TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ९३

उत्तर पर्व - अध्याय ९३

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ९३

श्रीकृष्ण उवाच ॥

चतुर्दशी महाराज हुतभुग्दयिता शुभा । नष्टस्तदा हव्यवाहः पुनरस्तित्वमाप्तवान् ‍ ॥१॥

युधिष्ठिर उवाच ॥ कथमग्निः पुरा नष्टो देव कार्येप्युस्थितः । केनाग्नित्वं कृतं तव्र कथं हि विदितोऽनलः ॥२॥

एतद्वदस्व देवेश सर्वं हि विदितं तव । श्रीकृष्ण उवाच ॥ पुरा सुरा महाराज तारकेन पराणिताः । अपृच्छन्विश्वकर्तारं तारकं का वधिष्यति ॥३॥

उवाचासौ चिरं ध्यात्वा रुद्रोमाशुकसंभवः । गंगास्वाहाग्नितेजोजः शिशुर्दैत्यं वधिष्यति ॥४॥

एवं श्रुत्वा गता देवा यव्र शंभुः सहोमया । प्रणम्य ते तमॄचुर्हि यदुक्तं ब्रह्मणा तदा ॥५॥

प्रतिपन्नंच च रुद्रेण उमया सहितेन तत् ‍ । प्रयन्तमकरोत्तं च यदुक्तममरैस्ततः ॥६॥

दिव्यं वर्षशतं साग्रं गतः कालोऽथ मैथुने । न चाप्युपरमस्तव्र तयोरामीत्कथंचन ॥७॥

भयं च सुमहत्तेषां देवानां समजायत । स रुद्रसंभवो यो वै भविष्यति महावलः ॥८॥

सदौत्यान्दानवगणान्वधिष्यति न संशयः । केन कालेन भवति रतेर्विरतिरैतयोः ॥९॥

एतद्विचिन्त्यप्रहितौ देवैस्तव्रानिलानलौ । गतौ तौ चोमया द्दष्टौ समस्थौ विषमस्थया ॥१०॥

शशाप च रुषा देवी देवान्गर्भविवर्जिता । यरमात्तैर्जनितं विघ्नमपत्यार्थं दिवौकसाम् ‍ ॥११॥

अथोवाच तदा देवो देवान्सर्वगणाञ्छनैः । अग्निर्गृह्लातु वीर्यं मे संभृतं सुचिरं हि यत् ‍ ॥१२॥

एवमुक्तोऽथरुद्रेण नष्टोऽग्निर्देवसंकुलात् ‍ । न खस्थो न भुविस्थो वा न सूर्यस्थो न भूतले ॥१३॥

देवा अन्वेषणे यत्नमकुर्वन्नग्निदर्शने । कृमिकीटपतंगाश्व अष्टौ च व्रिदिवौकसः ॥१४॥

हंसाः केकाः शुक्ता वह्रिः शीघ्रं शरवणं गतः । शशापाग्निर्गजाञ्जिह्राद्विगुणा वो भविष्यति ॥१५॥

द्दष्टवाथ विबुधाः सर्वे पक्षिणं पक्षिणांवरम् ‍ । जीवंजीवकनामानं भो भो सत्यं वदस्व नः ॥१६॥

कच्चिद्दृष्टस्त्वया वह्रिर्वनेऽस्मिनटता सदा । न भद्रं नाप्यभद्रंवाकिञ्चिदेव वचोऽब्रवीत् ‍ ॥१७॥

भूयोभूयस्तु पृष्टोऽपि न गामुच्चरयेच्चिरम् ‍ । तुष्टस्तस्याब्रवद्विह्रिजर्विंजीव वदामि ते ॥१८॥

यरमान्न किञ्चिदुक्त ते तस्माच्चिव्रतनूरुहाः । जीवंजीव पुनर्जीव यावदिच्छा तथायुषः ॥१९॥

द्वितीयं ते वरं द्वद्मि जीवंजीवक शोभनम् ‍ । व्यक्ता ते मानुषी वाचा स्पष्टार्था च भविष्यति ॥२०॥

कश्विद्यदि तवा धस्ताद्‍बुधः स्त्रानं करिष्यति । वृद्धोवा षोडशाब्दीयः क्षणाद्वालो भविष्यति ॥२१॥

