TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ८३

उत्तर पर्व - अध्याय ८३

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय ८३

युधिष्ठिर उवाच ॥

यदेतत्परमं गुह्यं सर्ववेदेषु पठन्यते । सदेवः पुण्डरीकाक्षः स्वयं नारायणो हरिः ॥१॥

सयज्ञैविंविधैरिटैर्ब्रतैश्व यदुसत्तम । प्राप्यते परमो देवः सनातन कथञ्चन ॥२॥

बहुवित्तेन भगवानृत्विग्भिर्वेदपारगै । पाप्यन्ते सुसहायैश्व क्वचित्यक्ताः सुदुष्कराः ॥३॥

वित्तेन च विना दानं दातुं कृष्ण न शक्यते । विद्यमानेऽपि न मतिः कुटुम्बासक्तचेतसः ॥४॥

तस्य मोक्षः कथं कुष्ण सर्वथा दुर्लभो हरिः । अल्पायासेन लभते येन देवः सनातनः ॥५॥

तन्मे सामान्यतो ब्रूहि सर्ववर्णेषु यद्भवेत् ‍ । श्रीकृष्ण उवाच ॥ कथयामि परं गुह्मं रहस्यं देवनिर्मितम् ‍ ॥६॥

धरण्या यत्कृतं पृर्वं सज्जन्त्या वसुधातले । पृथिव्यां पाथिंव यदा सर्व जलमयं ह्यभूत ॥७॥

तस्मिन्सलिलसंलग्ने सही प्रायाद्रसातलम् ‍ । सा भृतधाव्री धरणी रसातलगता शुभा ॥८॥

आराधयामास विभुं देवं नारायणं परम ‍ । उपवासव्रतैर्देवी नियमैश्व पृथग्विधैः ॥९॥

कालेन महता तस्याः प्रसन्नो गरुडध्वजः । उज्जहार स्थितौ चेमां स्थापयामास वाच्युतः ॥१०॥

प्राप्ते मार्गाशरे मासे दशभ्यां नियतात्मवान् ‍ । स्त्रात्वा देवार्चनं कृत्वा अग्निकार्यं यथाविधि ॥११॥

शुचिवासाः प्रसन्नात्मा द्यस्यल्पान्नं सुसंकृतम् ‍ । भुक्त्या पञ्चपदं कृत्वा पुनः शौचं च पादयोः ॥१२॥

कृत्वाष्टाङगुलमाव्रं तु क्षीरदूक्षसमुद्भवम् ‍ । भक्षयेद्दन्तकाष्टं तु ततश्वाचम्य यत्नतः ॥१३॥

स्पृष्टवान्यासानि कर्माणि चिरं ध्यात्वाजनार्दनम् ‍ । शङ्खचकगदापाणिं पीताग्बरसमावृतम् ‍ ॥१४॥

एवमुच्चारयेद्वाच तस्मिन्काले नहाद्युते । एकादश्यां निराहारः स्थित्वाहमपरेहनि ॥१५॥

भोक्ष्येहं पुण्डरीकाक्ष शरणंमे भवाष्युपऽ । पवामुक्त्वा ततो देवदेवस्त सन्निधौ ॥१६॥

जपैन्नारायणायेति नमस्ततव्र विधानतः । ततः प्रभाते विमले नदीं गत्वा समुद्रगाम् ‍ ॥१७॥

इतरां वा तडागां वा गूहे वानियतात्मवाम् ‍ । आनीय मृत्तिकां शृद्धां मन्व्रेणानेन मानवः ॥१८॥

धारणं पोषणं त्वत्तो भूतानां देवि सर्वदा । तेन सत्त्वेन मां पाहि पापान्मोचय सुव्रते ॥१९॥

मृत्तिकामन्व्रः ॥ ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानिते रवे । भवन्ति तानि पूतानि मृत्तिकामालभन्तुते ॥२०॥

आदित्यदर्शनमन्व्रः । एवं मृदं रवेरग्रे कृत्वाथात्मानमालभेत् ‍ । व्रिःकृत्वाशेषमृदया कुण्डमालिख्य वै जले ॥२१॥

ततः स्त्रात्वा नरः सम्यक्वकवर्त्युपचारकः । आचम्यावश्यकं कृत्वा पुनर्देवगृहं व्रजेत ‍ ॥२२॥

तमाराध्य महायोगं देवं नारायणं प्रभुम् ‍ । केशवाय नमः पादौ कटिं दामोदराय च ॥२३॥

ऊरुयुग्मं नृसिंहाय उरः श्रीवत्सधारिणे । कण्ठं कौस्तुभनाथाय वक्षः श्रीपतये तथा ॥२४॥

व्रैलोक्यविजयायेति वाहू सर्वात्मने शिरः । रथाङ्गधारिणे चकं शंकरायेति चाग्बुजम् ‍ ॥२५॥

गम्मीरायेति च गदामभयं शान्तमूर्यये ॥ एवमभ्यर्च देवेरांदेवं नारायणं प्रभुम् ‍ ॥२६॥

पुनस्तस्याम्रतः कुम्भांश्वतुरः स्थापयेद्‍बुधः । जलपूर्णान्समाल्यांश्व सितचन्दनचचिंतान् ‍ ॥२७॥

चतुर्भिस्तलपाव्रैश्व स्थगितान्न नसंयुतान् ‍ । चत्वारस्ते समुद्रास्तु कलशीः परिकीर्तिताः ॥२८॥

तेषां मध्ये तु संपीठं स्थापयेद्वस्त्रसवृतम् ‍ । तस्मिन्प्तौवर्णं रौप्यं वा ताम्रं वा दारवं तथा ॥२९॥

पाव्रं तोयभृतं कृत्वा तस्य मध्ये ततो न्यसेत् ‍ । सौवर्णं मात्स्यरूपेण कृत्वा देवं जनार्दनम् ‍ ॥३०॥

वेदवेदाङ्गसंयुक्तं श्रुतिस्मृतिविभूषितम् ‍ । भक्ष्यैर्बहुविधै राजन्फलैः पुष्पैश्व शोभितम् ‍ ॥३१॥

गन्धैधूपैर्मन्व्रवरैरर्चयित्वा यथाविधि । रसातलगता वेदा यथा देव त्वयाह्रताः ॥३२॥

सत्स्यरूपेण तद्वन्मां भवादुद्धर केशव । एवमुच्चार्य तस्याग्रे जागरं तव्र कारयेत् ‍ ॥३३॥

यथाविभवसारेण प्रभातेऽपि पुनः स्त्रात्वा । चतुर्णां बाह्मणानां तु च तुरो दापयेद्धटान् ‍ ॥३४॥

पूर्वं तु बहवृचे दद्याच्छन्दोगे दक्षिणं तथा । यजुःशाखान्विते दद्यात्पश्विभं घठमुत्तमम् ‍ ॥३५॥

उत्तरं कामतो दद्याद्देश एव विधिकमात् ‍ । ऋग्वेदः प्रीयतां पूर्वं सामबेदश्व दक्षिणः ॥३६॥

यजुषः पश्विमो नान्मा अथर्वायोत्तरं तथा । पूर्वपाव्रैस्तु सतिलैः स्थगितान्कारयेद्धटान् ‍ ॥३७॥

ततस्तं जलपाव्रस्थं ब्राह्मणाय कुटुम्बिने । दद्यादेवं महाभाग ततः पश्वात्त भोजये ॥३८॥

ब्राह्मणान्पायसान्नेन ततः पश्वात्स्वयं गृही । भुञ्जीत भृत्यसहितो वाग्यतः संयतेन्द्रियः ॥३९॥

अनेन विधिना यस्तु द्वादशीं क्षपयेन्नरः । तस्य पुण्यफलं राजञ्छृणु सत्यबतां वर ॥४०॥

यदि वक्त्रसहस्त्राणि भपन्ति हि युगे युगे । आयुश्व ब्रह्मण तुल्यं भवेद्यदि महामते ॥४१॥

