्रीशाय जानुनी तद्वदरू च जलशायिने ॥७॥

कन्दर्पाय नमो गुह्ये माधावाय नमः कटिम् ‍ । दामोदरायेत्युदरं पार्श्वे च विपुलाय बै ॥८॥

नाभिं च पद्मनाभाय ह्रदथं मन्मथाय वै श्रीधराय़ विभोर्वक्षः करौ मधुभिदे नमः ॥९॥

चक्रिणे नामबाहुं च दक्षिणं गदिने नमः । चैकुण्ठाय नमः कण्ठाय नमः कण्ठमास्यं यज्ञनुखाय वै ॥१०॥

नासामशोकनिलये वासुदेवाय चाक्षिणी । ललाटं वामनायेति किरीटं विश्वरूपिणे ॥११॥

नमः सर्वात्मने तद्वच्छिर इत्यभिपूजयेत् ‍ । एवं संपूज्य गोविन्दं फलमाल्यानुलेपनैः ॥१२॥

ततस्तस्याग्रतो भव्यं स्थण्डिलं कारयेन्मृदा । चतुरस्त्रं समन्द्वाच्चरत्निमात्रमुदग्भवम् ‍ ॥१३॥

नदीवालुकया पूर्णं लक्ष्म्यकृतिं कृती न्यसेत् ‍ । स्थण्डिले सूर्यमागेप्य लक्ष्मीमित्यर्चयेद्‍बुधः ॥१४॥

नमो देव्यै नमः शात्त्यै नमो लक्ष्म्यै नमः श्रिये । नमः पुष्टन्यै नमो द्दष्टन्यै नमो नमः ॥१५॥

विशोका दुःखनाशाय विशोका वरदास्तु मे । विशोका वास्तु संतत्यै विशोका सर्वसिद्धये ॥१६॥

ततः शुक्लाम्बरधरो शूर्पं संवेष्टन्य पूजयेत् ‍ । भक्ष्यैर्नानाबिधैस्तद्वत्सुवर्णकमलेन च ॥१७॥

राजनीषु च सर्वासु पिवेद्दर्भोदकं ब्रती । ततस्तु नृत्यगीतादि कारयेत्सर्वराव्रिकम् ‍ ॥१८॥

यामव्रये व्यतीते तु सुप्त्वा स्वस्थोपमानसः । अभिगम्य च विप्राणां मिथुनानि सदार्चयेत् ‍ ॥१९॥

शक्तितस्त्रीणि चैकं वा बस्त्रमाल्यानुलेपनैः । शयनस्थानि पूज्यानि नमोऽस्तु जलशायिने ॥२०॥

ततस्तु गीतवाद्याद्यै राव्रौ जागरणे कृते । प्रभाते विमले न्मानं कृत्वा दाम्प्त्यमर्चयेत् ‍ ॥२१॥

भोजनं च यथाशक्त्या वित्तशाठन्य विवर्जितः । भुक्त्वा श्रुत्वा पुराणानि तद्दिनं त्वतिवाहयेत् ‍ ॥२२॥

अनेन विधिना सर्वं मासि समाचरेत् ‍ । व्रतान्ते शयनं दद्याद्‍गुडधेनुसमन्वितम् ‍ ॥२३॥

सोपिधानकविश्राममास्तरावरणं शुभम् ‍ । यथा न लक्ष्मीर्देवेश त्वां परित्यज्य गच्छति ॥२४॥

तथा कुरु यथयोग्यमशोकं चास्तु मे सदा । यधा देवेन रहिता न लक्ष्मीर्जायते क्वचित् ‍ ॥२५॥

तथा विशोकता मेऽस्तु भक्तिरग्र्‍या च केशवे । मन्त्रेणानेन ध्यात्वा तु गुडधेनुसमन्वितम् ‍ ॥२६॥

शूर्पं च लक्ष्म्या सहितं दातव्यं भूतिमिच्छता । उत्पलं करवीरं च बाणमम्लानकुण्डलम् ‍ ॥२७॥

केसरं सिन्दुवारं च मल्लिका गन्धपाटलम् ‍ । कदम्बं कुंकुमं जाती तथान्यैरपि पूजयेत् ‍ ॥२८॥

युधिष्ठिर उवाच ॥ गुडधेनुविधानं मे त्वमाचक्ष्व जगत्पते । किंरूपा केन मन्व्रेण दातव्या तदिहोच्यताम् ‍ ॥२९॥

श्रीकृष्ण उवाच । गुडधेनुविधानं च यद्रुपमि हयाफलम् ‍ । तदिदानीं पवक्ष्यामि सर्वपापप्रणाशनम् ‍ ॥३०॥

कृष्णाजिनं चतुर्हस्तं प्रागेवं विन्यसेद्धुवि । गोमयेनानुलिप्तायां दर्भानास्तीर्य सर्बतः ॥३१॥

लब्धेन काञ्चन काञ्चनं तद्वद्वत्सं च परिकल्पयेत् ‍ । प्राङ्‍मुखीं कल्पयेद्धेनुमुदक्पादां सवत्तकाम् ‍ ॥३२॥

