TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय २९

उत्तर पर्व - अध्याय २९

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय २९

युधिष्ठिर उवाच ॥

शुक्लपक्षतृतीयास्तु बहवः समुदाह्रताः । आनन्तर्पव्रतं ब्रुहि तृतीयोभयसंयुतम् ‍ ॥१॥

हिताय सर्वभुतानां ललनानां विशेषतः । नामप्राशननैवेद्यैर्मासि मासि पृथवपृथक ॥२॥

श्रीकृष्ण उवाच ॥ ब्रह्मविष्णु महोशाद्यैर्यथोक्तं सुरसत्तमैः । अपूर्वं सर्वमन्व्राणामानन्तर्यव्रतं शूणु ॥३॥

आदौ मार्गशिरे मासि व्रतमेतत्समाचरेत् ‍ । नक्त कुर्याद् ‍ द्वितीयायां तृतीपायामुपोषितः ॥४॥

उमां देवीं समभ्यच्य पुष्पगन्धादिभिः क्रमात् ‍ शर्करापुव्रिकां शक्त्या प्रणिपत्य निवेदयेत् ‍ ॥५॥

प्राशयित्वा दधि राव्रौ स्वपेद्विगतमत्सरः । प्रभाते विधिवद्भक्त्या मिथुनं भोजयेत्सुधीः ॥६॥

अश्वमेधमवान्पोति समग्रं नाव्र संशयः । तथा कृष्णतृतीयायां सोपवासो जितेन्द्रियः ॥७॥

जपेत्कात्यायनीं नाम नालिकेरं निवेदयेत् ‍ । क्षीरं प्राश्य स्वपेद्राव्रौ कामक्रोधविवर्जितः ॥८॥

दाम्पत्यं सुभगं भोज्यं भोमेधफलमाप्रुयात् ‍ । पौषस्यादितृतीयायां सोपवासो जितेन्द्रियः ॥९॥

गौरीं नाम तु संपूज्य लड्‍डुकान्विनिवेदयेत् ‍ । घृत प्राश्य स्वपेद्राव्रौ त्यक्त्वा काम तदग्रतः ॥१०॥

प्रभाते मिथुनं भोज्यं नरमेधफलं भवेत् ‍ । एवं कृष्णतृतीयायां पार्वतीमिति पूजयेत् ‍ ॥११॥

निवेद्यान्न च शष्कुल्यो गोमयं प्राशयेन्निशि । दाम्पत्यं भोज्यमश्वमेधफलं लमेत् ‍ ॥१२॥

माधस्य शुक्लपक्षे तु तुतीयायामुपाषितः । सुरनायिकां च संपूज्य खण्डबिल्वं निवेदयेत् ‍ ॥१३॥

ततः कुशोदकं प्राश्य स्वपेद्भमौ जितेन्द्रिपः। प्रभाते मधुरान्नेन मिथुनं भोज्य भक्तितः ॥१४॥

क्षमाप्यान्ते नमस्कृत्य इति स्वर्णफलं लभेत् ‍ । पुनरेतत्ततो माघे कृष्णपक्षे शुचिव्रतः ॥१५॥

आर्यां नाग्ना प्रपूज्याथ खाद्यकानि निवेदयेत् ‍ । मधु प्राश्य स्वपेद्राव्रौ कामक्रोधविवर्जितः ॥१६॥

मिथुनं भोजयित्वा तु वाजपेयफलं लभेत् ‍ । एवं वै फाल्गुने मासि सोपवासां शुचिव्रतः ॥१७॥

भद्रीं नाम प्रपूज्याथ कासारं विनिवेदयेत् ‍ । शर्करां प्राशयित्वाथ स्वपेद्राव्रौ विमत्सरः ॥१८॥

प्रभाते मिथुनं भोज्यं सौव्रामणिफलं लभेत् ‍ । पुनः कृष्णतृतीयायां फाल्गुनस्यैव भारत ॥१९॥

विशालाक्षीं समब्यर्च्य पूरिका विनिवेदयेत् ‍ । सोदकांस्तष्डुलान्दत्त्वा स्वपेद्भूमौ मनस्विनी ॥२०॥

भोजयेन्मिथुनं प्रातरग्निष्टोमफलं लभेत् ‍ । चैव्रस्यादितृतीयायां शुचिर्भूता जितोन्द्रिया ॥२१॥

