TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ३१

उत्तर पर्व - अध्याय ३१

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ३१

युधिष्टिर उवाच ॥

रूपसौभाग्यसुखदं नरनारीजनप्रियम् ‍ । पापापहं बहुफलं सुकरं सूपवासकम् ‍ ॥१॥

ऋद्धिवृद्धिकरं स्वर्ग्य़ं यशस्य सर्वकामदम् ‍ । तन्मे वद व्रतं किञ्चिद्यदि तुष्टोऽसि माधव ॥२॥

श्रीकृष्ण उवाच ॥ शृप्पु पार्थ परं गुह्यं यन्मया कथितं न च । पुरा तव वनस्थस्य तदद्य प्रवदाम्यहम् ‍ ॥३॥

शिवयोरतिसंहर्षाद्रक्तबिन्दुश्वन्युतः क्षितौ । मेदिन्य स प्रयत्नेन विधृतो धृतियुक्तया ॥४॥

तस्माज्जातः कुमारोऽसौ रक्तो रक्तसमुद्भवः । अङ्ग प्रसिद्धमेवेहाङ्गरको वेग उच्यते ॥५॥

शिवाङ्गद्रभसाज्जातस्तेनाङ्रारक उच्यते । अङ्गस्थोऽङ्गरकान्तिश्व अङ्गप्रत्यङ्गसंभवः ॥६॥

सौभाग्यारोग्यकृद्यस्मात्तस्मादङ्रारकः स्मृतः । भक्त्या चतुर्थ्यां नक्तेन यस्तु श्रद्धास्मन्वितः ॥७॥

तं पूजयति यत्नेन नारी वाऽनन्यमानसा । तस्य तुष्टः प्रयच्छेत्स यत्त्वया समुदाहृतम् ‍ ॥८॥

रूपं सौभाग्यसंपन्नं नरनारीमनोहरम् ‍ । युधिष्ठिर उवाच ॥ एतन्मे वद देवेश अङ्गरकविधिं शुभम् ‍ ॥९॥

सहोममन्व्रसंस्थान साधिवासविधानतः । श्रीकृष्ण उवाच ॥ पूर्वं तु कृतसंकल्पः स्नानं कृत्वा बहिर्जले ॥१०॥

स्नानार्थं मृत्तिकां मन्वैर्गृह्लीयादम्भसि स्थितः । त्वं मृदे वन्दिता पूर्वं कृष्णेनोद्धरता किल ॥११॥

तेन मे दह पापौध यन्मया पूर्वसंचितम् ‍ । इम मन्वं पठन्यार्थ आदित्याय प्रदर्शयेन् ‍ ॥१२॥

आदित्यरश्मिसंतप्तां गङ्गजलकणोक्षिताम् ‍ । तां मृद्रं शिरति स्थाप्य पूर्वं दत्त्वाङ्रसन्धिषु ॥१३॥

ततः स्त्रानं प्रकुर्वीत मन्व्रेणान्तर्जले पुनः । त्वमापो योनिः सर्वेषां दैत्यदानवरक्षसाम् ‍ ॥१४॥

स्वेदजोद्भिज्जयोनीनां पतये नमः । स्त्रातोऽ हं सर्वतीर्थेषु सर्वप्रस्त्रवणेषु च ॥१५॥

नदीषु देवखातेष स्त्रानं तेषु च मे भवेत् ‍ । ध्यायन्ध्वनिमिमं मन्व्रं ततः स्त्रानं समाचरेत् ‍ ॥१६॥

ततः स्त्रात्वा शुचिर्भूत्वा गृहमागत्य न स्पृशेत ‍ । न जल्पेत च संवीक्षेत्क्कचित्पापिष्ठमेव हि ॥१७॥

दूर्वाश्वत्थशमीं स्पृष्ट्रवा मां च मन्व्रेण मन्व्रवित् ‍ । दूर्वामप्यस्य मन्व्रेण युतेन समपस्थितम् ‍ ॥१८॥

