TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ७४

उत्तर पर्व - अध्याय ७४

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ७४

श्रीकृष्ण उवाच ॥

विदर्भाधिपतिः श्रीमानासीत्पूर्वं सुधार्मिकः । दमयन्त्याः पिता पूर्वं नलस्य श्वशुरो भुवि ॥१॥

सत्यवादनशीलश्व प्रजापालनतत्परः । क्षव्रधर्मरतः श्रीमान्संग्रामेष्वपराजितः ॥२॥

तस्यापि कुर्वतो राज्यं शास्त्रद्दष्टेन कर्मणा । आजगाम महाभागः पुलस्त्यो ब्रह्मणः सुतः ॥३॥

सर्वज्ञाननिधिः श्रीमांस्तीर्थयाव्राप्रसङ्गतः । तमागतमथो द्वष्टवा ब्रह्मयोनिमकल्मषम् ‍ ॥४॥

उत्थाय प्रददौ राजा स्वमामनमभीष्सितम् ‍ । अर्धं पाद्यं च यक्तिञ्चित्त स्मै प्रददौ स्वयम् ‍ ॥५॥

राज्य चैवात्मना सर्द्धं निवेध स कृताञ्जलिः । तेन चैवाभ्यनुज्ञातो निषसाद वरासने ॥६॥

पप्रच्छ कुशल प्रश्नं तपस्यध्ययने तथा । तथेति चोकत्वास मुनिस्तं राजानमभाषत ॥७॥

पुलस्त्य उवचि ॥ कच्चित्ते कुशलं राजम्कोशे जनपदे पुरे । धर्मे च ते मतिर्नित्यं कच्चित्पार्थिव वर्तते ॥८॥

भीम उवाच ॥ सर्वव्र कुशलं ब्रह्यन्येषां कुशलमिच्छसि । तव चागमनेनाहं पावितः सङ्गवारिणा ॥९॥

एवं तौ संविदं कृत्वा संभाष्याथ परस्परम् ‍ । रेमाते पूर्ववृत्तान्तैः कथाभिरितरेतरम् ‍ ॥१०॥

ततः कथान्ते राजेन्द्र लस्त्यं जातबिस्मयः । पप्रच्छ सर्वलोकस्य हिताय जगतः पतिः ॥११॥

भगवन्प्राणिनः सर्वे संसारार्णवमध्यगाः । द्दश्यन्ते विविधैर्दुःखैः पीडन्यमाना दिवानिशम् ‍ ॥१२॥

नरके गर्मवासे च व्याधिभिर्जन्यना तथा । तथा कष्टवियोगादिदुःखैर्दौर्गत्यसंभवैः ॥१३॥

लालप्यमाना बहवः । परपीडोपजीविनः एवंविधान्यनेकानि दुःखानि मुनिपुदुव ॥१४॥

द्दष्ट्रवैव तानि तान्येव भृशं मे व्याधितं मनः । तेषां दुःखानि भूतानां प्राणिनां भुवि मानद ॥१५॥

उपकारकरं ब्रूहि ममानुग्रहकाम्यया । स्वल्पायासेन भगर्वंञ्जायते सुमहत्फलम् ‍ ॥१६॥

पुलस्त्य उवाच । शृणु राजन्प्रवक्ष्यामि व्रतानामुत्तमं व्रतम् ‍ । यामुपोष्य न दुःखानां भाजनो जायते जनः ॥१७॥

माघमासे सिते पक्षे द्वादशी पावनी स्मृता । तस्यां जलाद्रवसने उपोष्य सुखभारभवेत् ‍ ॥१८॥

भीम उवाच ॥ कथं सा मुनिशादूंल उपोष्या द्वादशी भवेत् ‍ । विधिना केन विप्रेन्द्र तन्मे ब्रूहि यथाक्र्मम् ‍ ॥१९॥

पुलस्त्य उवाच । शृणु राजन्नवहितो व्रतं पापप्रणाशनम् ‍ । तव शुश्रूषणाद्वाच्यं ममाप्येतन्न संशयः ॥२०॥

अदीक्षितायनोदेया नाशिष्याय कदाचन । विष्णुभक्ताय शान्ताय धर्मनिष्ठाय चैव हि ॥२१॥

वाच्यमेत - महाराज भवतान्यस्य व क्कचित् ‍ । ब्रह्महा गुरुघाती च बालस्त्रीघातकस्तथा ॥२२॥

कृतन्घो सिव्रध्रुक्चौरः क्षुद्रो भग्नव्रतस्तथा । सुच्यते पातकैः सवैंर्व्रतेनानेन भूपते ॥२३॥

शुद्धे तिथौ सुहूर्ते च मण्डपं कारयेत्ततः । दशहस्तप्रसाणेन दशपूर्वोत्तरे प्लवे ॥२४॥

तन्मध्ये पञ्चहस्तां तु वेदिकां परिकल्पयेत् ‍ । शुक्लां सुकुट्टिमां भूमिं वेयां कृत्वा प्रयत्नतः ॥२५॥

