TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ८५

उत्तर पर्व - अध्याय ८५

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ८५

श्रीकृष्ण उवाच ॥

शृणु भूपाल वक्ष्यामि विष्णुब्रतमनुत्तमम् ‍ । विभृतिद्वादशीं नाम सर्वामरनमस्कृतम् ‍ ॥१॥

कार्तिके वाथ वैशाखे मार्गशीर्षी च फाल्गुने । आषाढे वा दशम्यां च शुक्लायां लघुभुङनरः ॥२॥

कृत्वा सायं तनीं संध्या गृह्लीयान्नियम बुधः । एकादश्यां निराहारः समभ्यच्ये जनार्दनम् ‍ ॥३॥

द्वादश्यां द्विजसंयुक्तः करिष्ये भोजनं विभो । तदविन्घेन मे यातु साफल्यं मधुसूदन ॥४॥

ततः प्रभात उत्थाय कृतन्मानजपः शुचिः । पूजयेत्पुण्डरीकाक्षं शुक्लमाल्यानुललेपचैः ॥५॥

भूतिदाय नमः पादौ विशोकाय च जानुनी । नमः शिवायेत्यरू च विश्वमूर्ते नमःकटिम् ‍ ॥६॥

कन्दपीय नमो मेदूमादित्याय नमः करौ । दामोदरायेत्युदरं वासुदेवाय च स्तनौ ॥७॥

माधवायेति ह्रदयं कण्ठं वैकुण्ठिने नमः । श्रीधराय मुखं केशान्केशवायेति पाण्डव ॥८॥

पृष्टं शार्ङ्गधरायेति श्रवणौ वरदाय वै । स्वनान्मा शङ्खचक्रासिगदापरशुपाणये ॥९॥

सर्वात्मने शिरो राजन्नम इत्यभिपूजयेत् ‍ । दशावताररूपाणि प्रतिमासं कमान्नृप ॥१०॥

दत्ताव्रेयं तथा व्यासमुत्पलेन समन्वितम् ‍ । दद्यादनेन विधिना पाखण्डानपि वर्जयेत् ‍ ॥११॥

समाप्यैवं यथाशक्त्या द्वादशद्वादशीर्नरः । संवत्सरान्ते लवणपर्वतेन सह प्रभोः ॥१२॥

शय्यां दद्यान्मुनिश्रेष्ठ गुरवे रससंवुताम् ‍ । ग्रामं च शक्तिमान्दद्यात्क्षव्रें वा भवनान्वितम् ‍ ॥१३॥

गुरुं संपूज्य विधिवद्वत्रालङ्कारभूषणैः । अन्यानपि यथाशकया भोजयित्वा द्विजोत्तमान् ‍ ॥१४॥

तर्पयेद्वस्त्रगोदानैरन्यव्र धनसंचपात् ‍ । अल्पवित्तो यथाशक्त्या स्तोकं रतोकं रतोकं समाचरेत ॥१५॥

यश्वातिनिःस्वः पुरुषो भक्तिमान्माधवं प्रति । पुष्पार्चनविधानेन सकुर्याद्वत्सरत्रयम् ‍ ॥१६॥

अनेन चिधिना यस्तु विभूतिद्वादशीव्रतम् ‍ । कुर्यात्स पापनिर्मुक्तः पितृणां तारयेच्छतम् ‍ ॥१७॥

जन्मनां शतसाहस्त्रं न शोकफलभाग्भवेत् ‍ । न च व्याधिर्भवेत्तस्य न दारिद्रन्यं न वन्धनम् ‍ ॥१८॥

वैष्णवो वाथ शैवो वा भवेज्जन्मनि जन्मनि । यावद्युगसहस्त्राणां शतमष्टोत्तरं भवेत् ‍ ॥१९॥

तावत्स्वर्गे वसेद्राज्भूपतिश्व पुनर्भवेत । पुरा रधन्तरे कल्पे राजसीत्पुष्पवाहनः ॥२०॥