त्वं दूर्वेऽमृतजन्मासि सर्वदेवैश्व वन्दिता । वन्दिता दह तत्सर्वं यन्मया दुष्कृतं कृतम् ‍ ॥१९॥

दूर्वामन्व्रः ॥ पविव्राणां पविव्रं त्वं काश्यपी पठन्यसे श्रुतां । शमी शमय मे पापं यन्मया दुरनुष्ठितम् ‍ ॥२०॥

शमीमन्व्रः ॥ अश्वर्त्यमङ्गं लभते मन्व्रमेतन्निबोध मे । अक्षिस्पन्द भुजस्पन्दं दुःखप्न दुर्विचिन्तितम् ‍ ॥२१॥

शव्रूणां च समुत्थानमश्वत्थ शमयस्व मे । अश्वत्थमन्व्रः । गां दद्यात्तु ततो देवीं सवत्सां सप्रदक्षिणाम् ‍ ॥२२॥

समालभ्य उ सन्व्रेण मन्व्रमेतमुदीरयेत् ‍ । सर्वदेवमये देवि दैवतैस्त्वं सुपूजिता ॥२३॥

तस्मात्स्पृशामि वन्दामि पापहा भव । गोमन्व्रः ॥ एवं मन्व्रं पठन्पार्थ भक्त्या भावेन भावितः ॥२४॥

प्रदक्षिणां यः कुरुते गां द्दष्टवा वरवर्णिनीम् ‍ । प्रदक्षिणीकृता तेन पृथिवी ना संशयः ॥२५॥

एवं मौनेन चागत्य वन्द्यान्वन्द्य गृह व्रजेत् ‍ । प्रक्षाल्य च मृदा पादौ आहिताऽग्निगृहं विशेट् ‍ ॥२६॥

होमं तव्र प्रकुर्वीत एभिर्मन्व्रैः पदैर्वरैः । शर्वाय शर्वपुव्राय पार्वत्यै गोःसुताय च ॥२७॥

कुजाय लोहिताङ्गय गृहेशाङ्गरकाय च । भूयो भूयो यमाहुत्या हुत्वा हुत्वा जुहोति वै ॥२८॥

ओंकारपूवकैर्मन्व्रैः स्वाहाकारान्तयाजितैः अष्टोत्तरशतं पार्थ अर्द्धमर्धार्धमव्र च ॥२९॥

एभिमन्व्रपदैर्भक्त्या शक्त्या वा कामभेव वा । समिद्भिः खादिरीभिश्व घृतदुग्धैस्तिलैर्यवैः ॥३०॥

भक्ष्यैर्नानाविधैरन्यैः शक्त्या वा मन्व्रविद्वशी । हुत्वाहुतीस्ततः पार्थ देवं संस्थापयेत्क्षितौ ॥३१॥

स्नपन केचिदिच्छन्ति सगुडे तास्त्रभाजने । सौवर्णं रक्त्वर्णं रक्तवर्णं च शक्त्या दारुपय तथा ॥३२॥

कृष्णागरुमयं चैव श्रीखण्डघटितं पुनः । सौवर्णपाव्रे रौप्ये वा अर्च्य कुङ्रकुमकेसरैः ॥३३॥

अन्यैरालोहितैः पार्थ पुष्पैवस्त्रैः फलैः शुभैः । राजन्र्त्वैश्व विविधैरर्थवान्भक्तितोऽर्चयेत् ‍ ॥३४॥

यावद्धि शक्यते चित्तं वित्तवान्भक्तिभावितः । तावद्धि वर्धते पुण्यं दातुः शतसहस्त्रिकम् ‍ ॥३५॥

केचित्तास्त्रमये पाव्रे वशजे मृन्मयेऽपि वा । पूजयन्ति नरा रक्तैः पुष्पैः कुङ्रकुमकेशरैः ॥३६॥