श्रिंय देवीं यजेद्भक्त्या वटकानि निवेदयेत् ‍ । बिल्वपव्रं ततः प्राश्य स्वपेद्धन्यानपरायणा ॥२२॥

प्रातरुत्थाय मद्भक्त्या मिथुनं पूजयेत्सुधीः । प्रणिपत्य क्षमाप्यैवं राजसूयफलं भवेत् ‍ ॥२३॥

पुनः कृष्णतृतीयायां चैव्रे सम्यगुणोषिता । कालीं नाम समभ्यर्च्य पिष्टं प्राश्य स्वपेन्निशि ॥२४॥

पूपकानि निवेद्याथ कूर्याद्राव्रौ प्रजागरम् ‍ । मिथुनानि च संभोज्य अतिराव्रफलं भवेत् ‍ ॥२५॥

एवं वैशाखमासे तु सोपवासो जितोन्द्रियः । पूजयेच्चणिकां देवीं मधुकानि निवेदयेत् ‍ ॥२६॥

श्रीखण्डं चन्द्नं लिप्त्वा स्वपेद्‍देव्यग्रतो भुवि । भोजयित्वा च दाम्पत्यं चान्द्रायणफलं लभेत् ‍ ॥२७॥

तथा कृष्णतृतीययां सोपवासो विमत्सरः । पूजयेत्कालराव्रिं तु गन्धपुष्पैः सदीपकैः ॥२८॥

सुराज्यं पावकं दत्त्वा तिलान्भुञ्जन्स्वपेन्निशि । प्रभाते मिथुनं भोज्यमतिकृच्छ्र्फलं लभेत् ‍ ॥२९॥

ज्येष्ठे सिततृतीयायां ह्युपवासकृतां बरः । शुभां देवीं समभ्यर्च्य आस्त्राणि विनिवेदयेत् ‍ ॥३०॥

संप्राश्यामलकं राव्रौ गौरीं ध्यात्वा सुखं स्वपेत् ‍ । ततः प्रातः समुत्थाय दाम्पत्यं रुपशालिनम् ‍ ॥३१॥

भोजयित्वा विधानेन तीर्थयाव्राफलं लभेत् ‍ । पुनः कृष्णतृतीयायां सोपवासा सुवासिनी ॥३२॥

स्कन्दमातेति संपूज्य इडायै विनिवेदयेत ‍ । प्राशयेत्पञ्चगव्यञ्च स्वपेद्देव्यग्रतस्ततः ॥३३॥

प्रभाते मिथुनं भोज्यं कन्यादानफलं लभेत् ‍ । आषाढमासे संप्राप्त पूजयेच्च यशोधनम् ‍ ॥३४॥

करञ्जकं च नैवेद्य गोशृङ्गम्मः पिबेन्निशि । प्रभाते मिथुनं भोज्यं कान्यादानफलं लभेत् ‍ ॥३५॥

तथा कृष्णतृतीयायां कूष्माण्डीं शक्तितो यजेत् ‍ । सक्तूत्गुडाज्यसंयुक्तान्पुरतो विनिवेदयेत् ‍ ॥३६॥

कुशोद्कं च संप्राश्य स्वपेद्राव्रौ जितेन्द्रिया । प्रभाते मिथुनं भोज्यं गोप्तहस्त्रफलं लभेत् ‍ ॥३७॥

श्रावणे सोपवासा च चण्ढां घण्टां प्रपूजयेत् ‍ । कुल्माषास्तव्र नैवेद्यं विबेत्पुष्पोदकं पुनः ॥३८॥

प्रभाते शक्तितो दद्याद्भोजनं मिथुनस्य तु । प्रान्पोत्यभयदानस्य फलं नैवाव्र संशयः ॥३९॥

तद्वत्कृष्णतृतीयायां रुद्राणीं नामभिर्यजेत् ‍ । सिद्धपिण्हानि दिव्यानि नैवेद्यं दापयेत्तथा ॥४०॥

पिण्याकं प्राशयित्वा तु स्वपे्द्राव्रौ विमत्सरा । सपूज्य द्विजदाम्पत्यमिष्टापूर्तफलं लभेत् ‍ ॥४१॥

भाद्रे शुक्लतृतीयायां पूजयेत हिमाद्रिजाम् ‍ । गोधूमान्नं निवद्यैव प्राशयेच्चन्दनं सितम् ‍ ॥४२॥

गन्धोदकं ततः प्राश्य सखीभिः सहिता स्वपेत् ‍ । प्रभाते भिथुनं भोज्यं मार्गपालीशतं लभेत् ‍ ॥४३॥

तद्वत्कृष्णतृतीयायां दुर्गां देवीं समर्चयेत् ‍ । दद्यात्पिष्टफलान्दिव्यान्गुडाज्यपपूरितान् ‍ ॥४४॥

प्राशयित्वा तु गोमूव्रं स्वपेच्छान्तेन चेतसा । प्रातस्तु मिथुनान्भोज्य सदा सव्रफलं लभेत् ‍ ॥४५॥

मासि चाश्वयुजे भक्त्या देवीं नारायणीं यजेत् ‍ ॥४७॥

सोपवासा खण्डपूपान्नैवेद्यं परिकल्पयेत् ‍ ॥४६॥

प्राशयेच्चन्दनं रक्तं स्वपेच्च गतमत्सरा । प्रभाते भोज्य दम्पत्यमग्निहोव्रफलं लभेत् ‍ ॥४७॥

तथा कृष्णतृतीयायां स्व्रस्ति नाम प्रपूजयेत् ‍ । शाल्योदनं गुडोपेतं नैवेद्य निर्वपेत्ततः ॥४८॥

कुसुम्भबीजार्न्सप्राश्य त्यक्त्वा कामं स्वपेन्निशि । संभोज्य मिथुनं प्रातर्गवाह्रिकफलं लभेत् ‍ ॥४९॥

कार्तिकस्य तृतीयायां स्वाहानास्त्रीं प्रपूजयेत् ‍ । क्षीरं खण्डघृतोपेतं नैवेद्यं दापयेच्च ताम् ‍ ॥५०॥

स्वपेद्राव्रौ जितक्रोधा प्राश्य कुङ्कुमकेशरान् ‍ । प्रभाते मिथुनं भोज्यमेकभक्तफलं लभेत् ‍ ॥५१॥

तथा कृष्णतृतीयायां स्वधानान्नीं प्रपूजयेत् ‍ । मुद्रौदनं निवेद्याथ घृतं प्राश्य स्वपेन्निशि ॥५२॥

प्रातः संभोज्य मिथुनं नक्तव्रतफलं लभेत् ‍ । एवं संवत्सरं कृत्वा मुक्तपापा शुचिर्भवेत् ‍ ॥५३॥

शुक्लपक्षे तृतीयायां सोपवासा निरामया । विज्ञाय च द्रुतं भक्त्या उमां शास्त्रार्थबोधकः ॥५४॥

मण्डलं च ततो लिख्य नवनाभं वरप्रदम् ‍ । सौवर्णं कारयेद्देवमुमया सहितं प्रभुम् ‍ ॥५५॥

ताभ्यां नेव्रेषु दातव्यं मौक्तिकं नीलमेव च । प्रवालमोष्ठयोर्दद्यात्कर्णयो रत्नकुण्डले ॥५६॥

उपवीतं तु देव्रस्य देव्या हारं तथोरसि । रक्तवस्त्रधरां देवीं सितवस्त्रं महेश्वरम् ‍ ॥५७॥

जलेन स्नापयित्वा तु पुष्पैर्धूपैरथार्चयेत् ‍ । मण्डल पूजयित्वा च होमं कुर्यात्ततो गुरुः ॥५८॥

ततोऽपराजितां नाम देवीं तव्रैव पूजयेत् ‍ । मृत्स्त्रां सप्राशयित्वा च राव्रौ कुर्यात्मजागरम् ‍ ॥५९॥

गीतवाद्योत्सवैर्हृद्यैर्वीणामड्रलपाठकैः । राव्रिमेवं जपेद्भक्त्या यावदुद्रच्छते रविः ॥६०॥

तूलीगण्डकसंयुक्ते पर्यङ्केत्यन्तशोभिते । उद्धृत्य मण्ड्लाद्देव पर्यङ्कोपरि विन्यसेत् ‍ । ॥६१॥

वितानध्वजमालालिकिङ्किणीदर्पणान्वितम् ‍ । पुष्पमण्डपिकाच्छन्नं धूपगुरगुलुवासितम् ‍ ॥६२॥

तस्याग्रे भोजयेद्भक्त्या स्वशक्त्या मिथुनानि च । प्रीणयेद्भक्ष्यभोज्यैश्व पक्कान्नैर्मधुरैः शुभैः ॥६३॥