मांसंयश्वत्वदीयं वैभक्षायिष्यत्यनिंदितम् ‍ । अनरः सोऽमरश्वैव सर्वकालं भविष्यति ॥२२॥

मान्दत्वा वरांस्तस्य वह्रि त्वमथ आप्तवान् ‍ । विवुधा अपि तव्रैव तमपश्यंत वंशगम् ‍ ॥२३॥

ऊष्मया जातकल्मापं ज्ञात्वा संह्रष्टमानसः। तुष्टांशमथोचुस्तेदेवास्त्रिभुवनेश्वराः ॥२४॥

ऊष्मया कल्मषी भूत्वा अग्निर्गर्भं घरिष्यति । यो गृही वैणवीं यष्टिं ब्रह्मचारी च नैष्टिकः ॥२५॥

व्रेताग्निपालने पुण्यं यद्दष्टं ब्रह्मवादिभिः। अतो वै वैणवी यष्टिस्तं प्रान्पोति द्विजोत्तम ॥२६॥

वंशस्यानुग्रहं कृत्वा अग्निं वै ते तथाब्रुवन । गृह्लीत शुकं रुद्र्स्य तव पुव्रो भविष्यति ॥२७॥

युधिष्ठिर उवाच ॥ यदाग्निर्नष्टोदेवानांकेना ग्नित्वं तदा कृतम् ‍ । भूयोऽपि केन कालेन अग्निरग्नित्वमाप्तवान् ‍ ॥२८॥

कृष्णउवाच ॥ शुणु राजन्प्रनष्टेऽग्नौ येनाग्नित्वं कृतं स्फुटं । यस्मिन्काले तिथौ यस्यां पुनरग्नित्वमाप्तवान् ‍ ॥२९॥

उतथ्याङ्गिरसोः पूर्वमासीद्यतिकरो महान् ‍ । अहं विद्यातपोभ्यां वै तव्र ज्यायाञ्छुतेन च ॥३०॥

उत्तथ्यैनैवमुक्तस्तु अङ्गिराः प्राह तं मुनिम् ‍ । गच्छावो ब्रह्मसदनं मरीचिप्रमुखैर्द्विजैः ॥३१॥

उपेतं चान्यमुनिभिर्ब्रह्मराजषिंसत्तमैः । उतथ्यः प्राह विप्रान्सऋर्षीस्तान्स्तब्धमानसः ॥३२॥

ज्यायाःवा कतमोऽस्माकमिति नः कथ्यतां स्फुटम् ‍ । अथोवाच मुनिर्ब्रह्या तावुभौ कुद्धमानसौ ॥३३॥

आनयध्वं द्रुतं गत्वा विबुधान्भुवनेश्वरान् ‍ । ततो विवादं पश्यामि भवनांतैः समेत्य च ॥३४॥

ततस्तौ सहितौ गत्वाऽऽनिन्यतुश्व ऋषींस्तदा । लोकपालान्महेंद्रादीन्सयमान्वारुणानिलान् ‍ ॥३५॥

साध्यान्मरुद्ननान्विश्वानृषीन्भृग्वव्रिनारदान् ‍ । गंधर्वान्वित्तरक्षोन्घान्नाक्षसान्दैत्यदानवान् ‍ ॥३६॥

नायातस्तव्र तिग्मांशुःसर्वे नान्ये समागताः । द्दष्टवा तु विबुधान्सर्वान्व्रह्मा प्रोवाच तानृषीन् ‍ ॥३७॥

आनयध्वभितः सृर्यं सान्मा दंडेन वा पुनः । एवमुक्तो गतस्तावदुतथ्यः सृर्यमंडलम् ‍ ॥३८॥

स गत्वा प्राह मार्तण्डं शीघ्रमेह्येव संविदम् ‍ । स उतथ्यमथोवाच कथं ब्रह्मन्व्रजाम्यहम् ‍ ॥३९॥

कथं प्रकाशः स्थाता वै भुवने मयि निर्ग्ते । एवमुक्तो मुनिः प्रायात्सर्वदेवसमागमम् ‍ ॥४०॥

आचचक्षे च यव्रोक्तं भास्वता तं मुनिं प्रति । उअवाचाङ्गिरसं ब्रह्मा शीघ्रमेनं त्वमानय ॥४१॥

स तथोक्तो गतस्तव्र यव्रासौ तपते रविः। एह्येहि भगवन्सूर्य तप्यते भवतान्वहम् ‍ ॥४२॥

एवमुक्तो गतः सूर्यो यव्र देवाः समागतः । स्थित्वा मुहूर्तं प्रोवाच किंवा कार्यमुपस्थितम् ‍ ॥४३॥

पृच्छन्तमेव मार्तंडं ब्रह्मा प्रावोच सादरम् ‍ । गच्छ शीघ्रं न दहते भुवनं यावदंगिराः ॥४४॥

लब्धप्रायं तु गोलोकं वर्तने कृष्णपिंगलम् ‍ । पाटलं हिरतं श्रोणं श्वेतोवर्णः पणाशितः ॥४५॥

शाकद्विपं कुशद्वीपं सपन्नगम् ‍ । दग्धमङ्गिरसा सर्वं भूयोऽपि प्रदहिष्यति ॥४६॥

यावच्च दहते सर्वं भुवनं तपसां गिराः । गच्छतावदितः शीघ्रं स्वस्थाने तप भास्कर ॥४७॥

एवमुक्तः स विभुना स्वस्थानमविरूधवान् ‍ । विसुष्टवानंगिरसं सकाशममृताशिनाम् ‍ ॥४८॥

गत्वाङ्गिरा उवाचेदं गतः किं करवाण्यहम् ‍ । देवा अंगिरसं प्राहुस्तपोराशिमकल्मषम् ‍ ॥४९॥

संप्रशस्योचुरग्नित्वं कुरु तावन्महीतले । पूर्वंयथाग्निःकृतवांस्तथात्वमपि सत्तम ॥५०॥

यावदग्निं प्रपश्यामः क्वासौ नष्ठः क्लतिष्ठति । एवमुक्तः स देवैस्तु अग्नित्वं कृतवांस्तदा ॥५१॥

देवैर्द्दष्टा यथाह्यग्निस्तत्ते सर्वं निवेदितम् ‍ । देवकार्ये कृते तस्मिन्देवा वह्रिमथाब्रुवन् ‍ कृतवांस्तदा ॥५१॥

देवैर्द्दष्टा यथाह्यग्रिस्तत्ते सर्वं निवेदितम् ‍ । देवकार्ये कृते तस्मिन्देवा वह्रिमथाब्रुवन् ‍ ॥५२॥

अग्नेऽग्नित्वं कुरुष्व त्वमंगिरातु यथा पुरा । एवमुक्तः सुरैर्वह्रिश्विन्तयामास दुःखितः ॥५३॥

केन मेऽपह्रतं तेजः केनाग्नित्वं कृतं त्विह । अथाग्निरंगिरसं द्दष्टवा तेजोराशिमकल्मषम् ‍ ॥५४॥

उवाच मुंच मरस्थानं वचस्तोषकरं शृणु । अहं ते तनयश्वेष्टो भविष्ये प्रथमःशुभः ॥५५॥

बृहस्पती नामा वै तथान्ये बहवःसुताः । एवमुक्तो मुनिस्तुष्टो बहुंश्वाजनयत्सुतान् ‍ ॥५६॥

वह्रिःसंजनयामास पुव्रान्षौव्रांस्तदांगिराः । अवापपुनरग्नित्वमग्निस्तस्यांतिथौनृप ॥५७॥

सर्वसेवचतुर्दश्यां संजातं हव्यवाहनम् ‍ । हव्यवाहन देवानां भूतानां गुह्यचारितम् ‍ ॥५८॥

ततौऽष्टपतिपत्वेचरुद्रेणप्रतिपादितम् ‍ । पूजितेयं तिथिर्दैवैर्दिविस्थैश्वनृपैरपि ॥५९॥

पैलजाबालमन्वाद्यैरन्यैश्वनहुषादिभिः । विषशस्त्रहतानां च संग्रामेन्यव्रतेक्वचित् ‍ ॥६०॥

अज्ञातावृषपापैश्वव्यालेर्येव्याप्यहिंसिताः । नदीप्रवाहपतिताः समुद्रे पर्वतेऽध्वानि ॥६१॥

