संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १५८

उत्तर पर्व - अध्याय १५८

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

प्रसूयमाना दातव्या धेनुर्बाह्मणपुङ्गवे । विधिना केन धर्मज्ञ दाने तस्याश्व किं फलम् ‍ ॥१॥

श्रीकृष्ण उवाच ॥

प्रसूयमानातिपुण्यैः प्राप्यते गौर्नृपोत्तम । प्राप्नुवंति नराः केचित्पुण्यसंभारविस्तराः ॥२॥

यावत्पादौ योनिगतौ शिरश्वैव प्रदृश्यते । तावद्नौ पृथिवी ज्ञेया यावद्नर्भ न मुंचति ॥३॥

गौर्यावद्विमुखी चैव यदा भवति भारत । तदासौ पृथिवी ज्ञेया सशैलवनकानना ॥४॥

दत्वोभयमखीं राजःयत्पुण्यं प्राप्यते नृभिः । न तद्वर्णयितुं याति मुखेनैकेन केनचित् ‍ ॥५॥

किमिष्टैर्बहुभिर्यज्ञैर्दानैर्तत्तैश्व सत्तम । प्रसूयमानां गामेकां देहि किं बहुना तव ॥६॥

एकैव पाति नरकात्सुखमेकैव कारयेत् ‍ । एकापि द्विमुखी दत्ता गौर्गौर्भवति भारत ॥७॥

स्वर्णशृंगीं रौप्यखुरां मुक्तालाङ्‌गूलभूषिता । कांस्योपदोहनां राजन्नलंकृत्य द्विजोत्तमे ॥८॥

प्रसूयमानां गां दत्वा महापुण्यफलं लभेत् ‍ । यावंति धेनुरेमाणि वत्सरयापि नराधिप ॥९॥

तावद्वर्षशस्त्राणि रवर्गलोके महीयते । पितृन्पितामहांश्वैव तथैव प्रपितामहान् ‍ ॥१०॥

समुद्धरत्यसंदिर्ग्ध नरकाद्भूरिदक्षिणः । वृतक्षीरवहा नद्यो दधिपाथसकर्दमाः ॥११॥

तत्र ते यांति यत्रास्ति द्रुमश्वेप्सितकामदः । यो ददाति सुवर्णेन बहुना सह भाविनीम् ‍ ॥१२॥

गोलोकः सुलभस्तस्व ब्रह्मलोकश्व पार्थिव । न देया दुर्बला राजन्धेनुर्नैवाल्पदक्षिणा ॥१३॥

काम्योऽयं विधिरुद्दिष्टः फलदो विधिना कृतः ॥१४॥

स्त्रियश्व तं चंद्रसमानवक्राः प्रतप्तजांबूनदतुल्यवर्णाः । महानितंबारस्तनुवृत्तमध्याः सेवंत्यत्यजस्त्रं नलिनाभनेत्राः ॥१५॥ [ ६९४२ ]

इति श्रीभविष्येमहापुराणउत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे उभयमुखीगोदानव्रतविधिवर्णक्तं नामाष्टपंचाशदुत्तरशततमोऽध्यायः ॥१५८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP