TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ५४

उत्तर पर्व - अध्याय ५४

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ५४

श्रीकृष्ण उवाच ॥

बुधाष्टमीव्रतं भूयो ब्रवीमि शृणु पाण्डव । येन चीर्णेन नरकं नरः वश्यति न क्कचित् ‍ ॥१॥

पुरा कृतयुगस्यादौ इलो राजा बभूव ह । बहुभृत्यसुह्रन्मिव्रमन्व्रिभिः परिवारितः ॥२॥

जगाम हिमवत्पार्श्वे महादेवेन वारितः । योऽन्यः प्रविशते भूमौ सा स्त्री भवति निश्वितम् ‍ ॥३॥

स राजा मृगसङ्गेन प्राविशत्तदुमावने । एकाकी तुरगोपेतः क्षणात्स्त्रीत्वं जगाम ह ॥४॥

सा बभ्राम वने शून्ये पीनोन्नतपयोधरा । कुतोऽहमागतत्येवं न त्वबुध्यत किञ्चन ॥५॥

तां ददर्श बुधः सौम्यां रूपौदार्यगुणान्चिताम् ‍ । अष्टम्यां बुधवारेण तस्यास्तुष्टो बुधो ग्रहः ॥६॥

दधौ गर्भं तदुदरे इलाया रूपतोषितः । पुव्रमुत्पादयास योऽसौ ख्यातः पुरूरवाः ॥७॥

चन्द्रवंशकरो राजा आद्यः सर्वमहीक्षिताम् ‍ । ततःप्रभृति पूज्ययमष्टमी बुधसंयुता ॥८॥

सर्वपापप्रशमनी सर्वोपद्रवनाशिनी । अथान्यदपि ते वच्मि धर्मराज कथानकम् ‍ ॥९॥

आसीद्राजा विदेहानां मिथिलायां स वैरिभिः । संग्रामे निहतो वीरस्तस्य भार्या दसिद्निणी ॥१०॥

ऊर्मिला नाम बभ्राम महीं बालकसंयुता । अवन्तीविषय प्राप्ता ब्राह्मणस्य निवेशने ॥११॥

चकारोदरपूर्त्यर्थं नित्यं कण्डनपेषणे । हृत्वा सा स्तोकगोधूमान्ददौ बालकयोस्तदा ॥१२॥

कारुण्यान्मातृवात्सल्यात्क्षुधासंपीडन्यमानयोः कालेन बहुना साध्वी पञ्चत्वमगमच्छुभा ॥१३॥

पुव्रस्तस्य विदेहायां गत्वा स्वपितुरासने । उपविष्टः सत्त्वयोगाद्‍बुभुजे गामनकुलः ॥१४॥

अन्विष्य घर्मराज्ञो वै सा कन्या मिथिवंशजा । विवाहिता हिता भर्तुः सा महानायिकाऽभवत् ‍ ॥१५॥

श्यामला नाम चार्वङ्गी प्रसिद्धा श्रूयते श्रुतौ । तामुवाच वरारोहां धर्मराजः स्वयं प्रियाम् ‍ ॥१६॥

बहस्व सर्वव्यापारं श्यामले त्वं गृहे मम । कुरु स्वजनभृत्यानां दानक्षेपं यथेप्सितम् ‍ ॥१७॥

किं त्वेते पञ्चराः सप्त कीलकैरतियस्त्रिताः । कदाचिदपि नोद्धाटन्यास्त्वया वैदेहनन्दिनि ॥१८॥

एवमस्त्विति साप्युक्ता निजं कर्म चकार ह । कदाचिह्याकुलीभूते धर्मराजे विदेहजा ॥१९॥

उद्धाटायित्वा प्रथमं ददर्श जननीं स्वकाम् ‍ । सा पच्यमाना क्रन्दन्ती भीषणैर्यमकिङ्करैः ॥२०॥

हेलया क्षिप्यते बद्‍ध्वा तप्ततैले पुनः पुनः । तथैव तालकं दत्त्दा व्रीडिता सा मनखिनी ॥२१॥

द्वितीये पञ्जरे तद्वन्मातामेव्र ददर्श हा तप्तेन लिप्यमानां तां शिलातल्परसेन तु ॥२२॥

तृतीयपञ्जरे तद्वत्तां ददर्श स्वमातरम् ‍ । क्रकत्तैः पाठन्यते मूर्न्धि धण्टायुक्तैः कराल्वणैः ॥२३॥

चतुर्थे पञ्जरे स्थाने भीषणैर्दारुणाननैः । भक्ष्यमाणैः श्वापदैश्व क्रन्दन्तीं ता पुनः पुनः ॥२४॥

