TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ६९

उत्तर पर्व - अध्याय ६९

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ६९

युधिष्ठिर उवाच ॥

अक्षौहिण्यो दशाष्टौ च मद्राज्यार्थे क्षयं गताः । तेन पापेन मे चित्ते जुगुप्साऽतीव वर्तते ॥१॥

तव्र ब्राह्मणराजन्यवैश्यशूद्रादयो हताः । भीश्मद्रोणकलिङ्गादिकर्णशल्यसुयोधनाः ॥२॥

तेषां वधेन यत्पापं तन्मे मर्माणि कृन्तति । पापपक्षालनं कञ्चिद्धर्मं ब्रूहि जगत्पते ॥३॥

श्रीकृष्ण उवाच ॥ सुमहत्पुण्यजननं गोवत्सद्वादशीब्र्तम् ‍ । अस्ति पार्थ महाबाहो पाण्डवानां धुरन्धर ॥४॥

युधिष्ठिर उवाच ॥ केयं गोद्वादशी नाम विधानं नव्र कीद्दशम् ‍ । कथमेषा समुत्पन्ना कस्मिन्काले जनार्दन ॥५॥

एतत्सर्वं हरे ब्रूहि व्राहि मां नरकार्णवात् ‍ ॥६॥

श्रीकृष्ण उवाच ॥ पुरा कुतयुगे पार्थ मुनिकोटिः समागता । तपश्वचार बिपुलं नानाव्रतधरा गिरौ ॥७॥

द्दर्षेण महता विष्टा देवदर्शनकाङ्क्षया । जम्बूमार्गे महापुण्ये नानातिर्थाविभूषिते ॥८॥

पारियाव्रे सिद्धपाव्रे रम्ये तन्दुलिकाश्रमे । टण्टाविरिति विख्याते उत्तमे शिखर नृप ॥९॥

तापसारण्यमनुलं दिव्यकाननमण्डितम् ‍ । वसिष्ठशुक्राङ्गिरसक्रतुदक्षादिभिर्वतम् ‍ ॥१०॥

वल्कलाजिनसंवीतैर्भूगोराश्रममण्डलम् ‍ । नानामृगगणैर्जुष्टं शाखामृगगणैर्युतम् ‍ ॥११॥

प्रशान्तसिंहहरिणं वस्तु सर्वगतद्रुमम् ‍ । गहनं निर्क्रतं रम्यं लतासन्तानसङ्‍कुलम् ‍ ॥१२॥

सिंहव्याध्रगजिर्भिन्न हरिणैः शम्बरैः शशैः । वराहै रूरुभिश्विव्रैः समन्तादुपशोभितम् ‍ ॥१३॥

तपस्यतां तव्र तेषां मुनीनां दर्शनार्थिनाम् ‍ । व्याजं चक्रे महीनाथ द्वादशाधार्धलोचनः ॥१४॥

बभूव ब्रह्मणे बुद्धो जरापाण्डुरमूर्द्धजः । श्लथचर्मतनुः कुब्जो यष्टिपाणिः सवेपथुः ॥१५॥

उमापि चक्रे गोरूपं शृणु बत्पार्थ याद्दशम् ‍ । क्षीरोदतोयसंभुता याः पुराऽमृतमन्थने ॥१६॥

पञ्च गावः शुभाः पाथं पञ्चलोकस्य मातरः । नन्दा सुभद्रा सुरभी सुशीला बहुला इति ॥१७॥

एते लोकोपकाराय देवानां तर्पणाय च । जमदग्निभरद्वाजवसिष्ठासिगौतमाः ॥१८॥

जगृहुः काद्मदाः पञ्च गावो दत्ताः सुरैस्ततः । गोमयं रोचना भूव्रं क्षीरं दधि धृतं गवाम् ‍ ॥१९॥

षडङ्गानि पविव्राणि संशुद्धिकरणानि च । गोमयादुत्थितः श्रीमान्बिल्ववृक्षः शिवप्रियः ॥२०॥

