TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ३

उत्तर पर्व - अध्याय ३

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ३
युधिष्ठिर उवाच ॥
कीद्दशी कृष्ण सा माया विष्णोरमिततेजसः । यया व्यामोहितं यच्च जगदेतच्चराचरम्‍ ॥१॥
श्रीकृष्ण उवाच ॥
श्वेतद्वीपे पुरा विष्णुरास्ते चक्रगदाधरः वासुदेवः सगरुडः सचक्रश्व श्रिया सह ॥२॥
नीलोत्पलदलश्यामः कुण्डलाभ्यां विभूषितः । भ्राजते मुकुटोद्‍द्योतकेयूरवनमालया ॥३॥
तस्य द्रष्ट्रमथाभ्यागान्नारदो मुनिसत्तमः । प्रणम्य स्तुतिभिर्देवं प्राहद विस्मयान्वितः ॥४॥
संशयं परिपृच्छामि भगवन्व्रक्तुमर्हसि । का माया कीद्दशी मांया किंरूपा च कुतस्तथा ॥५॥
तस्या दर्शय मेंरूपं मायायाः पुरुषोत्तम । यया मोहयते सर्वं वैलोक्य सचराच रम्‍ ॥६॥
आब्रह्म तम्बपर्यन्तं सदेवासरमानुषम्‍ । वैकुण्ठं वासुदेवं च प्रसादं कतुमहसि ॥७॥
एवमुक्तस्तु मुक्षिना देवदेवो जनार्दनः । प्रहस्योवाच देवर्षे न कार्यं मायया त्वाया ॥८॥
भूयोऽपि मोहयामास सोमग्राहेण नारदम्‍ । नारदोपि महाराज प्रोवाचेद पुनःपुनः ॥९॥
मार्थां दर्राय मे देव नान्यदस्ति प्रयोजनम्‍ । अथासौ विष्णुरुथाय श्वेतद्वीपात्‍ पुनर्ययौ ॥१०॥
अङ्रगुल्यग्रेण संगृह्य नारदं मुनिपुङ्गवम्‍ । ततो मार्गगतश्वकं आत्मानं द्विजरूपिणम्‍ ॥११॥
ऋखेदसद्दशः साक्षाद्विष्णुर्बह्मवदास्थितः । वृद्धद्विजोत्तमबपुः संशयो नाल्पकोऽभवत्‍ ॥१२॥
शिखी कमण्डलुधृतो भृगचर्मोपवीतकः । यज्ञशर्मेति संज्ञां च चक्रेऽसावात्मनः प्रभुः ॥१३॥
कुत्वापि कुशतं त्वग्रपविव्रं कृतलक्षणम्‍ । आषयौ स महापृष्ठं जम्बूद्वीपं चचार ह ॥१४॥
वैदिशं माम ननरं वेव्रवत्यास्तटे शुभम्‍ । तस्मिन्सदोद्यमपरो धनधान्यसमृद्धिमान्‍ ॥१५॥
गोमहिष्याजसंपूर्णं पाशुपाल्येन संस्थितः । हलकर्मवृषासक्तो बैश्यजातिरनिन्दितः ॥१६॥
गृहकर्मणि तन्निष्ठः सीरभद्र इति स्मृतः । तस्यान्तिके हरिः साक्षान्नारदेन सहागतः ॥१७॥
तेनाप्यासनसन्मामैः समथेंन कृतादरौ । प्रोक्तं केनाथ किं तुभ्यं साध्यमन्नं न साध्यते ॥१८॥
न वास्मदीयं युष्माकं रोचतेऽन्नं ततो रहिः । प्रहस्य प्रददौ तस्मै वरं द्विजवरो महत्‍ ॥१९॥
उन्नाम्य वक्त्रं चोवाच देवसंस्तुतया गिरा । सन्तु ए बहवः पुव्राः क्षेव्रव्यापारबुद्धयः ॥२०॥
पशुपालगृहासक्ताः शतार्द्धबलवाहनाः तेषां पुव्राश्व पौव्राश्व कृषिवृद्धिप्रवर्द्धकाः ॥२१॥