ॐ अङ्गरकाय नमः ॥ शिरसि ॥ ॐ कुजाय नमः ॥ वदने ॥ ॐ भौमाय नमः ॥ स्कन्धयोः ॥ ॐ मङ्गलाय नमः ॥ बाह्रोः ॥ ॐ रक्ताय नमः ॥ उरसि ॥ ॐ लोहिताङ्गाय नमः ॥ कटन्याम् ‍ ॥ ॐ आराय नमः ॥ जङ्रघयोः ॥ ॐ महीधराय नमः ॥ पादयोः ॥ एषाष्टपुष्पिका ॥ पुरुषाकृतिं कृत पाव्रे कुजं मन्व्रैः समर्चयेत् ‍ ॥ गुग्गुलुं घृतसंयुक्तं कृष्णागरुसमन्व्रितम् ‍ । धूपं सद्रव्यजं वापि दद्यात्तव्र समाधिना ॥३७॥

होमं कुर्वीत पूर्वोक्तैर्मन्व्रैर्मङ्रलसंज्ञितैः । एवं प्रणंम्य देवेशं ब्राह्मणाय निवेदयेत् ‍ ॥३८॥

निष्णाव्रक भोजनं वा दद्याच्छक्त्या सदक्षिणम् ‍ । वित्तशाठयं हि कुर्वाणो न मुख्यफलभारभवेत् ‍ ॥३९॥

पश्वाद्भुञ्जीत मौनेन भूमिं कृत्वा तु भाजनम् ‍ । मन्व्रेणानेन चालम्य तन्निबोध मयोदितम् ‍ ॥४०॥

सर्वौषधिरसावासे सर्वदा सर्वदायिनि । त्वत्तलं भोक्तुकामोऽहं तद्भुक्तममृतं भवेत् ‍ ॥४१॥

युधिष्ठिर उवाच ॥ अङ्गरकेण संयुक्ता चतुर्थी नक्तभोजनैः । उपोष्या कतिमाव्रा सा किमेका वद यादव ॥४२॥

श्रीकृष्ण उवाच ॥ चतुर्थी च चतुर्थी च यदाङ्गारकसंयुता । उपोष्य तव्रतव्रैव प्रदेयो विधिना कुजः ॥४३॥

वित्तहीनाः प्रतीक्षन्ते यावद्वित्तोपलम्मनम् ‍ । चतुर्थां च चतुर्थ्यां च विधान शृणु पाण्डव ॥४४॥

सौवर्णयाव्रे कृत्वा तु अङ्गारकमक्रुव्रिमम् ‍ । दशसौवर्णिकं मुख्य़ं दशार्द्धार्द्धमथापि वा ॥४५॥

विंशत्पलानि पाव्राणि विंशत्यर्द्धपलानि च । विंशक्तर्षाणि वा पार्थ अतो न्यूनं न कारयेत् ‍ ॥४६॥

प्रतिष्ठाप्य कुजं नन्व्रैर्वस्त्रैः संपरिवेष्टितम् ‍ । पुष्पमण्डपिकां कृत्वा दिव्यां सद्धूपधूपिताम् ‍ ॥४७॥

तव्र संपूजयेद्देवं पूर्वमन्व्रैर्विधानतः । भक्त्या भोज्यैरनेकैश्व फलै रत्नैश्व सागरैः ॥४८॥

वस्त्रैः प्रावरणैर्यानैः शय्योपानद्वरासनैः । छव्रैः पुष्पैर्गन्धवरैः शक्त्या वित्तानुसारतः ॥४९॥

ततो विप्रं परीक्षेत व्रतशौचसमन्वितम् ‍ । वेदाध्ययनसंपन्नं शास्त्रज्ञं तिरहंकृतम् ‍ ॥५०॥

अङ्गारकव्रिधिं यश्व सम्यग्जानाति शास्त्रतः । आह्रानविधिमन्व्रांश्व होमार्चनविसर्जनम् ‍ ॥५१॥

संपूज्य वस्त्राभरणैस्तस्मै देयः कुजोत्तमः । यथाश्रुतो यथाज्ञातस्तथा भक्त्या ह्युपोषितः ॥५२॥

वित्तसारेण तुष्य त्वं मम भौम भवीद्भवः । पठन्निमं मन्व्रवरं ब्राह्मणाय निवेदयेत् ‍ ॥५३॥

ब्राह्यणश्वाप्यसौ विद्वन्मन्व्रमेतमुदाहरेत् ‍ । मङ्गलं प्रतिगृह्रामि उभयोरस्तु मङ्गलम् ‍ ॥५४॥

दातृप्रतिग्राहकयोः क्षेमारोग्यं भवत्विति । प्रतिग्राहकमन्व्रः ॥ एवं चतुर्थे संप्राप्ते धनप्राप्तिर्न विद्यते ॥५५॥

तदा मन्व्रार्चनपरः पुनरेतां समाचरेत् ‍ । आशरीरनिपाताद्वा यथोक्तफलभाग्भवेत् ‍ ॥५६॥

अल्पवित्तो यथांशक्त्या सर्वमेतत्समाचरेत् ‍ । अङ्गारकेण संयुक्तां वास्त्रां तिलशराविकाम् ‍ ॥५७॥

अनेन विधिना दत्त्वा यथोक्तफळभाग्भवेत् ‍ । एवं चतुर्थीं यो भक्त्या कुजयुक्तामुपोषयेत् ‍ ॥५८॥

तस्य पुण्यफलं यच्च तन्निबोध युधिष्ठिर । इह स्थित्वा चिरं कालं पुव्रपौव्रश्रिया वृतः ॥५९॥

देहावसाने दिव्यौजा दिव्यगन्धानुलेपनः । दिव्यनारीगणवृतो विमानवरमास्थितः ॥६०॥

याति देवपुरं ह्रष्टो देवैः सहाभिनन्दितः । सतव्र रमते काळं देवैः सह सुरेशवत् ‍ ॥६१॥

चतुर्युगानि षट् ‍ व्रिंशत्ततः कालाश्वरे पुनः । इह बागत्थ राजासौ कुळे महति जाषते ॥६२॥

रूपवान्धनवान्धाग्मी दानशीलो दयापरः । नारी च रूपसंपस्त्रा सुभगा जातिसंयुता ॥६३॥

पुव्रपौव्रैः परिवृता भर्व्रा सह रमेच्चिरम् ‍ । रमित्वा सुचिरं काळं पुनः स्वर्गगतिं लभेत् ‍ ॥६४॥

एष ते कथितो राजन्सरहस्यो विधिस्तथा । दुर्लभो यो मनुष्याणां देवानां भद्रमस्तु ते ॥६५॥

अङ्गारकेण सहिता तु सिसा चतुर्थी शस्ता सुरार्चमविधौ पिमृपिण्डदाने भद्रमस्तु ते ॥६५॥

अङ्गारकेण सहिता तु सिता चतुर्थी शस्ता सुरार्चमविधौ पिमृपिण्डदाने । तस्यां कुजं कुष्कुलोद्वह ये‍ऽर्चयन्ति भूमौ भवन्ति बहुमङ्गलभाजनास्ते ॥६६॥ [ १५६९ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे चतुर्थीव्रत अङ्गारकचतुर्थीव्रतवर्णनं नामैकव्रिंशत्तमोऽघ्यायः ॥३१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:22.5830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

शुचिता

  • ना. निर्मलता , पावित्र्य , मांगल्य , शुचित्व , शुद्धता , स्वच्छता . 
RANDOM WORD

Did you know?

पिंपळाच्या झाडाला फक्त शनिवारीच स्पर्श का करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.