TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ६

उत्तर पर्व - अध्याय ६

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ६

श्रीकृष्ण उवाच ॥

अथ पापैरिभैर्पान्ति यमलोकं चतुर्विधैः । संव्रासजननं घोरं विवशाः सर्वदेहिनः ॥१॥

गर्मस्थैर्जायमानैश्व बालैस्तरुणमध्यमैः पुंस्त्रीनपुंसकैर्वृद्धैर्ज्ञातव्यं सर्वजन्तुभिः ॥२॥

शुभाशुभफलं तव्र देहिनां प्रविचार्यते । चिव्रगुप्तादिभिः सभ्यैर्मध्यस्थैः सर्वदर्शिभिः ॥३॥

न तेऽव्र प्राणिनः सन्ति च न यान्ति यमक्षयम् ‍ । अवश्यं हि कृदं कर्म भोक्तव्यं तदद्विधेरितम् ‍ ॥४॥

तव्र ये शुभकर्माणः सौम्यचित्ता दयान्व्रिताः । ते नरा यान्ति सौम्येन पथा यमनिकेतनम् ‍ ॥५॥

यः प्रदद्याद् ‍ द्विजेन्द्राणामुपानत्काष्ठपादुकाम् ‍ । स वराश्वेन महता सुखं याति यमालयम् ‍ ॥६॥

छव्रदानेन गच्छन्ति यथा छव्रेण देहिनः । दिव्यवस्त्रपरीघाना यान्ति वस्त्रप्रदायिनः ॥७॥

शिविकाश्वप्रदानेन ततस्तेन सुखं व्रजेत् ‍ । शय्यासनप्रदानेन सुखं यान्ति यमाश्रयम् ‍ ॥८॥

आरामकर्ता छायासु शीतलासु सुखं व्रजेत् ‍ । यान्ति पुष्यकयानेन पुष्पारामप्रदायिनः ॥९॥

देवायतनकर्ता च यतीजामाश्रमस्य च । अनाथमण्डपानां च क्रीडन्याति गृहोत्तमैः ॥१०॥

देवाग्निगुरुविप्राणां मातापित्रोश्व पूजकाः पूज्यमाना नरा यान्ति कामिकेन पथा सुखम् ‍ ॥११॥

द्योतयन्तो दिशः सर्वा यान्ति दीपप्रदायिनः । प्रतिश्रयप्रदानेन सुखं यान्ति गृहं स्वयम् ‍ ॥१२॥

सर्वकामसमृद्धेन पथा गच्छन्ति गोप्रदाः ये न पापानि कुर्वन्ति ते तुप्ता यान्ति नान्यथा ॥१३॥

आतौंषधप्रदात्तारः सुखं यान्ति निराकुलाः । विश्राम्यमाणा गच्छन्ति गुरुशुश्रूषणे रताः ॥१४॥

पादशौचप्रदानेन शीतलेन पथा व्रजेत् ‍ । पादाभ्यङ्ग च यः कुर्यादश्वपृष्ठेन स व्रजेत् ‍ ॥१५॥

हेमरत्नप्रदानेन याति दुर्गाणि निस्तरन् ‍ । यानवाहनदानेन नरयानेन गच्छति ॥१६॥

सर्वकामसमृद्धात्मा भूतिदानेन गच्छति । अन्नपानप्रदानेन पिबन्खादंश्व गच्छति ॥१७॥

इत्येवमादिभिर्दानैः सुखं यान्ति थमक्षयम् ‍ । स्वर्गेपि विपुलान्भोगान्प्रुवन्ति नरोत्तम ॥१८॥

सर्वेषामेव दानानामन्नदानं परं स्मृतम् ‍ सद्यःप्रीतिकरं दिव्यं बलबुद्धिविवर्द्धनम् ‍ ॥१९॥

वयाणामपि लोकानां जीव्रितं ह्युदकं स्मृतम् ‍ । पविव्रममृतं दिव्यं शुद्धं सर्वरसायनम् ‍ ॥२०॥

अन्नं पानं च गोगस्त्रभूशय्याछव्रमासनम् ‍ । परलोके प्रशस्तानि दानान्यष्टौ विशेषतः ॥२१॥

अन्नदांन विशेषेण घर्मराजपुरे नराः । यस्माद्यान्ति सुखनैव सस्माद्धर्मं समाचरेत् ‍ ॥२२॥

ये पुनः क्रूरकर्माणः पापादानविवर्जिताः । ते घोरेण पथा यान्ति दक्षिणेन यमालयम् ‍ ॥२३॥

षडशीतिसहस्त्राणि योजनानामतीत्य यत् ‍ । वैवस्वतपुरं ज्ञेयं नानारूपव्यवस्थितम् ‍ ॥२४॥

समीपस्थमिवाभाति नराणां शुभकर्मणाम् ‍ । पापानातिदूरस्थं पथा रौद्रेण गच्छताम् ‍ ॥२५॥

तीव्रकण्टकयुक्तेन शर्करानिचितेन च । क्षुरधारानिभैस्तीव्रैः पाषाणैर्निचितेन च ॥२६॥

क्कचित्पङ्केन महता दुरुत्तारैश्व खातकैः । लोहसृचीनिमैर्दभैं : संछन्नेन पथा क्कचित् ‍ ॥२७॥