त्वञ्च वृत्तिशतैर्नित्यं, वर्द्धस्व स्वजनावृतः । इत्युक्त्वा स जगन्नाथो वासुदेव सनारदः ॥२२॥
क्षेव्रे गोस्वामिनामानं द्विजं दद्दशतुश्व तौ । दरिद्रं हलकर्मार्तं मेथ्याद्योपस्करर्दितम्‍ ॥२३॥
भागीरथ्यास्तटे रम्ये वेणिकाग्रामसन्निधौ । तृणगुल्प्रलताच्छन्नक्षेव्रे चिन्ताकुलो हि सः ॥२४॥
ताभ्यां संप्रर्थितो विप्रो भोज्यं प्रादाच्च किञ्चन । सकाशं तव संप्राप्तौ दूरादतिथिधर्मिणौ ॥२५॥
इत्युक्तोऽसौ द्विजश्रेष्ठो हलकर्म बिहाय तत्‍ । आजगाम गृहं तूर्णं ताभ्यां सह ससंभ्रमम‍ ॥२६॥
चक्रे चैवादरं भक्त्या स्वयमासनसत्क्रियाम्‍ पादशौचं तथाभ्यङ्रं कृत्वान्नं च सुंसस्कृतम्‍ ॥२७॥
सह पत्न्या सतनयो भोज्यभुक्तिं चकार सः । भुक्तभोज्यौ च शर्वर्यां सुखं सुप्तौ निशात्यये ॥२८॥
प्रयातौददतुः श्रेष्ठं वरं तस्मै द्विजातये । मा ते भवतु गोस्वामिन्कदाचिदपि कर्षणम्‍ ॥२९॥
मा धान्यं मखसंसान मत्प्रसादाद्‍द्विजोत्तम । इत्युक्त्वा जम्मतुस्तूर्ण पुनः पप्रच्छ नारदः ॥३०॥
किमिदं वद देवेश शापरूपो वरस्त्वया । भद्र गोस्वामिने दत्तः किं च वैश्ये तथाविधः ॥३१॥
इत्युक्तः प्राह देवेशः शृनु नारद मद्वचः । परमार्थं प्रवक्ष्येऽहं तव्र संशयकृन्तनम्‍ ॥३२॥
संवत्सरेण यत्पापं मत्स्यघाती समाचरेत्‍ । तदह्रैकेन कुरुते लाङ्गली नाव्र संशयः ॥३३॥
अतोऽर्थं कृषिपाल्पेन नरकं याति लाङ्गली । तदभावान्न कल्पः स्यात्तेन मोक्षो मयि घ्रुवम्‍ ॥३४॥
मुयि भुक्ते प्रसन्ने वा को विशेषोऽस्य नारद । यदि स्वर्गोऽथवा मोक्षो न संपद्येत तदृथा ॥३५॥
इदानीं हलकालुष्यैः सीरभद्रो चिचेष्टितैः । बहुपापप्रसङ्रेन घोरं नरकमेष्यति ॥३६॥
सपुव्रपौव्रसंतानं ह्रतोर्थं तद्न्हे मया । न भुक्तं न च विश्रान्तं विश्रान्तं द्विजवेश्मनि ॥३७॥
सोऽपि द्विजो मूनिश्रेष्ठ संसारादुत्तरिष्यति । इत्येवं संवदन्तौ च जग्मंतुर्मार्गमुत्तमम‍ ॥३८॥
कन्यकुब्जस्प सामीप्ये सरःश्रेष्ठमपश्यताम्‍ । हंसकारण्डवाकीर्णं चकवाकोपशोभितस्‍ ॥३९॥
पद्मिनीजलकह्लाररक्तोत्पलसितोत्पलैः । छादितं पद्मिनीपव्रैर्मत्स्यैः कूर्मैंर्जलोद्भवैः ॥४०॥
तटै रम्यैर्घनैर्वृक्षैः केतकीखण्डमण्डितम्‍ । केतकीकुसुमामोदैर्लकुचैस्तटमण्डितैः ॥४१॥
दात्यूहशिखिभारूण्डचकोराद्यैश्व सङ्‍कुलम्‍ । कुरबैश्वातकै रम्यं केकाकुलनिनादितम्‍ ॥४२॥
जलकुक्कुटसंगीतं हंससारसशोभितम्‍ । जीवंजीवकहारीतचकोरैरुपशोभितम्‍ ॥४३॥
वसिष्ठस्य मुनेर्नाम्ना विख्यातं श्रीमहोदयम्‍ । अस्मिन्नद्य प्रवेतव्यं महाजनविवेकिनाम्‍ ॥४४॥