विलिखेन्मण्डलं तव्र पञ्चवणैंर्विधानतः । ब्राह्मणो वेदसंपन्नो विष्णुभक्तो जितेन्द्रियः ॥२६॥

पञ्चविंशतितत्त्वज्ञः स्वाचाराभिरतस्तस्तथा । कृण्डानि कल्पयेत्तव्र अष्टौ चत्वारि वा पुनः ॥२७॥

ब्राह्मणांस्तेषु युञ्जीत चातुश्वरणिकाञ्छुभान् ‍ । मध्ये च मण्डलस्याथ कणिंकायां जनार्दनम् ‍ ॥२८॥

प्रत्यङ्रसुखं न्यसेद्देव चतुर्बाहुमरिन्दम । पूजयेत्तं विधानेन शास्त्रोक्तेन विचक्षणः ॥२९॥

गन्धैः पुष्पैरतथा धूपैनैंवेद्यौविंविधैरपि । एवं संपूज्य देवेशं बाह्यणैः सह देशिकः ॥३०॥

न्यसेत्स्तम्भदूयं पश्वात्तिष्ठन्काष्ठसमन्वितम् ‍ । देवस्याभिसुखं तव्र पीठं तु परिकल्पयेत् ‍ ॥३१॥

षटव्रिंशदङगुलं श्रेष्ठं चतुरस्त्रं समन्ततः । तव्र शिक्यं समालम्ब्य सुवृत्तं सुद्दत्तं नवम् ‍ ॥३२॥

आरोपयेद्धटं तव्र याद्दशं तच्छृणुष्व मे । कलधौतं तथा रौप्यं ताम्रं वाप्यथ मृन्मयम् ‍ ॥३३॥

सर्वलक्षणसंयुक्तं द्दढं व्यङ्गविवर्जितम् ‍ । तत्सहस्त्रं शतं कुर्यादेकच्छिद्रमथापि वा ॥३४॥

कुशलत्वानुरूपेण शतैकच्छिद्रमेव वा । सन्निधाने ततः कुर्यात्सलिलं वस्त्रपावनम् ‍ ॥३५॥

होमार्थं कल्पयेच्चापि पालश्यः समिघः शुभाः । तिला घृतं तथा क्षीरं शभीपव्राणि चैव हि ॥३६॥

वेद्याः पूर्वोत्तरे भागे ग्रहपीठं ग्रहपीठं प्रकल्पयेत ‍ । तव्र पूज्या ग्रहाः सर्वे ग्रहयज्ञविधानतः ॥३७॥

पूर्वस्यां दिशि शक्रस्य पूजां कुर्वीत यत्नतः । दक्षिणस्यां यमस्याथ प्रतीच्यां वरुणस्य च ॥३८॥

कुबेरस्य तथोदीच्यां बलिं कुर्यात्फलाक्षतैः । एवं संभृत्य संभारं शुक्लाम्बरधरस्तथा ॥३९॥

समालभ्य शुभैर्गन्धैर्दर्भपाणिरतन्द्रितः पीठमारोपयेयुस्ते यजमानं द्विजोत्तमाः ॥४०॥

यजमानोऽपि देवस्य संमुखह प्रयतः शुचिः । उपविश्य पठेन्मन्व्रं पुराणोक्तमिदं शृणु ॥४१॥

नमस्ते देवदेवेश नमस्ते भुवनेश्वर । व्रतेनानेन मां व्राहि परमात्मन्नमोस्तु ते ॥४२॥

ततोदकस्य धारास्ताः प्रत्यङ्गेंषु समन्विताः । शिरसा धारयेत्तूष्णीं तद्नतेनान्तरात्मना ॥४३॥

होमं कुर्यस्ततो विप्रा दिक्षु सर्वासु तत्पराः । पठेयुः शान्तिकाध्यायं विष्णुसंज्ञानि यानि वै ॥४४॥

वादिव्रैस्ताडन्यमानैश्व शङ‍खगेयस्वनैस्तथा । पुण्याहजयशब्दैश्व वेदस्वनविमिश्रितैः ॥४५॥

मङ्गलैः स्तुतिसंयुक्तैः कारयेत्तन्महोत्सवम् ‍ । देवदेवस्य चरितं केशवत्य महात्मनः ॥४६॥

हरिवंशादिकं सर्वं श्रावयेद्‍ब्राह्मणो वरः । सौपणिंकमथाख्याने भारताख्यानमेव च ॥४७॥

व्याख्यानकुशलाः केचिच्छ्रावयेयुरतन्द्रिताः । अनेन विथिना सर्वां तां राव्रिं प्रीति बर्द्भिनीम् ‍ ॥४८॥

यजमानो नयेद्धीमान्यावत्सूर्योदयो भवेत् ‍ । ब्राह्मणाश्वापि तां राव्रीं जुह्रतो जातवेदसम् ‍ ॥४९॥