सटप्रपातविष्टम्भैः पर्वतैर्वृक्षसङ्कुलैः । प्रतप्ताङ्गारयुक्तेन यान्ति मार्गेण दुःखिताः ॥२८॥

क्कचि द्विषमगर्तांमिः क्कचिल्लोष्ठैः सुपिच्छलैः । प्रतप्रवालुकाभिश्व तथा तीक्ष्णैश्व शङ्कुभिः ॥२९॥

अनेकतापैर्विततैर्व्यासं वंशवनं क्कचित् ‍ । क्कचिद्वालुकया व्याप्तं कष्टेनैव प्रवेशनम् ‍ ॥३०॥

क्कचिदुष्णाम्बुना व्याप्रं क्कचिच्च करिषाग्निना । क्कचित्सिंहैर्वृकैर्व्याप्तं दंशैः कीटैश्व दारुणैः ॥३१॥

कृचिन्महाजलौकाभिः क्कचिच्चाजगरैः पुनः । मक्षिकाभिश्व रौद्राभिः क्कचित्सर्पैर्विषाल्बणैः ॥३२॥

मत्तमातङ्गयूथैश्व बलोन्मत्तैः प्रमाथिभिः । पन्थानमुल्लिखद्भिश्व तीक्ष्णशृङ्गैर्महावृषैः ॥३३॥

महाविषाणैर्महिषैरुष्ट्रैर्मत्तैश्च खादकैः । डाकिनीमिश्व रौद्रामिर्विकरालैश्व राक्षसैः ॥३४॥

व्याधिभिश्व महाघोरैः पीडन्यमाना व्रजन्ति च । महाधूलिविमिश्रेण महाचण्डेन वायुना ॥३५॥

महापाषाणवर्षेण हन्यमाना निराश्रयाः । क्कचिद्विद्युत्प्रपातंन दार्यमाणा व्रजन्ति च ॥३६॥

महता बाणवर्षेण विध्यमानाश्व सर्वशः। पतद्भिर्वज्रसङ्रघातैरुल्कापातैश्व दारुणैः ॥३७॥

प्रतप्ताङ्गरवर्षेण दह्ममाना व्रजन्ति च । तप्रेन पांशुवर्षेण पुर्यमाणा रुदन्ति च ॥३८॥

महामेघरवैघोंरौर्वित्रास्यन्ते मुहुर्मुहुः । निशितायुधवषेंण चूर्यमाणा नरैर्वृताः ॥३९॥

महाक्षाराम्बुधाराभिः सिच्यमाना द्रवन्ति च । महाशीतेन मरुता तीक्ष्णेन परुषेण च ॥४०॥

समन्तात्पीडयमानास्ते शुष्यन्ते संकुचन्ति च। इत्थं मागेंण रौद्रेण पान्थैर्विरहितेन च ॥४१॥

निरालम्बेन दुर्गेण निर्जलेन समन्ततः । अविश्रामेण महता निर्गतापाश्रयेण च ॥४२॥

तमोरूपेण कष्टेन सर्वदुःखाश्रयेण च । नीयन्ते देहिनः सर्वे ये मूढाः पापकर्निणः ॥४३॥

यमदूतैर्ममहाघोरैस्तदाज्ञाकारिभिर्बलात् ‍ । एकाकिनः पराधीना मिव्रबन्धुविवर्जिताः ॥४४॥

शोचन्तः स्वानि कर्मणि रुदन्तश्व मुहुर्मुहुः । प्रेतभूता विवस्त्राश्व शुष्ककण्ठोष्ठतालुकाः ॥४५॥

कृशाङ्गा भीतभीताश्व दह्ममानाः क्षुधाग्निना । बद्धाः शृङ्खलया केचिदुत्तानाः पादपोर्नराः ॥४६॥

आकृष्यन्ते घृष्यमाणा यमवूतैर्बलोत्कटैः । पुनश्वाधोमुखाश्वान्ये घृष्यमाणाः सुदुःखिताः ॥४७॥

केशपाशनिबद्धाश्व कृष्यन्ते रज्जुभिर्नराः । ललाटे चाङ्रकुशैस्तीक्ष्णिर्भिन्नाः कृष्णत्नि देहिनः ॥४८॥

उत्ताना रठमानाश्व क्कचिदङ्गारवर्त्मना । पश्वाद्धाह्रं बद्धाश्व जठरे च प्रपीडिताः ॥४९॥

पूरिताः शृङ्खलभिश्व हस्तयोश्व प्रकीलिताः । ग्रीवायामर्द्धचन्द्रेण क्षिप्य़ामाणा इतस्तः ॥५०॥

शिश्रे च वृषणे बद्धा नीयन्ते चर्मरज्जुना । विभिन्ना उदरे चान्ये तप्तशृङ्खलया नराः ॥५१॥

कृष्णन्ते कर्णयाश्वान्ये भिन्नाश्व चिबुकोपरि । छिन्नाग्रपादहस्ताश्व छिन्नकणौंष्ठनासिकाः ॥५२॥

संछिन्नशिश्रवृषणाश्छिन्नभिन्नाङ्गसन्धयः । प्रतुद्यमानाः कुन्तैश्व सायकैश्व ततस्ततः ॥५३॥

भिद्यमानाः प्रधावन्ति कन्दमाना निराव्रयाः । मुद्नरैर्लोहदण्डैश्व हन्यमाना मुहुर्मुहुः ॥५४॥