तदस्य फलसंख्यानं कर्तुंशक्यं न भारयेत् ‍ । यः कृष्णद्वादशीमेतामनेन विधिना नृप ॥४२॥

करोति ब्रह्यलोकं स समान्पोति न संशय । ब्रह्महत्यादि पापानि जन्मान्तरकृतान्यपि ॥४३॥

अकामतः कामतो वा प्रणश्यन्ति न संशय । तथैब पुष्यमासेन अमृतं मथितं सुरैः ॥४४॥

तव्र कूर्मोऽभबद्देवः स्वयमेव जनार्दनः । तस्येयं तिथिरुद्दिष्टा हरेर्वै कूर्मरूपिणः ॥४५॥

पुष्यमासं समासाद्य द्वाइशीं शुक्लसंयुताम् ‍ । तस्यां प्राग्वत्तु संकल्पः प्रातःस्त्रानादिकाः कियाः ॥४६॥

निर्वर्त्याधारयेद्राव्यामेकादश्यांद जनार्दनम् ‍ । प्रीयमन्व्रैर्नृपश्रेष्ठ देवदेवं जगद्‍गुरुम् ‍ ॥४७॥

कूर्माय पादौ प्रथमं सपूज्य नारायणायेति कसुटिं हरेस्तु । सङ्कर्षणायेत्युदरं विशोधेत्पुरोभवायेति च कण्ठपीठम् ‍ ॥४८॥

सुबाहवेत्येव भूजौ शिरश्व सर्वात्मने पाण्डव पूजनीयौ । स्वनाममन्व्रेण च शङ्खचके गदां नमस्कारपरेण चैव्र ॥४९॥

मन्व्रैरिमैः पुष्पसुगन्धधूपेर्नैवेद्यदीपिर्विधैः फलैश्व । अभ्यर्च्य देवं कलशं तदग्रे संस्थापथेन्माल्यविलेपनाद्यम् ‍ ॥५०॥

तं रत्नगर्भं सुसुगन्धतोयं कृत्वा ततो हेममयं स्वशक्त्या । समन्दरं कूर्मतनुं सुरेशं संस्थापयेच्चाव्र शुभे च पाव्रे ॥५१॥

घृतस्य पूर्णे कलशाग्रसंस्थं संपूजयेज्जागरनृत्यगीतैः । संपूज्य विप्रान्घृतपायसेन निवेद्य पूर्वं द्विजषुङ्गवाय ॥५२॥

निर्वर्त्य सर्वं विधिवत्ततश्व भुञ्जीत संतृष्टमनाः सभृयः । एवं कृते कल्पयुगान्तराणि रवर्गे वसेत्सर्वसमृद्धकामः ॥५३॥

संसारचकं स विधाय शीघ्रमान्पोति लोके तु हरेः पुराणे । प्रयान्ति पापानि विनाशमाशु श्रिया युतो जायति सत्यधर्मः ॥५४॥

अनेकजन्मार्जितसयुतोन नश्यन्ति पापानि नरस्य भक्त्या । प्रागुक्तरूपं च भलं लभेत्स नारायणं वस्तुमुपौति सद्यः ॥५५॥

एवं माघे सिते पक्षे द्वादशीं धरणीधर । वराहस्य श्रृणुष्वान्यां राजन्परमधार्मिक ॥५६॥

प्रागुक्तेन विधानेन स्त्रानं संकल्पमेव च । कृत्वा देवं समभ्यर्च एकादश्यां समाहितः ॥५७॥

धूपनैवेद्यगन्धैस्तु अर्चयित्वा युतं नरः । पश्वात्तस्याग्रतः कुम्भं जलपूर्णं तु विन्यसेत् ‍ ॥५८॥

वराहायेति पादौ तु माधवायेति वै कटिम् ‍ । क्षेव्रज्ञायेति जठरं विश्वरूपेत्युरो हरेः ॥५९॥

पूर्वव्रायेति कण्ठं तु प्रजानां पतये शिरः । प्रद्युन्मायेति च भुजौ दिव्यास्त्राय सुदर्शनम् ‍ ॥६०॥

अमृतोद्भवा शह्खं तु गविने च गदां तथा । एवमभ्यर्च्य मेधावी तस्मिन्कुम्भेऽपि विन्यसेत् ‍ ॥६१॥

सौवर्णरूप्यताम्र वा पाव्रं विभवशक्तितः । सर्वबीजैस्तु संपूर्णं स्थापयित्वा विचक्षणः ॥६२॥

तव्र शक्त्या च सौवर्णं वारहं कारयेत्ततः । दंष्ट्राग्रेणोद्धरन्पृथ्वीं सपर्वतवनद्रुमाम् ‍ ॥६३॥

माधवं मधुहन्तारं वाराहं रूपमास्थितम् ‍ । सर्वबीजभृतैः पाव्रै रत्नगर्भघटोपरि ॥६४॥

स्थापयेत्परमं देवं जातरूपमयं हरिम् ‍ । सितवस्त्रयुगच्छन्नं ताम्राभावे तु वैणवे ॥६५॥

स्थाप्यार्चयेद्नन्धपुष्पैर्नैवेद्यैर्विविधैः फलैः । पुष्पमण्डपिकां कृत्वा जागरं तव्र कारयेत् ‍ ॥६६॥

प्रादुर्भावं हरेर्दिव्यं वाचयेद्नोपयेद्‍बुधः । एवं सनियमस्यास्य प्रभाते उदिते रवौ ॥६७॥

वेदवेदाङ्गविदुषे साधुवृत्ताय धीमते । विष्णुभक्ताय राजेन्द्र विशेषेण प्रदापयेत् ‍ ॥६८॥

एवं सङ्‍कुम्भ दत्त्वा च हरिं वाराहरूपिणम् ‍ । ब्राह्मणाय भवेद्यद्वत्फलं तन्मे निशामय ॥६९॥

इह जन्मनि सौभाग्यं श्रीः कान्तिः पुष्टिरेव च । प्रान्पोति पुरुषो राजन्यद्यदिच्छति किञ्चन ॥७०॥

एकाऽपि विधिनोपास्ता ददात्यमृतमुत्तमम् ‍ । किं पुनर्वर्षमेकं च करोति कुरुनन्दन ॥७१॥

एतच्च फाल्गुने मासि शुक्लपक्षे तु द्वादशी । उपोष्या पूर्वविधिना हरिमाराधयेत्सुधीः ॥७२॥

नरसिंहाय पादौ तु गोविन्दायोदरं तथा । कटिं विश्वसृजे पूज्य अनिरुद्धेत्युरो हरेः ॥७३॥

कण्ठं तु शितिकण्ठाय वैनतेयाय वै शिरः । असुरध्वंसनायेति चक्रं तोयारमते नमः ॥७४॥

शङ्खमित्येब संपूज्य गत्धपुष्पैः फलैग्तथा तदग्रे तु घटं स्थाप्य सितवस्त्रयुगान्वितम् ‍ ॥७५॥

तस्योपरि नृसिंह तु सौवर्ण ताम्रभाऊने । हमे च शक्तित कृत्वा दारुवंशमयेऽपि वा ॥७६॥

रत्नगर्भमये स्थाप्य भक्त्या संपूज्य मानवः । द्वादश्यां वदविदुषे ब्राह्मणाय निवेदयेत् ‍ ॥७७॥

एषा बन्द्या पापहरा द्वादशी भवते मया । कथिता च प्रयत्नेन श्रुता च भवतेप्सिता ॥७८॥

एवमेषा नरव्याघ्र चैव्रे संकल्प्य द्वादशी । उपोष्याराघयेत्पश्वाद्देवदेबं जनार्दनम् ‍ ॥७९॥

कुण्डिकां स्यापयेत्पार्श्वे छव्रिकां पादुके तथा । अमलं वामन स्थाप्य बृसरिकां सपाच्छिदाम् ‍ ॥८०॥

फलैः पुष्पैः सुगन्धैश्व प्रभाते सद् ‍ द्विजातये । दापयेत्प्रीयतां विष्णुर्ह्लस्वरूपीत्युदीरये‍त् ‍ ॥८१॥

मासनान्माव्र संयुक्तं प्रादुर्भावं विधानतः । प्रीयतामिति सर्वव्र विधिरेबं प्रकीर्तितः ॥८२॥

अपुव्रो लभते पुव्रमधनो धनमान्पुयात् ‍ । भ्रष्टराज्यो लभेद्राज्यं मृतो विष्णुपुरं ब्रजेत् ‍ ॥८३॥

क्रीडित्वा सुचिरं कालमिह मर्त्यमुपागतः । चकवर्ती भवेद्धीमान्यवातिरिबा नाहुषः ॥८४॥

वैशाखेऽप्येवमेवं तु संकल्प्य विधिवन्नरः । तद्‍त्स्त्रानं मृदा तद्वत्ततो देवालयं व्रजेत् ‍ ॥८५॥

तव्राराध्य हरिं भक्त्या एभिर्मन्व्रैर्विचक्षणः । जामदग्नन्याय पादौ तु उदरं सर्वधारिणे ॥८६॥

मधुसृदनायेति कटिमुरः श्रीवत्सधारिणे । क्षव्रान्तकाय च भुजौ मणिकण्ठाय कण्ठकम् ‍ ॥८७॥

पूजयेन्नियतो भूत्वा सुरूपायेति वै मुखम् ‍ । स्वनान्मा शङ्ख चक्रे च शिरो ब्रह्माण्डधारिणे ॥८८॥

एवमभ्यर्च्य मेधावी प्राग्वंशस्याग्रतो घटम् ‍ । विन्यसेत्पुष्पवस्त्राढन्यं सितचन्दनचर्चितम् ‍ ॥८९॥

वैणवेऽभिनवे पावे स्थापयेन्मधुसूदनम् ‍ । जामदग्नन्येन रूपेण कृत्वा सौवर्णमग्न्तः ॥९०॥

दक्षिणे परशुं हस्ते तस्य देवस्य कारयेत् ‍ । सर्वगन्धैस्तु संपूज्य पुष्पैर्नानाविधैः शुभैः ॥९१॥

ततस्तत्याग्रतः कुर्बाज्जागरं भक्तिमान्नरः । प्रभाते विमले सूर्ये ब्राह्मणाप निवेदयेत् ‍ ॥९२॥

एवं नियमयुक्तस्य यत्फलंत तन्निबोध मे । काश्यपे ब्रह्मणो लोके वसित्वाप्सरसां गणैः ॥९३॥

स्धित्वा भौत्यं च सृष्टौ च चऋवर्ती भवेदध्रुवम् ‍ । ज्येष्ठे मासेऽप्येवमेव संकल्प्य विधिवन्नरः ॥९४॥

अर्चयेत्परमं देवं पुष्पैर्नानाविधैः शुभैः। नमो दामोदरायेति पादौ पूर्वं समर्चयेत् ‍ ॥९५॥

व्रिविकमायेति कटि धृतविश्वाय चोदरम् ‍ । उरः संबर्तकायेति कण्ठं संवत्सराय च ॥९६॥

सर्वासुधारिणे बाहुं स्वनान्माब्जरथाङ्गकौ । सहस्त्रशिरसेऽभ्यर्च्य शिरस्तस्य महात्मनः ॥९७॥

एवमभ्यर्च्य विधिवत्प्रागुक्तं विधिबन्न्यसेत् ‍ । प्राग्वद्‍स्त्रसुगन्धस्य सुवर्णौ रामलक्ष्मणौ ॥९८॥

अर्चयित्वा विधानेन प्रभाते ब्राह्मणाय तौ । दातव्यौ मनसा काममहिता पुरुषेप तु ॥९९॥

अपुव्रेण पुरा पृष्टो राज्ञा दशरथेन तु । पुव्रकामेन वदता बसिष्ठः षरताचिंतः ॥१००॥

इदमेब विधानं तु कथयामास वै द्विजः । सरहस्यं विदित्वाव्र स राजाकृतवानिदम् ‍ ॥१॥

तस्य पुव्रः स्वयं नज्ञे रामो नाम महाबलः । चतुर्द्धा सोऽव्ययो विष्णोः परितोषादजायत ॥२॥

एतदेवं मयाख्यातं परलोके सुखप्रदम् ‍ ॥३॥

श्रीकृष्ण उवाच ॥ आषाढेऽप्येवमेवं तु संकल्प्य विधिना नरः । अर्चयेत्पमं देवं गन्धपुष्पैः समान्हितः ॥४॥

वासुदेबाय पादौ तु कटिं संकर्षणाय च । प्रद्युग्नायेति जठरमनिरुद्धाय बै नमः ॥५॥

चकपाणिं भुजौ कण्ठे मुखं भॄषतथे तथा । स्वनान्मा शङ्खचके तु पुरुषायेति वै शिरः ॥६॥

एवमभ्यर्च्य मेधावी प्राग्वत्तस्याग्रतो घटम् ‍ । विन्यस्य वखसंयुक्तं तरयोपरि ततो न्यत्तेत् ‍ ॥७॥

काञ्चनं वासुदेवेति चकबाहुं सनातनम् ‍ । तमभ्यर्च्य बिधानेन गन्धपुष्पादिभिः क्रमात् ‍ ॥८॥

प्रारवृत्तं ब्राह्मणे दद्याद्वेदवादिनि सुव्रते । एषा ह्मुपोषिता राजन्विद्यां विप्रे प्रयच्छति ॥९॥

राज्यं च भ्रष्टराज्यानामपुव्राणां सुतान्बहूत् ‍ । मृतो विष्णुपुरे रम्ये क्रीडते कालमक्षयम् ‍ ॥११०॥

मन्वन्तराणि षट् ‍ ब्रिंशत्ततः कालात्यये पुनः । इहलोके भवेद्राजा सप्तजन्मनि मानवाः ॥११॥

दाता यशःक्षमायुक्तस्ततो निवीणमान्पुयात् ‍ । श्रीकृष्ण उवाच ॥ एवमेबं श्रावणे तु मासि संकल्प्य द्दादशीम् ‍ ॥१२॥

अर्चयेत्परमं देवं गत्धपुष्पनिवेदनैः बुधाय पादौ संपूज्य श्रीधरायेति वै कटिम् ‍ ॥१३॥

पद्मोद्भवाय जठरगुरः संवत्सराय च । सुग्रीवायेति वै कण्ठं भुजौ वै चित्रब्राहवे ॥१४॥

प्राग्वदस्त्राणि संपूज्य ब्राह्मणाय निबेदयेत् ‍ । अनेन विधिना सर्वं द्वादशीं समुपोषितः ॥१५॥

शुद्धरैदनेन तस्याभूत्स्वयं पुव्रो जनार्दनः । महतीं च श्रियं प्राप्म पुव्रपौव्रसमन्वितः ॥१६॥

भुक्त्वा राज्यश्रियं सोऽथ गतः परमिकां गतिम् ‍ । एष ते विधिरुद्दिष्टः श्रावणे मासि सत्तम ॥१७॥

एकैकोपोषिताप्यस्तु राज्यमेकैव यच्छति । किं पुनर्द्वादशैबाव्र दद्युरैन्द्रं महात्पदम् ‍ ॥१८॥

तद्वद्भाद्रपदे मासि शुक्लपक्षे तु द्वादशीम् ‍ । संकल्प्य विधिना देवमर्चयेत्परसेश्वरम् ‍ ॥१९॥

नमोऽस्तु कल्किने पादौ ह्रषीकेशाय वै कटिम् ‍ । म्लेच्छप्रध्वंसनायेति जगन्मूर्तेर तथोदरम् ‍ ॥१२०॥

शितिकण्ठाय कण्ठं तु खङ्गपाणीति वै भुजौ । शङ्खचके स्वनान्माव्र विश्वमेर्ते तथा शिरः ॥२१॥

एवमभ्यर्च्य मेधावी न्पाग्वत्तस्याग्रतो घटम् ‍ । विन्यस्य कल्किनं देवं सौवर्णं तव्र कारयेत् ‍ ॥२२॥

सितवस्त्रयुगच्छन्यंगन्धपुष्पोपशोभि तम् ‍ । कृत्वा प्रभाते विप्राय प्रदेयः शास्त्रवित्तमे ॥२३॥

एवं कृते भवेद्यत्तु तत्तिबोध मृपोत्तम । दशावतारदानेन पुजने चैव तत्फलम् ‍ ॥२४॥

पूज्यते मत्स्यरूपेण सर्बज्ञन्वमभीप्प्तुभिः । स्ववंशभरणायाथ कृर्मरूपी तु पूज्यते ॥२५॥

भवोदधिनिमग्नैस्तु वाराहः पूज्यते हरिः । नृसिंहनवरूपेण तद्‍त्पापभयान्नरः ॥२६॥

वामनं मोहनाशाय वित्तार्थे जमदग्निजम् ‍ । कूरशव्रुबिनाशाय जपेद्दाशरथिं बुधः ॥२७॥

बलकृष्णौ जपेद्धीमान्पुव्रकामो न संशयः । रूपकामो जपेद्‍बुद्धं कल्किनं शुव्रुषातने ॥२८॥

सर्वां दत्त्वा विधानेन पूजां प्रान्पोति वाञ्छितम् ‍ । श्रीकृष्ण उवाच ॥ ताद्वदाश्वयुजे मासि शुक्लपक्षे तु दादशीम् ‍ ॥२९॥

संकल्प्याभ्यर्चयेद्देबं पद्मनाभं सनातम् ‍ । पद्मनाभाय षादौ तु काटिं बै षद्मयोनये ॥१३०॥

उदरं सर्वदेवाय पुष्कराक्षाय वै उरः । अव्ययाय तथा शीर्षं प्राग्वदस्त्राणि पूजयेत् ‍ ॥३१॥

ततस्तस्याग्रतः कुम्भं माल्यवस्त्रसमन्वितम् ‍ । यथाशक्त्या सुवर्णस्य एद्मनाभस्यस्थापनम् ‍ ॥३२॥

राव्रौ तु जागरं कुत्वा प्रभाते विमले ततः । ब्राह्मणे तत्प्रदातव्यं संसारभयभीरुणा ॥३३॥

एवं कृते तु यत्पुण्यं तदूक्तं शक्यते कथम् ‍ । ब्रह्महत्यादि प्रापानि किं तु पञ्चेब भारत ॥३४॥

नश्यन्ति कृतपुण्यस्य विष्णोर्नामानुकीर्तनात् ‍ । श्रीकृष्ण उवाच ॥ शृणु राजन्महाबाहो कार्तिके मासि द्वादशीम् ‍ ॥३५॥

उपोष्य विधिना येन यथास्याः प्राप्यते फलम् ‍ । प्रास्विधानेन संकल्ष्य वासुदेवं प्रपूजयेत् ‍ ॥३६॥

अनुलोमेन देवेशं पूजयित्वा विचक्षणः । नमो दामोदरायैति सर्वाङ्गं पूजयेद्धरिम् ‍ ॥३७॥

एवं संपूज्य विधिना तस्याश्व चतुरो घटान् ‍ । स्थापयेद्रत्नगर्भांश्व सितचन्दनार्चितान् ‍ ॥३८॥

स्त्रग्दामालम्बितग्रीवान्सितवस्त्रैश्व गुष्ठितान् ‍ । स्थगितांस्ताम्रपाव्रे तु तिलपूर्णैः सकाञ्चनैः ॥३९॥

चत्वारः सागरास्ते च कथिता राजसत्तम । तन्मध्ये प्राग्विधानेन सौवर्णं स्थापयेद्धरिम ॥१४०॥

योगेश्वरमङ्गनिधिं विरक्तंपीतवाससम् ‍ । तद्वद्देवं च संपूज्य जागरं तव्र कारयेत ॥४१॥

कृत्वा तु वैष्णं योगं जपेद्योगेश्वरं हरिम् ‍ । गीतवाद्यादि सुस्वानै राव्रिः सा कलयेद्‍बुधः ॥४२॥

एवं कृत्वा प्रभाते तु ब्राह्मणान्पञ्च भोजयेत् ‍ । चत्वारः कलशा देयाश्वतुर्णां पञ्चमस्य हि ॥४३॥

योगेश्वरं च सौवर्णं दापयेत्प्रयतः शुचिः । ब्राह्मणाय समं दत्तं द्विगुणं वेदवादिने ॥४४॥

वेदवेदाङ्गविदुषे सहस्त्रगुणितं भवेत् ‍ । पञ्चमस्य रहस्यं तु स शतं चोपपादयेत् ‍ ॥४५॥

विधानं तस्य पञ्चैव दत्त्वा कोटिगुणोत्तरम् ‍ । इतिहासपुरानज्ञे दत्तं चैबाक्षयं भवेत् ‍ ॥४६॥

पञ्च दत्त्वा बिधानेन द्वादश्यां विष्णुमर्च्य च । विप्राणां भोजनं दद्याद्यथाशक्त्या सदक्षिणम् ‍ ॥४७॥

दीनानाथादिकान्सर्वान्पूजयेच्छक्तितो नृप । धरणीव्रतमेतत्तु पुरा कृत्वा प्रजापतिः । प्रजां लेभे ततो मुक्तिर्बह्मणा विष्णवे शुभे ॥४८॥

युवनाश्वे हि राजषिंरनेन विधिना पुरा । कृत्वा प्राप्तः शुभं लोके परं ब्रह्म च शाश्वतम् ‍ ॥४९॥

तथा हैहयदायादः कृतवीर्यी नराधिप । चक्रवर्तिसुतं लेभे सहस्त्रार्जुनमूर्जितम् ‍ ॥५०॥

शकुन्तलाप्येवमेव व्रतं चीत्बी नरोत्तमम् ‍ । लेभे शाकुन्तलं पुव्रं दुष्यन्तश्वकवर्तिनम् ‍ ॥५१॥

तथा पुराणराजानी वेदोक्ताश्वकवर्तिनः । अनेन विधिनाप्राप्ताश्वक्रबर्तित्वमुत्तमम् ‍ ॥५२॥

धरण्या अपि पाताले मग्नया चरितं पुरा । व्रतमेतत्ततो नान्मा धरणीव्रतमुच्यते ॥५३॥

समाप्तेऽस्मिंस्तदा देवी हरिणा क्रोडरूपिणा । उद्धता दशनाग्रेण स्थापिता नौरिवाम्भसि ॥५४॥

धरणीव्रतमेत्तते कथितं पाण्डुनन्दन । य इदं शुणुयाद्भक्त्या यश्व कुर्यान्नरोत्तम ॥५५॥

सर्वपापविइर्मुक्तो विष्णुसायुज्यतां ब्रजेत् ‍ ॥५६॥

चीर्णं रसातलतले गतया धरण्या तेन प्रसिद्धिसग्रमद्धरणीब्रतेति । सद्यः समाचरति धर्म तिर्द्धरित्यामुद्धुत्य सप्तपुरुषान्स बरं प्रयाति ॥१५७॥ [ ३५४६ ]

इति श्रीभविष्ये महापुरा णे उत्तरपर्बणि श्रीकृष्णयुधिष्ठिरसंवादे धरणीब्रतं नाम व्र्यशीतितमोऽध्यायः ॥८३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:25.4600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

विश्वाधार

  • n. मेधातिथि का पुत्र। 
RANDOM WORD

Did you know?

जीवनात वयाच्या कोणत्या वर्षी कोणती शांती करावी?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.