स्थातव्यं पुरतस्तेषां तस्मात्स्नानं समाचरेत्‍ । इत्युक्त्वा केशबः पापं सस्नौ प्रागेव तज्जलैः ॥४५॥
यं तीर्थलोकं विख्यातं खात्वा तीरं समाश्रितः । प्रहरे वासुदेवक्ष्य नारदोऽपि भुदा युतः ॥४६॥
आचम्य सस्नौ तीर्थेन क्षणात्तीर्थमवाप्य च । यावदुत्तिष्ठते तोयात्स्त्रत्वा क्रष्टिरुदारधीः ॥४७॥
तावत्खीत्वं समापन्नो नारदः केन वर्ण्यते । यस्यास्तु विस्तुते नवे वक्वं चन्द्रोपमं शुभमू ॥४८॥
स्मरपाशोपमौ कणौं कपोलौ कनकोज्ज्वलौ । नासिका तिलधारेण कामचापोपमे भ्रुवौ ॥४९॥
दशना हरिकैस्तुल्या विद्रुमाभः शुभाधरः । मयूरस्य कलापेन तुल्यं कचनिबन्धनम‍ ॥५०॥
शंखरेखाव्रयेणैव कण्ठदेशो विराजते । माधवीलतया तुल्यौ मञ्जू तस्या भुजौ शुभौ ॥५१॥
युतौ रक्तोत्पलाभासौ पाणी रक्तनखाङ्‍गुली । पीनाबुत्तुङ्गतनुधृत्कठिनी कलशोपमौ ॥५२॥
स्तनावविरलौ स्त्रिष्टधौ चक्रवाकयुगोपमौ । स्वल्पकं सध्यदशें तु मुष्टिग्राह्यमसंशयम्‍ ॥५३॥
नाभिमण्डलगाम्भीर्यं लावण्यं केन वर्ण्यत्ते वलिव्रयेण विकृतं रोमराजिविरजितम्‍ ॥५४॥
नयने च पुनस्तस्या मृग्या इव सुशोमने । नितम्बं बिम्बफलकं मन्मथायतनं शुभम्‍ ॥५५॥
रम्भायुग्मोपमावूरू स्मरबाणनिबन्धनौ । विपरीतरतायासखदभारसहौ द्दढौ ॥५६॥
नवकुन्दलतासासरलं सनिबन्धनम्‍ । जङ्‍घायुगं महाराज गूढगुंल्फायुगं तथा ॥५७॥
रक्ताङ्‍गुलीलतानल्पनखचन्द्रिकयाचितम्‍ । चरणारावन्दयुगलं सरक्तं सुप्रतिष्ठितम्‍ ॥५८॥
सैत्रंविधा तदा नारी सर्वलक्षणपूजिता । बभूव क्षणमाव्रेण जगद्यामोहकारिणी ॥५९॥
क्षीरोदमथनोत्तीर्णी लक्ष्मीमन्यामिवोच्छ्रिताम्‍ । द्दष्ट्रवाप्यदर्शनं प्राप्तो मायया मधुसूदनः ॥६०॥
संग्राप्यते च सा कालसङ्गमा हरिणी यथा । आस्त एकाकिनी मुग्धा कुर्याद्दिगवलोकनम्‍ ॥६१॥
अथाजगाम तं दशं नाम्ना तालध्वजो नृपः । सह सैन्यैः परिवतः पुरन्दर इवामरैः ॥६२॥
गजारूढैर्हयारूढै रथारूढैर्नरोत्तमैः । विमानयानयुम्मस्थैस्तथान्तः पुरिकाजनैः ॥६३॥
ध्वजातपव्रकलिलैरनीकैः परिवारितः । तेन सा सहासा द्दष्टा नारी कमललोचना ॥६४॥
बभूव क्षणमाव्रेण कन्दर्पशरपीडितः । केयं कस्य कुतः प्राप्ता की देवी वाथ मानुषी ॥६५॥
अद्दष्टरूपाप्सरसां काचिद्देवी समागता । अहो रूपं सूरूपाया गोचो परितः पुमान्‍ ॥६६॥
मुमूर्षुर्जायते मोहादनुदिग्धहतो यथा। इति संचिन्त्य हृदये राजा तालध्वजोऽन्तिके ॥६७॥
उवाच नारीं मुग्धां तां शृणु मद्वचनं शुभे । का त्वं कस्य कुतः प्राप्ता देशभेनं शुचिस्मिते ॥६८॥
इत्युक्तं साश्रुचार्वङ्गी प्राह मां विद्धययोनिजाम्‍ । पिव्रा माव्रा विद्दीनां च तद्यथापि कुमारिकाम‍ ॥६९॥
निराश्रयां विदित्वैनांततो राजा स्मरार्दितः । आरोप्य हयपष्ठे तां ततो राजा स्मरार्दितः ॥७०॥
नीत्वा विवाहयामास शास्त्रोक्तविधिना ततः । रेमे प्रासादशृङ्गाग्रे पर्यङ्के सितया तया ॥७१॥
उद्यानभव्यभूमीषु नदीनां पुलिनेषु च । पर्वतानां नितम्बेषु निर्झरेषु गुहासु च ॥७२॥
पद्मखण्डषु फुल्लेषु शोभितेषु सरस्सु च । प्रयागादिषु तीर्थेषु नदीनामाश्रमेषु च ॥७३॥
दिव्यावसथरम्येषु वेलाकूलेषु पार्थिवः । याबद्‍द्वादशवर्षणि एकाहमपि भारत ॥७४॥
ततस्त्रयोदशे वर्षे तस्या गर्भोऽभवन्मम । एतस्मिन्गर्भसंपूर्णे जातं दीर्घमलाबुकम्‍ ॥७५॥
तद्भेदाहतकुम्भेषु चीजप्रारोहणान्नराः । बभूबुर्द्भातुशून्या वै दिव्यदेहबलोत्कटाः ॥७६॥
पञ्चाशत्सख्यया जाता उपसर्गादिवर्जिताः । आरूढयौवनाः सर्बे सुताः संग्रामकोविदाः ॥७७॥
तेषां पुव्राश्व पौव्राश्व बभूबुः सुरसत्तमाः । युयुधुः शरसङ्‍घातैश्वक्रशूलासिपद्दिशैः ॥७८॥
हयैरन्यैर्गजैरन्यैः क्रोधान्धाः कौरवा इव । पाण्डवैः सह सङ्‍ग्रामे युयुधुः क्षयमञ्जसा ॥७९॥
सपदातिगजारोहाः सान्तःपुरयुगेच्छया । विनेशुरब्धिमासाद्य सिन्धूनां प्रवश इव ॥८०॥
सासिसबलविस्ताराः सदर्पाः समहोच्छ्रयाः । इन्द्रलोकोपमं सर्वं कुलं नष्टं क्षणं तदा ॥८१॥
सा द्दष्टा नारदी योषा विनष्टं स्त्रकुलं रणे । रुरोद स्त्रेहसंयुक्तै । सैः कलुषया गिरा ॥८२॥
हा दैव हा विधे पाप हा कृतान्त नमसकृत । दर्शयित्वा निधानं मे पुननेंव्रे ह्रते त्वया ॥८३॥
इत्युकत्वा स्वमुरो घातैर्जघान भृशदुःखिता । भूमौ मूर्च्छातुरा भूत्वा पुनः प्राप्ता विचेतसा ॥८४॥
सोऽपि राजा  विषण्णोऽसौ निर्विण्णः शोकसागरे । भूमौ निपतितो दुःखाद्रुरोद भृशदुःखितः ॥८५॥
विषण्णो मन्व्रिभिः सार्धं वृद्धशोकेन संयुतः । एतस्मिन्नन्तरे विष्णुराजगाम द्विजैः सह ॥८६॥
द्विजवेषपरिच्छन्न उपविष्टः सुखासने । ततः सस्सरो भूत्वा चक्रं धर्मार्थदर्शनात्‍ ॥८७॥
किं रोदिनेन बहुना युवयोः क्लेशकारिणा । श्रूयतां विष्णुमायैषा स्वप्रवच्च धनोपमा ॥८८॥
शोभने याद्वशं शोकं कृत्वा संसारसागरे । सर्वेषामेव भूतानां परिणामोऽयमीद्दथः ॥८९॥
पुरन्दरसहस्त्राणि चक्रवर्तिशतानि च । निर्वापितानि कालेन दीपनेनेव वह्रिना ॥९०॥
येऽपि शोषयितुं शक्ताः समुद्रां ग्राहसङ्‍कुलम्‍ । कुर्युश्व करयुग्मेन चूर्णं मेरुं महीतले ॥९१॥