करौश्व विविधैर्घोरैर्ज्वलिताग्निसमप्रभैः । भिण्डिपालैर्विभिद्यन्ते स्त्रव्रन्तः पूयशोणितम् ‍ ॥५५॥

मांसे क्षताश्व क्रुमिभिर्नीयन्ते विव्रशा नराः। पाचमानाश्व सलिलभन्नं चापि बुभुक्षिताः ॥५६॥

छायां प्रार्थयमानाश्व शीतार्ता बहुवायुना । दानहीनाः प्रयान्त्येव यावन्तो विमुखा नराः ॥५७॥

गृहीतदानपाथेयाः सुखं यान्ति यमालयम् ‍ । एवं यदातिकष्तेन प्राप्ता यमपुरं तदा ॥५८॥

प्रज्ञापितास्तदा दूतैर्निवेश्यन्ते यमाग्रतः । तव्र ये शुभकर्माणस्तांश्व संमानयेद्यमः ॥५९॥

स्वागतासनदानेन पाद्यार्घेण प्रियेण च । धन्या यूयं महात्मान आत्मनो हितकारिण्ह ॥६०॥

येन दिव्यसुखार्थाय भवद्भिः सुकृतं कृत्म् ‍ । इदं विमानमारुह्म दिव्यस्त्रीभोगभूषितम् ‍ ॥६१॥

स्वर्गं गच्छध्वमतुलं सर्वकामसन्धितम् ‍ । ततो भुक्त्त्वा महाभोगानन्ते पुण्यस्य संक्षयात् ‍ ॥६२॥

यत्किञ्चिदल्पमशुभं पुनस्तदिह भोक्ष्यथ । ते चापि धर्मराजानं नराः पुण्यानुभावतः ॥६३॥

पश्यन्ति सौम्यवदनं पितृभूतभिवात्मनः । ये पुनः पापकर्माणस्ते पश्यन्ति भयानकम् ‍ ॥६४॥

पापा विशुद्धनयना विपरीतात्मबुद्धयः । दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम् ‍ ॥६५॥

ऊर्ध्वकेशं महाश्मश्रुं प्रस्फुरदधरोत्तरम् ‍ । अष्टादशभुजं क्रुद्धं नीलाञ्जनचयोपमम् ‍ ॥६६॥

सर्वायुधोद्यतकरं ब्रह्मदण्डेन तर्जकम् ‍ । महामहिषमारुढं दीप्ताग्निसमलोचनम् ‍ ॥६७॥

रक्तमाल्याम्बरधरं महामेरुमिवोच्छ्रितम् ‍ । प्रलयाम्बुदनिर्घोषं पिबन्तभिव सागरम् ‌ ॥६८॥

ग्रसन्तभिव लोकानामुद्निरन्तभिवानलम् ‍ मृत्युश्व तत्युश्व तत्समीपस्थः कालानलसमप्रभाः ॥६९॥

कालश्वाञ्जनसंकाशः कृतान्तश्व भयानकः। मारीव्राग्रा महामारी कालराविः सुदारुणा ॥७०॥

विविधा व्याधयः कष्टा नानारूपभयावहाः । शक्तिशूलाङ्‍कुराधराः पाशचक्रासिधारिणः ॥७१॥

वज्जदण्डधरा रौद्राः क्षुद्रतूणीवनुर्द्धराः । असंख्याता महावीर्याः क्रूराश्वाञ्जनसंप्रभाः ॥७२॥

सर्वायुधोद्यतकरा यमदूना भयानकाः। अनेन परिवारेण महाघोरेण संवृतम् ‍ ॥७३॥

यमं पश्यन्ति पातिष्ठाश्विव्रगप्तं च भीषणम् ‍ । निर्भर्त्स्यन्तं चात्यन्तं यमं सदुपकारिणम् ‍ ॥७४॥

चिव्रगुप्रश्व भगवान्धर्मवाक्यैः प्रबोधयन् ‍ । भो भो दुष्कृतकर्माणः परद्र्व्यापहारिणः ॥७५॥

गर्विता रूपवीर्येण परदारविमर्दकाः। यत्स्वयं क्रियते कर्म तत्स्वयं भुज्यतं पुनः ॥७६॥

तत्किमात्मोपघातार्थं भवद्भिर्दुष्कृतं कृतम् ‍ । इदानीं किं प्रतप्यध्वं पीडयमानाः स्वकर्मभिः ॥७७॥

भुञ्जध्वं स्वानि कर्माणि नाव्र दोषोऽस्ति कस्यचित् ‍ । एते च पृथिवीपालाः संप्राप्ता मत्समीपत्तः ॥७८॥

स्वक्रीयैः कर्मभिर्घोरैर्दुःप्रज्ञा बलगर्विताः । भो भो नृपा दुराचाराः प्रजाविध्वंसकारिणः ॥७९॥

अल्पकालस्य राज्यस्य कृते किं दुष्कृतं कृतम् ‍ । राज्यलोभेन मोहाद्वा बलाद्न्यायतः प्रजाः ॥८०॥

यत्पीडिताः फलं तस्य भुञ्जध्वमधुना नृपाः। कृतं राज्यं कलव्रं च यदर्थमशुभं कृतम् ‍ ॥८१॥

तत्सर्वं संपरित्यज्य य़ूपमेकाकिनः स्थिताः। पश्वाम तद्धलं तुभ्यं येन विद्ध्वसिताः प्रजाः ॥८२॥