तव्रास्ते पद्महस्ता श्रीः श्रीवृक्षस्तेन सस्मृतः । बीजान्युत्पलपद्मानां पुनर्जातानि गोमयात् ‍ ॥२१॥

गोरोचना च माङ्गल्या पविव्रा सर्वसाधिका । गोमूव्राद्नग्गुलुर्जातः सुगन्धप्रियदर्शनः ॥२२॥

आहारः सर्वदेवानां शिवस्य च विशेषतः । यद्धीजं जगतः किञ्चित्तज्ञेयं क्षीरसंभवम् ‍ ॥२३॥

दधुः सर्वाणि जातानि मङ्गलान्यर्थसिद्धये । घृतादमृतमुत्पन्न देवानां तृप्तिकारणम् ‍ ॥२४॥

ब्राह्मनाश्वैव गावश्व कुलमेंक द्विधा कृतम् ‍ । एकव्र मन्व्रास्तिष्ठन्ति हविरन्यव्र तिष्ठति ॥२५॥

गोषु यज्ञाः प्रवर्तन्ते गोषु देवाः प्रतिष्ठिताः । गोषु वेदाः समुत्कीर्णाः सषडङ्गपदक्रमाः ॥२६॥

शृङ्गमूळे गवां नित्यं ब्रह्मा विष्णुश्व संस्थितौ । शृङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि च ॥२७॥

शिवो मध्ये महादेवः सर्वकारणकारणम् ‍ । ललाटे संस्थिता गौरी नासावशे च षण्मुखः ॥२८॥

कम्बलाश्वतरौ नागौ नासापुटसमाश्रितौ । कर्णयोरश्विनौ देवौ चक्षुर्भ्यां शशिभस्करौ ॥२९॥

दन्तेषु वसवः सर्वे जिह्रायां वरुणः स्थितः । सरस्वती च कुहरे यमयक्षौ च गण्डयोः ॥३०॥

संध्याद्वयं तथेष्टाभ्यां ग्रीवायां च पुरन्दरः । रक्षांसि ककुदे द्यौश्व पार्ष्णिकाये चव्यवस्थिता ॥३१॥

चतुष्पात्सकलो धर्मो नित्यं जङ्घासु तिष्ठति । खुरमध्येषु गन्धर्वाः खुराग्रेषु च पन्नगाः ॥३२॥

खुराणां पश्विमे भागे राजसाः संप्रतिष्ठिताः । रुद्रा एकादश पृष्ठे वरुणः सर्वसन्धिषु ॥३३॥

श्रीणीतटस्थाः पितरः कपोलेषु च मानवाः । श्रीरपाने गवां नित्यं स्वाहालङ्कारमाश्रिताः ॥३४॥

आदित्या रश्मयो वालाः पिण्डीभूता व्यवस्थिताः । साक्षाद्नङ्गा च गोमूव्रे गोमये यमुना स्थिता ॥३५॥

व्रयस्त्रिंराद्दंवकोटन्यो रोमकूये व्यवस्थिताः । उदरे पृथिवी सर्वा सशौलवनकानना ॥३६॥

चत्वारः सागराः प्रोक्ता गवां ये तु पयोधराः । पर्जन्यः क्षीरधारासु मेघा बिन्दुव्यवस्थिताः ॥३७॥

जठरे गार्हपत्योऽग्निर्दक्षिणाग्निर्ह्रदि स्थितः । कप्ठे आहवनीयोऽग्निः सभ्योऽग्निस्तालुनि स्थितः ॥३८॥

अस्थिव्यव स्थिताः शैला मज्जासु क्रतवः स्थिताः । क्रग्बेदोऽथर्ववदश्व सामवेदो यजुस्तथा ॥३९॥

सुरक्तपीतकृष्णादि गवां वर्णे व्यवस्थिताः । तासां रूपमुमा स्मृत्वा सुरभीणां युधिष्ठिर ॥४०॥

सस्मृत्य तत्क्षणाद्नौरी इयेष सद्दशां तनुम् ‍ । आत्मानं विदधे देवी धर्मराज शृणुष्व ताम् ‍ ॥४१॥

षडुन्नतां पञ्चनिन्नां मण्डूकाक्षीं सुवालविम् ‍ । ताम्त्रस्तनीं रौप्यकटिं सुखुरीं सुमुखीं सिताम् ‍ ॥४२॥

सुशीलां च सुतस्त्रेहां सुक्षीरां सुपयोधराम ‍ । गोरूपिणीमुमा स्पृष्ट्‍वा स्वामिनीं तां सवत्सकाम् ‍ ॥४३॥

चर्यया प्रतरं ह्रष्टो हादेवः स्वचेतसि । शनैः शनैर्ययौ पार्थ विप्ररूपी महाश्रमम् ‍ ॥४४॥

दत्त्वा कुलपतेः पाश्व भृगोस्तां गां न्यवेदयत् ‍ । तपस्विनां महातेजास्तां च सर्वेषु पाण्डव ॥४५॥

न्यासरूपां ददौ धेनु रक्षित्वा तां दिनद्वयम् ‍ । यावत्स्त्रात्वा इतस्तीर्त्वा जम्बूमार्गं वियाम्यहम् ‍ ॥४६॥

रक्षिष्यामः प्रतिज्ञाते मुनिभिः सुरभीमिमाम् ‍ । अन्नर्द्धिमगमद्देवः पुनर्व्याघ्रो बभूव ह ॥४७॥

वज्रचक्रनखोदर्वी ज्वलत्पिङ्गललोचनः । जिह्राकरालवदनो जिह्रालाङ्गूलदारूणः ॥४८॥

संप्रायादाश्रमपदं तां च धेनुं सवत्सकाम् ‍ । व्रासयामास त्तां देव मुनीनां दिक्ष्ववस्थितः ॥४९॥

ऋषयोऽपि समाक्रान्ता आर्तनादं प्रचक्रिरे । हा हेत्युच्चैः केचिदूचुर्हुंहुकारैस्तथाऽपरे ॥५०॥

तालास्फोटान्ददुः केचिह्याघ्रं द्दष्टवाऽतिभैरवम् ‍ । सापि हम्भारवांश्वके गौरुत्प्लुत्य सवत्सका ॥५१॥

तस्या व्याघ्रभयातायाः कपिलाषा युधिष्ठिर । पलायन्त्याः शिलामध्ये क्षणं क्षुरचतुष्टयम् ‍ ॥५२॥

व्याघ्रवत्सकयोस्तव्र वन्दितं सुरकिन्नरैः । द्दश्यतेऽतीव सुव्यक्तं तदद्यापि चतुष्टयम् ‍ ॥५३॥

सजलं शिवालेङ्गं च शंभोस्तीर्थं तदुत्तमम् ‍ । यस्संस्पृशति राजेन्द्र स गोवध्यां व्यपाहति ॥५४॥

तव्र स्त्रात्वा महातीर्थे जम्बूमार्गे नराधिप । ब्रह्महत्यादिभिः पापैर्मूच्यते नाव्र संशयः ॥५५॥

ततस्ते मुनयः कुद्धा ब्रह्मदत्तां महास्वनाम् ‍ । जघ्नुर्घटां सुरैर्दत्तां गिरिकन्दरपूरणीम् ‍ ॥५६॥

शब्देन तेन व्याघ्रोऽपि मुक्त्वा गावं सवत्सकाम् ‍ । विप्रैस्तव्र कृतं नाम ढुण्ढागिरिरिति श्रुतिः ॥५७॥

तं प्रप्रश्यन्ति ये पार्थ ते रुद्रा नाव्र संशयः । अथ प्रत्यक्षतां श्रेष्ठस्तेषां देवो महेश्वरः ॥५८॥