पतिताःपर्वतेभ्यश्वतोयाग्निदहनेमृताः । उदध्यापातितायेचयेकेचात्महनोजनाः ॥६२॥

तेषांशस्तं चतुर्दश्यां श्राद्धंस्वर्गसुखखपदम् ‍ । श्राद्धानिचैवदत्तानिदानानिसलघून्यपि ॥६३॥

प्रसृनफलभोज्यानि उपतिष्ठंतितान्नरान् ‍ । एवं तिथिरियंराजन्नाग्नेयीप्रोच्यतेजनैः ॥६४॥

रौद्रीं च केचिदित्याहूरुद्रौग्नि स च पठन्यते । यस्यांमनोरथंयंयं समुद्दिश्यह्युपोषति ॥६५॥

ददातितस्यतद्वाह्रिः साग्रेसंवत्सरेगते । चतुर्चश्शांनिराहराः समभ्यर्च्यव्रिलोचनम् ‍ ॥६६॥

पुष्पधूपादिनैवेद्यै राव्रौ जागरणान्नरः । पञ्चगव्यं निशिप्राश्यस्वयेद्बूमौविमत्सरः ॥६७॥

श्यामाकमथवाभुक्त्वातैलक्षारविवजिंतम् ‍ । होमःकृष्णतिलैःकार्यः शतमष्टोत्तरंनृप ॥६८॥

अग्नयेहव्यवाहनायसोमायांगिरसेनमः । ततः प्रभाते विमले स्त्राप्यपंचामृतैः शिवम् ‍ ॥६९॥

पूजयित्वाविधानेन होमं कृत्वा तथैवच । उदीरयेन्मन्व्रमेतं कृत्वा शिरसिचांजलिम् ‍ ॥७०॥

नमस्त्रिमृर्तयेतुभ्यम नमः सुर्याग्निरुपिणे । पुव्रान्यच्छसुखं यच्छ मोक्षं यच्छ नमोऽस्तुने ॥७१॥

नीरांजनं ततः कृत्वा पश्वाद्धुजीतवाग्यतः । एवं संवत्स्रस्यांतेकृत्वासर्वंयथोदितम् ‍ ॥७२॥

सौवर्णं कारयेद्देत व्रिनेव्रं शूललयाणिनम् ‍ । वृषस्कंधनतंसौभ्यं सितवस्त्रयुगान्विम् ‍ ॥७३॥

चन्दनेनानुलिप्ताङ्गंसितमाल्योपशोभितम् ‍ । स्थापयित्वाताम्रपाव्रेब्राह्मणायनिवेदयेत् ‍ ॥७४॥

सर्वकालिकमेतत्तेकथितं ब्रतमुत्तमम् ‍ । संवत्सरंसमाप्त हि व्रतस्यतुयदाभवेत ‍ ॥७५॥

कालेगते बहुतिथं तीर्थस्यशरणं भवेत । मृतस्यदेहोदिव्यस्थो दिव्यालकारभुषितः ॥७६॥

दिव्यनारी गणवृतोविमानवरमानवरमास्थितः । देवदेवैः समः शंभोः कीडतेव्रिपुरेचिरम् ‍ ॥७७॥

इहचागत्यकालांते जातः सच नृपोभवेत् ‍ । दातायज्वाधनीदक्षो ब्राह्मणो ब्राह्मणप्रियः ॥७८॥

श्रीमान्वारमीकृतीधीमान्पुव्रपौव्रसमन्वितः । पत्नीगनसमायुक श्विरंभद्राणि पश्यति ॥७९॥

येदुलेभाभुविसुरो रगमानवानां कामाह्यनुत्तमगुणेनयुताः सदैव । तानान्पुवंति सितभूततिथौसुरेशं संपूज्यसोमतिलकं विधिवन्मनुष्याः ॥८०॥ [ ३९३४ ]

इति श्रीभविष्ये महपुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्टिरसंवादे आग्नेयीचतुर्दशीव्रतवर्ननंनाम व्रिनवतितमोऽध्यायः ॥९३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:25.9900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

asparginyl

  • न. ऍस्पाराजिनिल 
  • (abbr. Asn) 
RANDOM WORD

Did you know?

उगवत्या सूर्याला नमस्कार, मावळत्या का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site