यमदूतैस्ताडन्यमाना अधुना कीद्दशं भवेत् ‍ । एवं बहुविवैर्वाक्यैरुपालब्धा यमेन ते ॥८३॥

शोचन्तः स्वानि कर्माणि तुष्णीं तिष्ठन्ति पार्थिव । इति धर्मं समादिश्य नृपाणां धर्मराट् ‍ पुनः ॥८४॥

तत्पापपङ्कशुद्धयर्थमिद वचनमब्रवीत् ‍ । भो भोश्वण्ड महाचण्ड गृहीत्वा नृपतीनिमान् ‍ ॥८५॥

विशोधयध्वं पापेभ्यः क्रमेण नरक्राग्निपु । ततः शीघ्रं समुत्थाय नृपान्संगृह्य पादयोः ॥८६॥

भ्रामयित्वातिवेगेन विक्षिप्योर्ध्वं विगृह्म च । सर्वप्राणेन महता सुतप्ते तु शिलातले ॥८७॥

आस्फालयन्ति तरसा वज्रेणेव महाद्रुपम् ‍ । ततः सरक्तस्त्रोतोभिः स्त्रवते जर्जरीकृतः ॥८८॥

स निःसंज्ञस्तदा देही निश्वेष्टः संग्रजायते । ततः स वायुना स्पृष्टः शनैरुज्जीवते पुनः ॥८९॥

ततः पापविशुद्धन्यर्थं क्षिप्यते नरकार्णवे । अष्टाविंशतिरेवाधः क्षितेर्नरककोटयः ॥९०॥

सप्तमस्य तलस्यान्ते घोरे तमास संस्थिताः । रौरवप्रभृतीनां च नरकाणां शतं स्मृतम् ‍ ॥९१॥

चत्वारिंशद्योजनकं महानरकमण्डलम् ‍ । येषु पापाः प्रपच्यन्ते नराः कर्मानुरुपतः ॥९२॥

यातपाभिर्विचिव्राभिराकर्मप्रक्षयाद्भशम् ‍ । आमलप्रक्षबाद्यद्वदग्नौ धास्यन्ति धातवः ॥९३॥

तथापापक्षयात्पापाच्छोध्यन्ते नरकाग्निषु । सुगाढहस्तया बांढ तप्तशृङ्खलया नराः ॥९४॥

महावृक्षाग्रशाखायां लम्बन्ते यमकिङ्करैः । ततस्ते सर्पयन्व्रेण क्षिप्रा दोल्यन्ति किङ्करैः ॥९५॥

दोल्यन्तश्वातिवेगेन निःसंज्ञा यान्ति योजनम् ‍ । अन्तरिक्षस्थितानां च लोहभारशतं ततः ॥९६॥

पादयोर्बाध्यते तेषां यमदूतैर्महाबलैः । तेन भारेण महता भृशमातर्दिता नराः ॥९७॥

ध्यायन्ति स्वानि कर्माणि नूष्णीं तिष्ठन्ति विह्ललाः। धाराभिरग्निवर्णाभिर्लोहदण्डैः सकण्टकैः ॥९८॥

हन्यन्ते क्रिङ्करैर्घोरेः समन्तात्पापकारिणः । ततः क्षारेण दीप्तेन बह्ररपि विशेषतः ॥९९॥

समन्ततः प्रलिप्यन्ते क्षताङ्गा जर्जरीकृताः । पुनर्विदार्य चाङ्गेषु शिरसः प्रभृति क्रमात् ‍ ॥१००॥

वृन्ताकवत्यपच्यन्ते तप्ततैलकटाहके । विष्ठापूर्णे ततः कूपे कृमीणां निचये ततः ॥१॥

मेदस्वक्पूयपूणायां वाप्यां क्षिप्यन्ति ते पुनः । मक्ष्यन्ते कृमिभिस्तीक्ष्णैर्लोहतुण्डैश्व वायसैः ॥२॥

श्वभिर्दंशैर्वृकैर्घोन्घैरपथवा नरैः । पच्यन्ते मांसबच्चापि प्रदीप्ताङ्गररशिषु ॥३॥

प्रोताः शूलेषु तीक्ष्णेषु नराः पापेन कर्मणा । तिलपिण्डैरिवाक्रम्य घोरैः कर्मभिरात्मनः ॥४॥

निलवत्संप्रपीडयन्ते चक्राख्ये नरके तथा । भिद्यन्ते चापि तल्पेषु लोहभ्रष्ट्रेष्वनेकधा ॥५॥

तैलपूर्णकटाहेषु सुनप्तेषु पुनःपुनः । बहुशः पीडन्यते जिह्रा याऽसत्यप्रियवादिनी ॥६॥

संदंशेन सुतप्रेन प्रपीडन्यन्ते च पादयोः। मिथ्यागमप्रवक्तुश्व द्विजिह्रस्य च निर्गता ॥७॥

जिह्रार्द्धक्रोशविस्तीर्णा हलैस्तीक्ष्णैश्व बाध्यते । निर्मर्त्स्यन्ति ये क्रूरा मातरं पितरं गुरुम् ‍ ॥८॥

तेषां वक्ष उलूकाभिर्मूखमापूर्य सेव्यते । ततः क्षोरण दीप्तेन ताम्रेण तु पुनःपुनः ॥९॥