ततो द्त्त्वाऽक्शतान्हस्ते ताम्बूलं विनिवेदयेत् ‍ । प्रीयतां मे उमाकान्तः पार्वत्या सहितः शिवः ॥६४॥

उच्छिष्टं शोधयित्वा तु पुनः प्रोक्ष्य समन्ततः । रक्तवर्णां सुशीलां च सुरूपां सुपयस्विनीम् ‍ ॥६५॥

शृङ्गभ्यां दत्तकनकां राजतखुरसंयुताम् ‍ । कांस्यदोहनकोपेतां रक्तवस्त्रावगुण्ठिताम् ‍ ॥६६॥

घण्टाभरणशोभाढन्यां देवदेव्यग्रसंस्थिताम् ‍ । पादुकोपानहच्छव्रभोज्यभाजनसंयुताम् ‍ ॥६७॥

व्रिधा प्रदक्षिणीकृत्य गुरौ सर्वं निवेदयेत् ‍ । उमामहेश्वरं दवमवियोगं सुरर्चितम् ‍ ॥६८॥

अव्यवच्छेदभूतं च सुप्रीतं तदिहास्तु मे । प्रणम्य शिरसा भूमौ क्षमस्वेति गुरुं बदेत् ‍ ॥६९॥

एवं समाप्यते देव्या आनन्तर्यव्रतोत्तमम् ‍ यः प्रकुर्यात्पुमान्स्त्री वा तस्य पुण्यफलं शृणु ॥७०॥

गन्धर्वयक्षलोकांश्व विद्याधरमहोरगान् ‍ । ऋषिसिद्धामरं ब्राह्मं विष्णुलोकं सनातनम् ‍ ॥७१॥

भुक्त्त्वा भोगानशेषांश्व एकविंशत्कुलान्वितः । रत्नयाने समारूडो गुह्याप्सरससंवृतः ॥७२॥

देवविद्याधरेर्यक्षैर्वृ याति शिवालयम् ‍ । तव्र भुक्त्वा महाभोगान्स भुङक्ते शिववद्धहून् ‍ ॥७३॥

भुक्त्वा भोगान्यदा भूतः कदाचित्तपसः क्षयात् ‍ । पृथिव्यां तु समागम्य भवेत्सकलभूमिपः ॥७४॥

स्त्रीवा समाचरेद्या तु महादेवी तु जायते । आनन्तर्यव्यवच्छिन्नान्भोगान्दवी उमा यथा ॥७५॥

वैलोक्यपतिरुद्रेण सा भुङ्रक्ते सहिता तथा । मनुर्देव्या यथा मह्या शच्या शक्रो यथा सुखम् ‍ ॥७६॥

नैरन्लर्यं यथासौख्यं सा भुङ्रक्ते पतिना सह । मुनेररुन्धती यद्वद्विष्णोर्लक्ष्मीर्हृदि स्थिता ॥७७॥

तथा तयोर्महत्सौख्यं नैरन्तर्यंहि जायते । साविव्री ब्रह्मणो यद्वद्रङ्रा तोयनिधेर्यथा ॥७८॥

अव्यवच्छिन्नयोः प्रीतिस्तथा जन्मनि जन्मनि । अथ जन्मन्यहोऽन्यस्मिन्व्रमेतत्कृतं भवेत् ‍ ॥७९॥

तेनैव पतिना सार्द्धं न वियोगमुपैति सा । योजनायुनसाहस्त्रे सुरूपा मण्डल भवेत् ‍ ॥८०॥

अर्घाढया सुभाग साध्वी पुव्रपौव्रैरलङ्रकृता । एतत्ते निखिल प्रोक्तमानन्तर्यव्रत मया ॥८१॥

भक्ताय सुविनीताय कथितव्य न चान्यथा ॥८२॥

एषा विशेषविहिताभिहिता तृतीया यानन्तरीत्यविधवाभिरुदीरितोच्चैः । एतामुपोष्य विधिवत्प्रतिपक्षयोगान्नैवान्तरं सुतसुह्रत्स्वजनैरुपैति ॥८३॥ [ १४८४ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽनन्तरतृतीयाव्रतवर्णनं नामैकोनव्रिंशत्तमोऽध्यायः ॥२९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:22.4730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

follow-up section

  • पाठपुरावा उपविभाग 
RANDOM WORD

Did you know?

कोणतीही ही पूजा करण्याआधी संकल्प कां करावा?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site