नान्मा लोकेषु विख्यातस्तेजसा सूर्यसन्निभः । तपसा तस्य तुष्टैन चतुर्वत्क्रेण भारत ॥२१॥

कमलं काञ्चनं दत्तं यथाकामगतः सदा । समस्तभृत्यसहितः सान्तःपुरपरिस्थितः ॥२२॥

द्वीपानि सुरलोकं च यथेष्टं विचरत्यसौ । कल्पादौ सप्तमं द्वीपं तस्य पुष्करवासिनः ॥२३॥

लोके संपूजितो यस्मात्पुष्करं द्वीपमुच्यते । तदैव ब्रह्मना दत्तं यानमस्य यतो नृप ॥२४॥

पुष्पवाहनमित्याहुस्तस्मात्तं देवदानवाः ॥२५॥

नागस्य तस्यास्य जगव्रयेपि ब्रह्माम्बुजस्थस्य तपोऽनुभानात् ‍ । पत्नी च तस्याप्रतिमा नरेन्द्र नारीसहस्त्रेरभितोऽभिनन्द्या ॥२६॥

नन्मा च लावन्यवती बभूव या पार्वतीवेष्टतमा भवस्य । तस्यामजानामयुतं बभूव धर्मात्मनामग्रधनुर्धराणाम् ‍ ॥२७॥

तदात्मनः सर्वमवेक्ष्य राजा सुहुर्मुहुविंस्मपमातसा द । सोभ्यागतं पूज्य मुनिप्रवीरं प्रचेतसं वाचमिमां बभाषे ॥२८॥

करमाद्विभूतिरमला मम मर्त्थपूज्था जाया च सर्वविजितामरसुन्दरी या । भार्या त्वनल्पतपसा तु सुतोषितेन दत्त ममाम्बुजगृहं परमप्रसादात् ‍ ॥२९॥

यस्मिन्प्रविष्ट पिकोटिशंत नृपाणां सामात्यकुश्र्जरनवाश्वधनावृतानाम् ‍ नालक्ष्यताक्षगतमम्बरनौरिवेह तारागणैरपि सुरासुरलोकपालैः ॥३०॥

तरमात्किम यजननीजठरोद्भवेन धर्मादिकं कृतमशेषजनातिगंस्यात् ‍ । सत्थङमयाथ तनयैरनया महर्षे माहार्थया तदखिलं कथय प्रचेतः ॥३१॥

तरथ तद्वचनं श्रुत्वा ध्यानेनावेक्ष्य चाखिलम् ‍ । प्रचेतास्तमुवाचाथ शृणु भूप पुरातनम् ‍ ॥३२॥

लुब्धकरवं पुरा राजन्सर्षसत्त्वभयङ्‍करः । आसीदसाधु चरितः सुह्रन्मिव्रविवर्जितः ॥३३॥

यतमध्यो ह्रत्वकेशः वृष्णांङ्गो रक्तलोचनः । धनुष्पाणिर्वनगतः कृतान्तकसमो भवान् ‍ ॥३४॥

अभूदनावृष्टिरतीव रौद्रा कदाचिदाहारनिमित्तरोषः । षद्यान्थथादाय ततो बहूनि गतं पुरंषैदिशनामधेथम् ‍ ॥३५॥

उन्मूल्थ लोभाच पुरं समरतं भ्रान्तंत्वया शेषमहत्तदासीत् ‍ । क्रेता न कश्वित्कमलेषु जातस्तोके भृशं शुत्परिपीडितश्व ॥३६॥

उपविष्टात्वमेकस्मिन्सभार्यो भवनाङ्गणे । अथ मङ्गलशब्दस्तु त्वया राव्रौ तथा श्रुतः ॥३७॥

उपोष्य साघमासस्य द्वादश्यां लवणाचलम् ‍ । निवेदयन्ती सुरवे शय्यां चोपस्करान्विताम् ‍ ॥३८॥