मन्व्रैस्तु वैष्णवैर्दिव्यैः क्षपयेयुर्महीपते । बासुदेवस्य शिरसि वसोर्ध्दारां प्रपातयेत् ‍ ॥५०॥

क्षीरेणाज्येन वा राजन्सर्वसिद्धिप्रदायिनीम् ‍ । ततः प्रभातसमये यजमानो द्विजैः सह ॥५१॥

स्नानं कुर्यान्नृपश्रेष्ठ नद्यां सरसि वा पुनः । अथवा शक्तिहीनस्तु यजमानोष्णवारिणा ॥५२॥

ततः शुक्लानि वस्त्राणि परिधाय यतव्रतः । अर्भ्यं दत्त्वा भास्कराय सविधानं प्रसन्नधीः ॥५३॥

पुष्णैर्धूपैः सनैवद्यैः पूजयेत्पुरुषोत्तमम् ‍ । हुत्वा हुताशनं भक्त्या दत्त्वा पूर्णाहुति ततः ॥५४॥

पूजयेद्राह्मणान्सर्वान्होतारो यज्ञकल्पिताः । शय्याभोजनगोदानैर्वस्त्रैराभरणैस्तथा ॥५५॥

आचार्यः पूजनीयोऽव्र सर्वस्वेनापि भारत । येन वा तस्य संतुष्टिर्देवतुल्यो गुरुर्यतः ॥५६॥

वित्तशाठन्यविहीनस्तु भक्तिशक्तिसमन्चितः । दीनानाथविशिष्टाश्व बन्दिनश्व समागताः ॥५७॥

तेषामन्नं हिरण्यं च दद्याच्छुद्धेन चेतसा । एवं संपूज्य विप्राय भोजयित्वा यथेप्सितम् ‍ ॥५८॥

यथाविभवसारेण पश्वाद्धञ्जात वाग्यतः । हविष्यमन्नं यज्ञेन हविष्याः सतिलास्तथा ॥५९॥

एवं यज्ञो महाराजंश्वोक्तस्ते संप्रकीतिंतः । पापिष्ठाः सर्वषापेभ्यो सुच्यन्ते नाव्र संशयः ॥६०॥

वाजपेयातिराव्राभ्यां ये यजन्ति शतं समाः । सर्वे ते विष्णुयागस्य कलां नार्हन्ति षोडशीम् ‍ ॥६१॥

सप्त जन्मानि सौभ्याग्यमायुरारोग्यसंपदः । प्रान्पोति द्वादशीसेतां तामुपोष्यविधानतः ॥६२॥

मृतो विष्णुपुरं याति विष्णुना सह मोदते । चतुर्युगानि द्वाव्रिंशद्विष्णुरूपधरः स्थितः ॥६३॥

रुद्रलोके तथा राजन्युगानि द्वादशैव तु । ब्रह्मलोके तथा व्रीणि सूर्यलोके युगानि च ॥६४॥

पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः । पृथिव्यधिपतिः श्रीमान्विजितारिः प्रतापवान् ‍ ॥६५॥

व्रतमेतत्पुरा चीर्णं सगरेण महात्मना । अजेन धुन्धुमारेण दिलीपेन ययातिना ॥६६॥

अन्यैश्व पृथिवीपालैः पालितं शेषभूतलैः । स्त्रीभिर्वैश्यैस्तथा शृद्नैर्धर्मकामैः सदा नृप ॥६७॥

भृग्वाद्यिर्सुनिभिः सर्वैर्बाह्मणैर्वेदपारगैः । त्वया च पृष्टेन मया कथितं ते नराधिप ॥६८॥

अद्यप्रभृति चैवेयं ख्यातिं यास्यति भूतले । भीमाख्या द्वादशी चोते कृतकृत्या च भारत ॥६९॥

एषा पुलस्त्यमुनिना कथिता कुरुनन्दनयश्वैनां कथितां ध्यात्वा कुयीद्वा भक्तिभावतः ॥७०॥

सर्वपापविनिर्मुक्तो विष्णुलोके महीयते । दरिद्रा श्वापि भोः पार्थ वित्तशाठन्यं विवर्जयेत् ‍ ॥७१॥

विष्णुभक्तेन कर्तव्या संसारभयभीरुणा ॥७२॥

भीमेन या किल पुरा समुपोषिता च राव्रौघटस्थितसुशीतलवारिधारा । तां द्वादशीं दशमुखारिमुखाच्छुतां च सम्याव्रती चरति याति स विष्णुलोके ॥७३॥ [ ३०७३ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णपुधिष्ठिरसंवादे भीमद्वादशीव्रतवर्णनं नाम चतुःसप्ततितमोऽध्यायः ॥७४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:24.9430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

alternate-response test

  • वैकल्पिक अनुक्रिया चाचणी 
  • वैकल्पिक-उत्तर कसोटी 
  • वैकल्पिक-उत्तर चाचणी 
RANDOM WORD

Did you know?

विवाहासाठीच्या मुहूर्तांची नांवे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.