शूलपाणिस्त्रिपुरहा कामन्घो वृषभे स्थितः । उमासहायो वरदः सस्वामी सविनायकः ॥५९॥

सनन्दिः सप्रहाकाः सशृङ्गी समनोहरः । श्रोरभद्रा च चामुण्डा घण्टाकर्णांदिभिर्वृतः ॥६०॥

मानृभिर्भूतसङ्‍घातैर्यक्षराक्षसगुह्यकैह । देवदानवगन्धर्वमुनिविद्याधरोरगैः ॥६१॥

प्रणम्य देवदेवाय पत्नीभिः सहितैरुप्रा । गोरूपिणी सवत्सा च पूजिता ब्रह्मचारिभिः ॥६२॥

कार्तिकशुक्लयक्षे तु द्वाद्श्यां नन्दिणिव्रतम् ‍ । ततःप्रभृति राजेन्द्र अवतीर्णं महीतले ॥६३॥

उत्ताप्रपादेन तथा व्रत चीर्णमिदे शृणु । उनानपादनामासीत्क्षव्रियः पृथिवीपते ॥६४॥

तस्य भार्याद्वयं चामीद्रुचिशुघ्नीति विश्रुतम् ‍ । शुघ्नीजातो ध्रुवः पुव्रो बालपादधरोऽलसः ॥६५॥

रुच्याः समर्पितः शुघ्न्या ध्रुवोऽयं रक्षतां सखि । अह करिष्ये शुश्रुषां भर्तुस्तावत्सदा स्वयम् ‍ ॥६६॥

रूची रसवतीं नित्यं प्रत्यहं कुरुते गृहे । अकरोद्भर्तृशुश्रषां शुन्घी नित्यं पतिव्रता ॥६७॥

कदाचित्क्रोधमात्सर्यात्सापत्न्यं दर्शित तया । स्वयं रुच्या बिहत्यासौ शिशुः खण्डलशः कृतः ॥६८॥

तापिकायां तथा स्थाल्यां पक्तसिद्धः सुसंस्कृतः । अन्नभोजनवेलायां ददाति नृपभाजने ॥६९॥

तें वै भक्षयितुं दुष्टा सामिषं भोजन किल । अथ भोजनवेलायां वव्रे जीवितमाप्रवान् ‍ ॥७०॥

तथैव प्रहसन्बालो मातुरुत्सङ्गोऽभवत् ‍ । तं द्दष्टवा महदाश्वर्थं शुन्घी पप्रच्छ विस्मिता ॥७१॥

किमेतद्‍ब्रूहि बृत्तान्तं कस्यय व्युष्टिरुत्तमा । किं त्वयाचरितं किञ्चिदव्रतं दत्तं हुतं तथा ॥७२॥

सत्यं सत्यं पुनः सत्य येन जीवति ते सुतः । मयायं सप्तवारं तु विशल्यशकलीकृतः ॥७३॥

पक्कः स्वयंकृतः स्थाल्यां व्यञ्जनैः सहभोजनैः । परिविष्यमाणः सपूनः कथं जीवितमाप्तवान् ‍ ॥७४॥

किं ते सिद्धा महाविद्यामृनसंजीवनी शुभा । रत्नं मणिर्महाराती योगाञ्जमहौशधम् ‍ ॥७५॥

कथयस्व महाभागे सत्यं सत्यं भगिन्यसि । एवमुक्ते रुचेस्तस्या व्याचख्यौ वत्सगोव्रतम् ‍ ॥७६॥

कार्तिके चैव द्वादश्यां यथा चानुष्ठितं पुरा । ब्रतस्यास्य प्रभावेन पुनर्जीवति मे सुतः ॥७७॥

यथार्थमेतह्याख्यातं ते च गोद्वादशीव्रातम् ‍ । तवापि रूचि तत्सर्वं भविष्यति शुभं प्रियम् ‍ ॥७८॥

एवमुक्तं व्रतं चीर्णं रुच्या पुव्राः सुखंधनम् ‍ । संप्ताप्तं जीवितान्ते च ध्रुवस्थाने निवेशिता ॥७९॥

ब्रह्मणा सृष्टिकारेण रूचिर्भर्व्रा सहासिता । दशनक्षव्रसंयुक्तो ध्रुवः साद्यापि द्दश्यते ॥८०॥

ध्रुवर्क्षे च यदा द्दष्टे लोकः पापैः प्रमुच्यते । युधिष्ठिर उवाच । कीद्दश ताद्वेधानं च तन्मे ब्रूहि जनार्दन ॥८१॥

यत्कृतं शुन्घिवचनाद्रुच्या यदुकुलोद्भव । श्रीकृष्ण उवाच ॥ सप्राप्ते कार्तिके मासि शुक्लपक्षे कुरूत्तम ॥८२॥

द्वादश्यां कृतसंकल्पः स्त्रात्वा पुण्ये जलाशये । नरो वा यदि वा न री एकभक्तं प्रकल्पयेत् ‍ ॥८३॥

ततो मध्याह्रसमथे द्दष्टवा धेनुं सवत्सकाम् ‍ । सुशीलां वत्सलां श्वेतो कपिलां रक्तरूपिणीम् ‍ ॥८४॥

ब्राह्मणक्षव्रियविशां स्त्रीशूद्राणां जनेश्वर । यथाकमेण पूज्येन गन्धपुष्णजलाक्षतैः ॥८५॥

कुङ्‍कुमालक्तकैर्दीपैर्माषान्नवटकैः शुभैः । कुसुमैर्वत्सक चापि मन्व्रेणानेन पाण्डव ॥८६॥

" ॐ माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्थ नाभिः । प्रनुवोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट " नमो नमः स्वाहा ॥८७॥

इत्थं संपूज्य गां द्दष्ट्‍वा पश्वात्तां च क्षमापयेत ‍ । ॐ सर्वदेवमये देवि लोकानां शुभनन्दिनि ॥८८॥

मातर्ममाभिलषितं सफर्ले कुरु नन्दिनि । एवमभ्यर्चयेदेकां गामेतद्धि गवाह्रिकम् ‍ ॥८९॥

पर्युक्ष्य वारिणा भक्त्या प्रणम्य सुरभीं ततः । तद्दिने तापिकापक्कं स्थालीपाकं च वर्जयेत् ‍ ॥९०॥

भूमौ स्वयं ब्रह्मचारी शृणु यत्फलमाप्रुयात् ‍ । यावन्ति गाव्रे रोमाणि गवां कौरवनन्दन ॥९१॥

तावत्कालं स वसति गोलोके नाव्र संशयः । मेरोः पूर्यष्टकं रम्यमिन्द्राग्नियमरक्षसाम् ‍ ॥९२॥

वरुणानिलयक्षाणां रुद्रस्य च युधिष्ठिर । तासामुपरि गालोकस्वव्र याति स गोव्रती ॥९३॥

ऊर्जे सिते द्विदशमेऽहनि गां सवत्सां याः पूजयति कुसुमैर्वटकैश्व ह्रद्यः । ताः सर्वकामसुखभोगबिभूतिभाजो मर्त्ये वसन्ति सुचिरं बहुजीववत्साः ॥९४॥ [ २८१४ ]

इति श्रीभविष्ये महापुराण उत्तरपर्णणि श्रीकृष्णयुधिष्ठिरसंवादे गोवत्सद्वादशीव्रतं नामैकोनसप्ततितमोऽध्यायः ॥६९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:24.6630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सैरा-एक कान सैरा, एक कान बहिरा

  • ( व.) [ सैरा = नीट, चांगला ] एक चांगला व एक वाईट. दोन्ही सारखे, नसणें. 
RANDOM WORD

Did you know?

कोणती वस्तु खाण्यातून वर्ज्य अथवा तिचा त्याग केल्याने काय पुण्य किंवा फळ मिळते?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site