अलङ‍कृत्य ह्रषीकेशं सौवर्णं परमं पदम् ‍ । साथ द्दष्ठाततस्ताभ्यामिं चित्तेऽवधारितम् ‍ ॥३९॥

किमेभिः कमलैः कार्यं वरं विष्णुरलङ्‍कृतः । इति भक्तिस्तदा जाता दाम्पप्यस्य नरेश्वर ॥४०॥

ताप्रसङ्गात्समभ्यर्च्य केशर्व लवणाचलम् ‍ । शय्यां च पुष्णप्रकरैः पूजिताभूच्च सर्वदा ॥४१॥

अथानङ्गवती तुष्टा तयोदर्होनशतव्रयम् ‍ । प्रादानदूगृहीतं ताभ्य़ां च तद्वैविरागतः ॥४२॥

अनङ्गवती च पुनस्तयोरन्नं चतुविंधम् ‍ । आनाय्योपह्रतं कृत्वा भुव्यतामिति भूपते ॥४३॥

ताभ्यां तु तदपि त्यक्तं भोज्यावः श्वो वरानने । प्रसंगाच्योपवसेन आवाभूयात्सुखावहः ॥४४॥

जन्मप्रभृति पापिष्ठाबावां देवि द्दढव्रते । सत्प्रसंगाद्धनुर्मध्ये धर्मलाभरतु चाबयोः ॥४५॥

इति जागरणं ताभ्यां प्रसंगात्तदनुष्ठितम् ‍ । प्रभाते च तया दत्ता शय्या सलवणाचला ॥४६॥

ग्रामश्व गुरवे भक्त्या विप्रेभ्यो द्वादशैव हि । वस्त्रालङ्कारयुक्ताङ्गा गावश्व कनकाश्चिताः ॥४७॥

भोजनं च सुह्रन्मिव्रदीनान्धकृपणैः समम् ‍ । तत्तु लुब्धकदाम्पत्यं पूजयित्वांविसर्जितम् ‍ ॥४८॥

स भवाँलुब्धको जातः सपत्नीको नरेश्वरः । पुष्पाणां प्रकरे तस्मात्केशवस्य प्रपूननम् ‍ ॥४९॥

प्राप्तं सुदुर्लभं वीर त्वया पुष्करमन्दिरम् ‍ । तस्य सर्वस्य महात्म्यादलं न तपसा नृप ॥५०॥

यथाकामगतं दत्तं पद्मयोनिविरिश्चिना । संतुष्टरतस्य राजेन्द्र ब्रह्मरूषी जनार्दनः ॥५१॥

सात्व नङ्गवती वेश्या कोमदेशस्य सांप्रतम् ‍ । पत्नी सपत्नी संजाता रत्या प्रीतिरिति श्रुता ॥५२॥

लोकेष्वानन्दजननी सकलामरपूजिता । तदप्युत्सुज्य राजेन्द्र निर्वाणं समवाप्त्यसि ॥५३॥

इत्युवत्वा स मुनिः सर्वं तव्रैवान्तरधीयत । राजा यथोक्त च पुनः स चक्रे पुष्पवाहनः ॥५४॥

इमामाचरतो ब्रह्मन्नखण्डव्रतमाचरेत ‍ । यथाकथञ्चित्कालेन द्वादश द्वादशीर्मुने ॥५५॥

कर्तव्याः शक्तितो देया विप्रेभ्यो दक्षिणा नृप ॥५६॥

इति कलुषविदारणं जनानामिति पठति शृणोति चातिभक्त्या । सतिमपि च ददाति देवलोके वसति स पराःशतानि वत्सराणाम् ‍ ॥५७॥ [ ३६६१ ]

इति भ्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्टिरसंवादे विभूतिद्वादशीब्रतवर्णनं नाम पञ्चाशीति तमोऽध्यायः ॥८५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:25.5670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

intriguer

  • सा. कारस्थानी 
  • सा. Law कारस्थानी 
RANDOM WORD

Did you know?

what is the history behind " HARI MERE HALAR KI LAKARI" made by Surdasji?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.