तत आपूर्यसेऽत्यर्थं तप्ततैलैश्व तन्मुखम् ‍ । इतस्ततः पुनर्वक्व्रं भृशमापूर्य हन्यते ॥११०॥

विष्ठामिः कृमिभिश्वापि सुवर्णहरणैर्नरः ॥११॥

परिष्वजति चात्युग्रां प्रदीप्तां लोहशाल्मलिम् ‍ । हन्यते पृष्ठदेशे च पनस्तीक्ष्णैर्महाघनैः। दन्तुरेणातिकूटेन क्रकचेन बलीयसा ॥१२॥

शिरःप्रभृतिपादान्तं घोरैः कर्मभिरात्मजैः । खाद्यते स्वानि मांसानि पायते शोणितं स्वकम् ‍ ॥१३॥

अन्नं पानं न दत्तं य़ैर्मूढैर्नाप्यनुमोदितम् ‍ । इक्षुवत्ते प्रपीडयन्ते जर्जरीकृतमस्तकाः ॥१४॥

आसितालवने थोरे च्छिद्यन्ते खण्डखण्डशः । सूचीभिर्भिन्नसर्वाङ्गास्तप्रशूलप्ररोपिताः ॥१५॥

संबाध्यमाना विवशाह क्लिश्यन्ते न स्त्रियन्ति वै । देहादुत्साद्य मांसानि भिद्यन्तेऽस्थीनि मुद्र्रैः ॥१६॥

द्दष्टिराकृष्यते तूर्णं यमदूतैर्बलोत्कटैः। निरस्तास्ते निरुच्छ्रवासास्तिष्ठन्ति नरके ध्रुवम् ‍ ॥१७॥

उच्छ्‍वसन्ति सदा श्वासैवालुकाच्छादिता मुखं । रौखे रोदमानाश्व पीडन्यन्ते विविधैः शरैः ॥१८॥

महारौरवपीडाभिमंहतीभिस्तदन्तिके । पाद आस्ये गुदे चैब पार्श्वे चोरसि मस्तके ॥१९॥

निखन्यन्ते घनैस्तीक्ष्णैः सुतप्तैर्लोहशङ्रकुभिः। सुतप्तवालुकायां च प्रलुठन्यन्ते पुनःपुनः ॥२०॥

जतुपङ्रे भृरां तप्ते क्षिप्त्वाक्रन्दन्ति विस्तरम् ‍ । तेन ते यमदूता वै हसन्ति पारदारिकम् ‍ ॥२१॥

गाढमालिङ्गन्यते नारीं ज्वलन्तीं लोहानिर्मिताम् ‍ । पूर्वाकारं च पुरुषं प्रज्वलन्तं समन्ततः ॥२२॥

दुश्वारिण्यः स्त्रियो गाढमालिङ्गन्ति वदन्ति च । किं प्रधावसि वेगेन ते न मोक्षोऽस्ति सांप्रतम् ‍ ॥२३॥

लङ्रघितस्ते यथा भर्तां पापं भुङक्ष्व तथाधुना । लोहकुम्भे तथा क्षिप्ताः सविधानैः शनैःशनैः ॥२४॥

मृद्वाग्निनाथ पच्यन्ते स्वपापैरेव मानवाः। कुणन्त्युलूखले सास्त्राः प्रक्षिप्यन्ते शिलासु च ॥२५॥

क्षिप्यन्ते चान्धकूपेषु दश्यन्ते भ्रमरैर्भृशम् ‍ । कृमिभिर्भिन्नसर्वाङ्रा शतशो जर्जरीकृताः ॥२६॥

सुतीक्ष्णक्षारकूपेषु क्षिप्यन्ते तदनन्तरम् ‌ । महाज्वाले च नरके पापाः फूत्कारयन्ति च ॥२७॥

इतस्ततश्व धावन्ति दह्ममानास्तदर्चिपा । पृष्ठे चानीय जङ्‍घे द्वे बिन्तस्ते स्कन्धयोः स्थिते ॥२८॥

तयोर्मध्येन चाकृष्य चाहुपुष्ठेन गाढतः । बध्वाः परस्परं सर्वं सुहढं गाढरज्जुभिः ॥२९॥

पीडयन्ति सुसंरब्धा भ्रमरास्तीक्ष्णलोहजाः । मानिनां क्रोधिनां चैव पुरा पापल्य कारणात् ‍ ॥१३०॥

पापानां नरके पुंसां घृष्यते चन्दनं यथा । शरीराभ्यन्तरगतं तरुणानां च दारुणम् ‍ ॥३१॥

पिण्डचन्धः स्मृतो याम्यो महाज्वालेषु यातनाः । रज्जुभिर्वेष्टिताङ्राश्व प्रलिप्ताः कर्दमेन च ॥३२॥

करीषरूक्षवह्रौ च पच्यन्ते न स्त्रियन्ति च । सुतीक्ष्णक्षारतोयेन शर्करासु शिलासु च ॥३३॥

आपापसंक्षयात्पापा घृष्यन्ते चन्दनं यथा । शरीराभ्यन्तरगतैः प्रभूतैः कृमिभिनराः ॥३४॥

मक्ष्यन्ते तीक्ष्णवदनैरादेहप्रक्षयाद्भृशम् ‍ । कृमीणां निचये क्षिप्ताः पूतिमांसस्य राशिषु ॥३५॥

तिष्ठन्त्युद्विग्नह्रदयाः पर्वताभ्यां च पीडिताः । सुतप्तवज्रलेपेन शरीरमनुलिप्यते ॥३६॥