पञ्चमे निहितां भूमौ कण्ठे पादेन पीडिताम् ‍ । संदंशैर्घनघातैश्व विदीणा क्रियते रुषा ॥२५॥

षष्ठे चेक्षुयन्व्रगतां मस्तके मुद्नराहताम् ‍ । संपीडन्यप्नानामनिशं सुद्दढं खण्डखण्डवत् ‍ ॥२६॥

सप्तमे पञ्जरे चीर्णस्वनां पूतिसुगन्धिनीम् ‍ । द्दष्ट्‍वा तथागतां तां तु मातरं दुःखकर्षिता ॥२७॥

श्यामला म्लानवदना किञ्चिन्नोवाच भामिनी । अथागतं यमं प्राह सरोषा श्यामला पतिम ‍ ॥२८॥

किं तवापह्रतं राजन्मम माव्रा सुदारुणम् ‍ । येनेयं विविधैर्घातैर्बध्यते बहुधा त्वाया ॥२९॥

यमः प्राह प्रियां हष्ट्रवा भद्रे ह्युद्धाटितास्त्वया । एते पञ्चरकाः सप्त निषिद्धा त्वं मया पुरा ॥३०॥

तव माव्रा सुतस्नेहाद्नोधूमा ये ह्रताः किल । किं न जानासि ते भद्रे येन रुष्टा ममोपरि ॥३१॥

ब्रह्मस्वं प्रणयाद्भुक्तं दहत्यसप्तमं कुलम् ‍ । तदेव चौर्यरूपेण दहत्याचन्द्रतारकम् ‍ ॥३१॥

गोधूमास्त इमे भूताः कृमिरूपाः सुदारुणाः । ये पुरा ब्राह्मणगृहे ह्रतास्तव कृतेऽनया ॥३३॥

श्यामलोवाच ॥ जानामि तदहं सर्वं पन्मे माव्रा कृतं पुरा । तथापि त्वां समासाद्य सा च जामातरं शुभम् ‍ ॥३४॥

मुच्यते कृमिराशित्वाद्यथा तदधुना कुरु । तच्छ्रत्वा चिन्तयाविष्टश्विरं स्थित्वा जगाद ताम् ‍ ॥३५॥

धर्मराजः सहासीनां प्रियां प्राणधनेश्वरीम् ‍ । इतश्व सप्तमेऽतीते जन्मनि ब्राह्मणी शुभा ॥३६॥

आसीस्तस्मिंस्त्वया मङगत्सखीनां पर्युपासिता । बुधाष्टमी सुसंपूर्णा यथोक्तफलदायिनी ॥३७॥

तत्फलं यदि ददास्यस्यै सत्यं कृत्वा ममाग्रतः । तेन मुच्येत ते माता नरकात्पापसंकटात् ‍ ॥३८॥

तच्छ्रत्वा त्वरितं स्त्रात्वा ददौ पुण्यं स्वकं कृतम् ‍ । स्वनातुः श्यामला तुष्टा तेन मोक्षं जगाम सा ॥३९॥

ऊर्मिला रूपसंपन्ना दिव्यदेहधरा शुभा । विमानवरमारूढा दिव्यमाल्याम्बरावृता ॥४०॥

भर्तुः समीपे स्वर्गस्था द्दश्यते‍ऽद्यापि सा जनैः । बुधस्य पार्श्वे नभसि मिथिराजाभीपतः ॥४१॥

विस्फुरन्ती महाराज बुधाष्टम्याः प्रभावतः ॥४२॥

युधिष्ठिर उवाच ॥ यद्येवं प्रवरा कृष्ण सा तिथिर्वै बुधाष्टमी । तस्या एव विधिं ब्रूहि विधानं च विशेषतः ॥४३॥

तस्या एव विधिं ब्रूहि यदि तुष्टोऽसि मे प्रभो ॥४४॥

श्रीकृष्ण उवाच ॥ शृणु पाण्डव यत्नेन बुधाष्टम्या विधिं शुभम् ‍ । यदा यदा सिताष्टम्यां बुधवारो भवेद्यदि ॥४५॥

तदा तदा च सा ग्राह्या एकभक्ताशनैर्नृभिः । स्त्रात्वा नद्यां तु पूर्वाह्ले गृहीत्वा कलशं नवम् ‍ ॥४६॥

जलपूर्णं तु सद्रव्यं पूर्णपाव्रसमन्वितम् ‍ । अष्टवारं प्रकर्तव्या विधानैस्तु पृथक्पृथक् ‍ ॥४७॥

प्रथमा मोदकैः कार्या द्वितीया फेणकैस्तथा । तृतीया घृतपूपैश्व चतुर्थी वटाकैर्नृप ॥४८॥

पञ्चमी शुभ्रकारैश्व षष्ठी आपूपकैस्तथा । अशोकवर्तिभिः शुभ्रैः सप्रमी खण्डसंयुतैः ॥४९॥

अष्टमी फलफुष्पैश्व केवलैः खण्डफेणिकैः । एवं क्रमेण कर्तव्याः सुह्रत्स्वजनबान्धवैः ॥५०॥

सह कृत्वा स्थितैर्भोज्य भोक्तव्यं स्वस्थमानसैः । उपाषाणामिदं श्रेष्ठ कर्तव्यं वै शनैः ॥५१॥

श्रुत्वाष्टमी बुधस्यापि माहात्म्यं भोजनं त्यजेत् ‍ । तावदेव हि भोक्तव्यं कथा यावत्समाप्यते ॥५२॥

तथा भुक्त्वा बुधस्याग्रे आचम्य च पुनः पुनः विमाय वेदविदुष तं ब्रुवन्प्रतिपादयेत् ‍ ॥५३॥

साक्षत्म सहिरण्यं च जातरूपमयं शुभम् ‍ । अर्चितं विविधैः पुष्पैर्धूपदीपैः सुगन्धिभिः ॥५४॥

पीतवस्त्रैः समाच्छन्नम बुधं सोमात्मजाकृतिम् ‍ । माषकेण सुवर्णेन तदर्धार्धेन वा पुनः ॥५५॥

ॐ बुधाय नमः । ॐ सोमात्मजाय नमः । ॐ दुर्बुद्धिनाशनाय नमः । ॐ मुबुद्धिप्रदाय नमः । ॐ ताराजाताय नमः । ॐ सौभ्याग्रहाय नमः। ॐ सर्वसौख्यप्रदाय नमः । एते पूजामन्व्राः ॥ श्रष्टमी तु यदा पूर्णा तदा राजर्षिसत्तम । ब्राह्मणान्भोजयेदष्टौ गां दद्याच्च सवत्सकाम् ‍ ॥५६॥

वस्त्रालङ्करणैः सर्वैर्भूषणौर्विविधैरपि । सपत्नीकं समभ्यर्च्य कर्णमाव्राङ्‍गुलीयकैः ॥५७॥

मन्व्रेणानेन कौन्तेय दद्यादेवं समाचरन् ‍ । बुधोऽयं प्रतिगृह्लातु द्रव्यस्थोऽयं बुधः स्वयम् ‍ ॥५८॥

दीयते बुधराजाय तुष्यतां च बुधो मम ॥५९॥

इति दानमन्व्रः ॥ बुधः सौभ्यस्तारकेयो राजपुव्र इलापतिः । कुमारो द्विजराजस्य यः पुरूरवसः पिता ॥६०॥

इति प्रतिग्रहणमन्व्रः । दुर्बुद्धिबाधजनितं नाशयित्वा च मे बुधः । सौख्यं च सौमनस्य च करोतु शशिनन्दनः ॥६१॥

इत्युच्चार्य गृहीत्वा तु दद्यान्मन्व्रपुरःसरम् ‍ । सप्तजन्मनि राजेन्द्र जातो जातिस्मरो भवेत् ‍ ॥६२॥

धनधान्यसमायक्तः पुव्रपौव्रप्रवर्द्धनम् ‍ । दीर्घायुर्विपुलान्भोगान्भुक्त्वा चैव महीतले ॥६३॥

ततः सुतीर्थे मरणं ध्यात्वा नारायणं विभुम् ‍ । मृतोऽसौ स्वर्गमान्पोति पुरन्दरसमो नरः ॥६४॥

वसते यावदासृष्टेः पुनराभूतसंप्लवम् ‍ । एवमेतन्मया ख्यातं व्रतानामुतमं व्रतम् ‍ ॥६५॥

एतदेव मया ख्यातं गुह्यं पार्थ बुधाष्टमी । यां श्रुत्वा ब्रह्महा गोन्घः सर्वपापैः प्रमुच्यते ॥६६॥

यच्चष्टमीं बुधयुतां समवाप्य भक्त्या संपूजयेद्विधूप्तुतं घटपृष्टसंस्थम् ‍ । पक्कान्नपाव्रसहितैः सहिरण्यवस्त्रैः पश्येदसौ यमपुरं न कदाचिदेव ॥६७॥ [ २२०० ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे बुधाष्टमीव्रतवर्णन नाम चतुःपञ्चाशत्तमोऽध्यायः ॥५४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:23.7870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

रोटटी मोण्णु तुपांत पळळी

  • ( गो.) पोळीचा तुकडा मोडला पण तो तुपांत पडला. इष्टापत्ति. 
RANDOM WORD

Did you know?

Wife disgracing, defaming her husband, what is the solution ?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site