उत्तमा गुडधेनूः स्यात्सद्या भारचतुष्टया । वत्सं भारेण कुर्वीत द्वाग्यां वै मध्यमा स्मृता ॥३३॥

अर्द्धभारेण वत्सः स्यात्कनिष्ठाभारकेण तु । चतुर्थाशेन वत्सः स्स्यादगुहवित्तनुसारतः ॥३४॥

धेनुवत्सौ कृतावेतौ सितसूक्ष्माम्बरावृतौ । शुक्तिकर्णाविक्षुपादौ शुक्तिमुक्ताफलेक्षणौ ॥३५॥

सितसूव्रशिरालौ तु सितकम्बलकम्बलौ । ताम्रगल्लकपृष्ठौ तौ सितचामररोमकौ ॥३६॥

विद्रृमभ्रूयुगावेतौ नवनीतस्तनान्वितौ । क्षौमपुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ ॥३७॥

सुवर्णशृङ्गभरणौ राजतखुरसंयुतौ । नानाफलसमायुकौ घ्रानगन्धकरण्डकौ ॥३८॥

इत्येवं रचवित्वा तु धूपदीपैरथार्चयेत् ‍ । या लक्ष्मी सर्वभुतानां या च देवे व्यस्थिता ॥३९॥

धैनुरूपेण सा देवी मम पापं व्यपोहतु । विष्णोर्वक्षसि या लक्ष्मी स्वाहा या च विभावसौ ॥४०॥

चन्द्रार्कशक्रशक्तिर्या धेनुर्वरदास्तु सा श्रिये । चतुर्मुखस्य या लक्ष्मीर्या लक्ष्मीर्धनदस्य च ॥४१॥

या लक्ष्मीर्लोकपालानां सा धेनुर्वरदास्तु मे । स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां पुनः ॥४२॥

सर्वपापहरा धेनुस्तस्माद्भूतिं प्रयच्छ मै । एवमामन्व्र्य तां धेनुं ब्राह्मणाय निवेदयेत् ‍ ॥४३॥

विधानमेतद्धेनूनां सर्वासामिह पठन्यते । यास्तु पापविनाशिन्यः श्रूयन्ते दश धेनवः ॥४४॥

तासां स्वरूपं वक्ष्यामि नामानि च नराधिप । प्रथमा गुडधेनुः स्याद् ‍ घृतधेनुरथापरा ॥४५॥

तिलधेनुस्तृतीया स्याच्चतुर्थी मधुधेनुका जलधेनुः पञ्चमी तु षष्टी तु क्षीरसंभवा ॥४६॥

सप्तमी शर्कराधेनुर्दधिधेनुरथाष्टमी । रसधेनुश्च नबमी दशमी स्यात्स्वरूपतः ॥४७॥

कुम्भाः स्युर्दशधेनूनामितरासां तु राशयः सुवर्णधेनुमप्यव्र केचिदिच्छन्ति मानवाः ॥४८॥

नवनीतेन रत्नैश्व तथाप्यन्ये महर्षयः । एतदेव विधानं स्यात्त एवोपस्काराः स्मृताः ॥४९॥

मन्व्रवाहनसंयुक्तां सदा पर्वणि पर्वणि । यथाश्रद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदा ॥५०॥

गुडधेनुप्रसङ्गेन सर्वास्तव मयोदिताः । अशेषयज्ञफलदाः सर्वपापहराः शुभाः ॥५१॥

व्रतानामुत्तमयंत्स्याद्विशाकेद्वादशीब्रतम् ‍ । तदङ्गत्वेन चैवैषा गुडधेनुः प्रशस्यते ॥५२॥

अयने विषुवे पुण्ये व्यतीपातेऽथवा पुनः । गुडधेन्वादयो देया उपरागादिपर्वसु ॥५३॥

विशोकद्वादशी चैषा सर्वपापहरा भुभा । यामुपोष्य नरो याति तद्विष्णोः परमं पदम् ‍ ॥५४॥

इहलोके तु सौभाग्यम युरारोग्यमेव च । वैष्णवं पदमान्पोति मरणे सद्नतिर्भवते ‍ ॥५५॥

भवार्बुदसहस्त्राणि दश चाष्टौ च धर्मवित् ‍ । न शोकदुःखदौर्गत्यं तरय संजायते नृप ॥५६॥

नारी वा कृरुते या तु विशोकद्वादशीमिमाम् ‍ । नृत्यगीतपरा नित्य सपि तत्फलमान्पुयात् ‍ ॥५७॥

इति पठति य इत्थं यः शृणोतीह सम्यङ्‍मधुमुरनरकारेरर्चनं यश्व पश्येत् ‍ । मतिमपि च जनानां यो ददातीन्द्रलोके वसति स विबुधाध्यैः पूज्यमानः सदैव ॥५८॥ [ ३६०४ ]

इति श्रीभविष्ये महापुराणउत्तरपर्वणि श्रीकृष्णयुधिष्टिरसंवादे विशोकद्वादशीव्रतं नाम चतुरशीतितमोऽध्यायः ॥८४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:25.5070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

laminated rolled stock

  • स्त्री./अ.व. पटलित लाटीव वस्तू 
RANDOM WORD

Did you know?

I want Ganesh Puran marathi book which is on your site by Balbheem Bhat.
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.