उद्धर्तुं धरणीसंज्ञां ग्रहीतुं चन्द्रभास्करौ । प्रविष्टास्ते तु कालेन कृतान्तवदन तदा ॥९२॥
दुर्गा व्रिकूटं परिखाः समुद्रा रक्षांसि योद्धा धनदाच्च वित्तम्‍ । मन्व्रं च यस्याशनसंप्रणीतं स रावणो दैवशाद्विषणः ॥९३॥
संग्रामे गजतुरगसमाकुलेऽपि वा स्यादग्नौ वा क्षितिविवरे महोदधौ वा । सर्वैर्वा सह वसतामुदीर्णकोपैर्नाभाव्यं भवति कदाचिदेव नाशः ॥९४॥
पातालमाविशतु यातु सुरेन्द्रलोकमारोहतु क्षितिधराधिपतिं सुमेरुम‍ । मन्व्रौषधिप्रहरणैश्व करोतु रक्षां यद्भावि तद्भवति नाथ विभावितोऽरिम ॥९५॥
रोदिति कश्विदथाधुधौताननगुरुतरशोकविह्रलः । प्रविकटचाणवानपि नृत्पति कश्रिद्धर्मादिविग्रहः ॥९६॥
गायति ह्र्दयहारि सुखनिर्भरमायतविस्तृताधरोऽधिकन्‍ । संसार एष रङ्गेदरगतनटकर्मतुल्य एबायम्‍ ॥९७॥
इत्येवं धर्ममुद्दिश्य विष्णुः संसारचेष्टितम्‍ । तूष्णीं बभूवानुपदं ततस्ते द्विजपुङ्गवाः ॥९८॥
उत्तिष्ठ स्त्राहि पुव्राणां प्रकुरुष्घौर्ध्वदोहिकम्‍ । मा शोकं विष्णुमायैषा विष्णुना निर्मितं स्वयम्‍ स्वयम्‍ ॥९९॥
इत्युवत्वा चारुसर्वाङ्रीं स बभूवाचलः पुमान्‍ । स एष सद्दशाकारो नारदस्तत्क्षणोऽभवत्‍ ॥१००॥
सोऽपि राजा । ददर्शाथ त्तं समं व्रिपुरोहित्तः । सान्तःपुरमिदं सर्वमिन्द्रजालोपमं क्षणात्‍ ॥१॥
नारदं मुनिशावूलं जटाभारभयानकम्‍ । गौरवर्ण ज्वलन्तं च ब्राह्मन्या लक्ष्म्या विराजितम्‍ ॥२॥
शिखाकमण्डलुघर बीणादण्डकरं तथा । ब्रह्मसूत्रेण शुभ्रेण कौपीनाच्छादनेन च ॥३॥
पादुकाभ्यां स्थितं तीरे सरसो ब्राह्मणासने । संग्रगृह्य कराग्रेण जगामादर्शनं हरिः ॥४॥
अम्बरेण सुरैः सार्द्धं तस्माद्देशाद्युधिष्ठिरः । श्वेतद्वीपमथासाद्य प्राह देवो मुनिं नृप ॥५॥
देवर्षे यत्त्वया पृष्टं पूर्वं मायाकथां प्रति । माया ययेद्वशी माया यत्स्वरूपा यदात्मिका ॥६॥
सा ते मायामया ब्रह्मन्वैष्णची संप्रदर्शिता । एवमुक्त्वा मुनिवरं देवदेवो जनार्दनः ॥१०७॥ [१९२]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मायादर्शन नाम तृतीयोऽध्यायः ॥३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:21.0670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

apiculus

  • न. Bot. (a short point) तीक्ष्णाग्रक 
RANDOM WORD

Did you know?

मृत व्यक्तिचे वेगवेगळ्या धर्मात वेगवेगळ्या दिवशी संस्कार कसे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site