अधोमुखोर्ध्वपादाश्व धृतास्तप्यान्ति वह्रिषु । बदनान्ते प्रविन्यस्तं सुतप्तायोमयं गुडम् ‍ ॥३७॥

ते खादन्ति पराधीना हन्यमानास्तु मुद्ररैः । ये शिवायतनारामवापीकूपमठाङ्गणात् ‍ ॥३८॥

अभिद्रवन्ति पापिष्ठा नरास्तव्र वसन्ति च । व्यायामोद्वर्तनाभ्यङ्गस्त्रानमापानभोजनम् ‍ ॥३९॥

क्रीडनं मैथुनं द्यूतमाचरन्ति रमन्ति च । ते बाघैर्विविघैर्घोरैरिक्षुपन्व्रादिपीडनैः ॥१४०॥

निरयाग्निषु पच्यन्ते यावदाचन्द्रतारकम् ‍ । ये शृण्वन्ति गुरोर्निन्दां तेषां कर्णः प्रपूर्यते ॥४१॥

अग्निवर्णैरयःकीलैस्तप्ततास्त्रादिभिर्द्रुतैः । व्रपुसीसारकूठाद्यैः क्षारेन जन्तुना पुनः ॥४२॥

क्रमादापूर्यते कर्णो नरकेषु च यातनाः । अनुक्रमेण सर्वेषु भवन्त्येते समन्ततः ॥४३॥

सर्वेन्द्रियाणामप्येवं क्रमात्पापेन यातनाः। भवन्ति घोराः प्रत्येकं शरीरे तत्कृतेन च ॥४४॥

स्पर्शलोभेन ये मूढाः संस्पृशन्ति परास्त्रियम् ‍ । तेषां त्वगग्निवर्णाभिः सूचीभिः पुर्यते भृशम् ‍ ॥४५॥

ततः क्षारादिभिः सर्वौह शरीरमनुलिप्यते । यातना च महाकष्टा सर्वेषु नरकेषु च ॥४६॥

गुरोः कुर्वन्ति भ्रुकुटिं क्रूरं चक्षुश्व ये नराः । परदारांश्व पश्यन्ति लुब्धाः स्त्रिग्धेन चक्षुषा ॥४७॥

सूचिभिरग्निवर्णाभिस्तेषां नेव्रं प्रपूर्तते । क्षाराधैश्व क्रमात्सर्वैर्देहे सर्वाश्व यातनाः ॥४८॥

देवाग्निगुरुविप्राणां येऽनिवेद्य प्रभुञ्जते । लोहकीलशतैस्तप्तैस्तज्जिह्रास्यं प्रपूर्यते ॥४९॥

ततः क्षारेण दीप्तेन तैलताम्रादिभिः क्रमात् ‍ । शरीरे च महाघोराश्विव्रा नरकयातनाः ॥१५०॥

ये शिवारामपुष्पाणि लोभात्संगृह्य पाणिना । जिघ्रन्ति मूढमनसा शिरसा धारयन्ति च ॥५१॥

आपूर्यते शिरस्तेषां सुतप्तैर्लोहशङ्रकुभिः। नासिका चातिबहुशस्ततः क्षारादिभिः पुनः ॥५२॥

ये निन्दन्ति महात्मानमाचार्यं धर्मदेशकम् ‍ । शिवभक्तांश्व ये मूढाः शिवधर्मं च शाश्वतम् ‍ ॥५३॥

तेषामुरसि कण्ठे च जिह्रायां दन्तसन्धिषु । तालुकोष्ठे च नासायां मूर्न्घि सर्वाङ्गसन्धिषु ॥५४॥

अग्निवर्णाः सुतप्ताश्व व्रिशिखा लोहशङ्कवः । आखन्यन्ते सुबहुशः स्थानेष्वेतेषु मुद्नरैः ॥५५॥

ततः क्षारेण तप्तेन तास्त्रेण व्रपुणां पुनः। तप्ततैलादिभिः सर्वैरापूर्वन्ते समन्ततः ॥५६॥

क्षारतास्त्रादिभिर्दीप्तैर्दह्यन्ते बहुशः पुनः। नरकेषु च सर्वेषु विचिव्रा देहयातनाः ॥५७॥

भवन्ति बहुशः कष्टः कष्टाः पाणिपादसमुद्भवाः। शिवायतनपर्यन्ते शिवारामे च कुव्रचित् ‍ ॥५८॥

समुत्सृजन्ति ये पापाः पुरीषं मूव्रमेव वा । तेषां लिङ्गं सवृषणं चूर्ण्यते लोहमुद्नरैः ॥५९॥

सूचीभिरग्निवर्णाभिस्ततश्वापूर्यते पुनः। लोहदण्डश्व सुमहानग्निवर्णः सकण्टकः ॥६०॥

आखोद्यते गुदस्तेषां यावन्मूर्न्घि विनिर्गतः । ततः क्षारेण महता तास्त्रेण व्रपुणा पुनः ॥६१॥

द्रुतेनापूर्यते गाढं गुदं शिश्वं हि देहिनाम् ‍ । मनः सर्वेद्रियाणां च यस्मादुक्तं प्रवर्तकम् ‍ ॥६२॥

तस्मादिन्द्रियदुःखेन याचत तत्सुदुःखितम् ‍ । धने सत्यपि ये दानं न प्रयच्छन्ति तृष्णया । अतिथिं चावमन्यन्ते कालप्राप्तं गृहाश्रमे ॥६३॥

ते लोहतोरणे बद्धा हस्तपादावताडिताः । विदारिताङ्गाः शुष्यन्ते तिष्ठन्त्यब्दशतं नराः ॥६४॥

हस्तपादललाटेषु कीलिता लोहशङ्रकुभिः । नित्यं च नीवृतं वक्वं कीलकद्वपनाडितम् ‍ ॥६५॥

कृमिभिः प्राणिभिश्वोग्रैर्लोहदण्डैश्व वायसैः । उपद्रवैर्बहुविधैः सर्पैर्मुखरकैस्ततः ॥६६॥

आपीडन्यन्ते जिह्लागूले नितध्य शुङ्खलाः पुनः । तिष्ठन्ति लम्व्रमानाश्व लोहभारप्रपीडिताः ॥६७॥

स्त्रिग्धे च वृषणे नद्धे लोहभारद्वयं पुनः। तिष्ठते लम्बमानं च बहु भारचतुगुर्णम् ‍ ॥६८॥

ततः स्वमांसमुत्कृत्त्य तिलमाव्रप्रमाणतः । भोजनं दीयते तेषां सूच्यग्रेण सशोणितम् ‍ ॥६९॥

यदा निर्मांसतां प्राप्ताः कालेन महता पुनः । ततः क्षारेण दीप्तेन वपुस्तेषां प्रलिव्यते ॥७०॥

सिच्यन्ते वर्षधाराभिः शोष्यन्ते वायुना पुनः । सिच्यन्ते तप्ततैलेन प्रतप्तेन समन्ततः ॥७१॥

पश्वात्ते वह्लिना भूयो दूरस्थेन शनैःशनैः। निःशेषयाननाभिश्व पीडन्यन्ते क्रमशः पुनः ॥७२॥

भृरां बुभुक्षया पीडा मूर्च्छयातिपिपासया । अत्युष्णेनातिखीतेन पापानां बायुनापि च ॥७३॥

एवमादिमहाघोरा यातनाः पापकारिणः । एकैके नरके चैव शतशोय सहखशः ॥७४॥

प्रत्येक यातनाश्विवाः सर्वेषु नरकंषु च । कष्टं वर्षशतेनापि सोढुं सर्वैश्व नारकं ॥७५॥

एते च विविधैर्घोरैर्यात्यमानाश्व कमभिः। स्त्रियन्ते नैव्र पापिष्ठा विविधाः पापकारिणः ॥७६॥

अहो घोरामिघोराख्याः कालाग्निसद्दशोंपमाः । श्रुतैरेतैर्महारौद्रैर्स्त्रियन्ते मृदुव्रेतसः ॥७७॥

ततस्तेनाव्रा कथिताः पापा गच्छन्ति तान्स्वयम् ‍ । पुव्रमिव्रकलव्रार्थं यदा पुण्यं त्वपाकृतम् ‍ ॥७८॥

एकाकी दह्यते तेन न च पश्यति तानि सः । आत्मना च कृत पापं भोक्तव्यं ध्रुवमात्मना ॥७९॥

तत्किमन्योपघातार्थं मूढ पापं कृतं त्वया । एवं दूतैरुपालब्धास्ते पृच्छन्ति ततः पुनः ॥१८०॥

कियन्तं केन पोपन कालमाव्रायते नराः। देवद्रव्यविनाशेन गुरुद्रोहादिकर्मभिः ॥८१॥

पापाः सर्वेषु पच्यन्ते नरत्केष्वामहाक्षयात ‍ । महापातकिनश्वापि सर्वेषु नरकेष्विह ॥८२॥

आचन्द्रतारकंयावत्पीडयन्ते विविधैर्वधैः । महापातकिनश्वापि नरकार्णवकोटिषु ॥८३॥

चतुर्दशसु पच्यन्ते कलार्धं विविधैर्वधैः । उपपातकिनश्वापि तदर्धं यान्ति मानवाः ॥८४॥

शेषपापैस्तदर्घं तु कालं चापि तथाविधम् ‍ । तस्मात्पापं न कुर्वीत चञ्चले जीविते सति ॥८५॥

पापेन हि ध्रुवं यान्ति नरकेषु नराः स्वयम् ‍ । यः करोति नरः पापं तस्यात्मा ध्रुवमप्रियः ॥८६॥

पापस्येह फलं दुःखं तद्भोक्तव्यमिहात्मना । कथम ते पापनिरता नरा राव्रिषु शेरते ॥८७॥

मरणान्तरित येषां नारकी तीव्रयातना । एवं क्लिष्टविशुद्धाश्व सावशेषेण कर्मणा ॥८८॥

ततः क्षितिं समासाद्य पुनर्जायन्ति देहिनः। स्थावरा विविधाकारास्नृणगुल्मादिभेदतः ॥८९॥

तव्रानुभूय दुःखानि जायन्ते कीटयानिषु। निष्क्रान्ताः कीटयोनिभ्यस्ततो जायन्ति पक्षिणः ॥१९०॥

संश्लिष्टाः पक्षिभावेन भवन्ति मृगजादिषु । मार्गं दुःखमतिक्रम्य जायन्ते पशुयोनिषु ॥९१॥

क्रमाद्नोयोनिमासाद्य पुनर्जायन्ति मानवाः एवं योनिषु सर्वासु परिक्रम्य कमेण तु ॥९२॥

कलान्तरवशाद्यान्ति मानुव्यमतिदुर्लभम् ‍ । व्युत्क्रमेणापि मानुष्यं प्राप्यते पुण्यगोचरातू ॥९३॥

विचिव्रा गतयः प्रोक्ताः कर्मणां गुरुलाघवात् ‍ । मानुष्यं यः समासाद्य स्वर्गमोक्षप्रसाधकम् ‍ ॥९४॥

द्वयोनं साधयत्येकं स मृतस्तप्यते चिरम् ‍ । देवासुराणां सर्वेषां मानुष्यमतिदुर्लभम् ‍ ॥९५॥

तत्संप्राप्य तथा कुयांन्न गच्छेन्नरकं यथा । स्वर्गापवर्गलाभाय यदि नास्ति समुद्यतः ॥९६॥

स्वर्गस्य मूलं मानुष्यं तद्यत्नादनुपालयेत् ‍ । धर्ममूलेन मानुष्यं लब्ध्वा सर्वार्थसाधकम् ‍ ॥९७॥

यदि लाभे न यन्तस्ते मूल रक्षस्व यत्नतः । मनुष्यत्वे च विप्रत्वं यः संप्राप्यातिदुर्लभम् ‍ ॥९८॥

न करोत्यात्मनः श्रेयः कोऽन्यस्तस्मादचेतनः । सर्वेषामेव देशानां मध्यदेशः परः स्मृतः ॥९९॥

अतः स्वर्गश्व मोक्षश्व यशः संयाप्यते नरैः । एतस्मिन्भारते पुण्ये प्राप्य मानुष्यमध्रुवम् ‍ ॥२००॥

यः कुर्यादात्मनः श्रेयस्तेनात्मा रक्षितः स्वयम् ‍ । यः कुर्यान्नात्मनः श्रेयस्तेनात्मा वञ्चितः स्त्रयम् ‍ ॥१॥

भोगभूमिः स्मृतः स्वर्गः कर्मभूमिरियं मता इह यत्क्रियते कर्म सर्गे तदुपभुज्यते ॥२॥

यावत्स्वास्थ्यं शरीरस्य तावद्धर्मं समाचर । अस्वस्थश्वातियन्तेन न किञ्चित्कर्तुमुत्सहेत् ‍ ॥३॥

अघ्रुवेण शरीरेण ह्यध्रुवं यः प्रसाधयेत् ‍ । ध्रुवं तस्य परिभ्रष्टमध्रुवं नष्तमेव च ॥४॥

आयुषः खण्डखण्डानि निपतन्ति तवाग्रतः । अहोराव्रापदेशेन किमर्थं नावबुध्यसे ॥५॥

यदा न ज्ञायते मृत्युः कदा कस्य भविष्यति । आकस्मिके हि मरणे ध्रुर्ति विन्देत कस्तदा ॥६॥

परित्यज्प यदा सर्वमेकाकी यास्यसि ध्रुवम् ‍ । न ददासि तदा कस्मात्पाथेयार्थमिदं धनम् ‍ ॥७॥

गृहीतदानपाथेयाह सुखं यान्ति महाध्वानि । अन्यथा क्लिश्यते जन्तुः पाथेयरहितः पथि ॥८॥

येषां द्विजेन्द्रवाहिव्री पूर्णभाण्डा तु गच्छति । स्वर्गदेशस्य पुरतस्तेषां लाभं पदे पदे ॥९॥

इति ज्ञावा नरः पुण्य़ं कुर्यात्पापं विवर्जयेत् ‍ । पुण्येन याति देवत्वमपुण्यान्नरकं व्रजेत् ‍ ॥२१०॥

ये मनागपि देवेरां प्रपन्नाः शरणं शिवम् ‍ । तेपि घोरं न पश्यन्ति यमस्य बदनं नराः ॥११॥

किन्तु पापैर्महाघोरैः किञ्चित्कालं शिवाज्ञया । भवन्ति प्रेतराजानस्ततो यान्ति शिवालयम् ‍ ॥१२॥

ये पुनः सर्वभावेन प्रतिपन्ना महश्वरम् ‍ । न ते लिप्यन्ति पापेन पद्मपव्रामिचाम्भसा ॥१३॥

तस्माद्विवर्धयेद्भक्तिमीश्वरे सह्तं बुधः। तन्माहात्म्यविचारेण भवदोषविरागतः ॥१४॥

पापानि पञ्च परमार्थंसयैव पार्थ दुःखप्रदानि सुचिरं पितृराजलोके । अन्यानि यानि चिरकालभयानकानि बक्तुं न यान्ति किल तानि परिस्फुटानि ॥२१५॥ [ ६२८ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शुभाशुभफलनिर्देशो नाम षष्ठोऽध्यायः॥६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:21.2230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बोडेर

  • पु. 
  • ( गो . ) पिवळ्या चोचीचा पोपट ; याला कंठ ( गळ्याभोंवतालची काळी रेघ ) नसतो . 
  • ( ल . ) व्यवहारशून्य अगर निर्बुद्ध मनुष्य ; रिकामा मनुष्य . 
RANDOM WORD

Did you know?

आत्मा जेव्हा शरीर सोडतो तेव्हा त्याचा पुढचा प्रवास कसा असतो?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.